मुरैनामण्डलम्
मुरैनामण्डलम् ( ( शृणु) /ˈmʊrɛɪnɑːməndələm/) (हिन्दी: मुरैना जिला, आङ्ग्ल: Morena district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य चम्बलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मुरैना इति नगरम् ।
मुरैनामण्डलम् Morena District | |
---|---|
मुरैना जिला | |
मुरैनामण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे मुरैनामण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | मुरैना, पोरसा, अम्बाह, जावरा, कैलारस, सबलगढ |
विस्तारः | ४,९८९ च. कि. मी. |
जनसङ्ख्या (२०११) | १९,६५,९७० |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७१.०३% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४२% |
Website | http://morena.nic.in/ |
भौगोलिकम्
सम्पादयतुमुरैनामण्डलस्य विस्तारः ४,९८९ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भिण्डमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे ग्वालियरमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं मुरैनामण्डलस्य जनसङ्ख्या १९,६५,९७० अस्ति । अत्र १०,६८,४७० पुरुषाः, ८,९७,५५३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८४० अस्ति । अत्र साक्षरता ७१.०३% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मुरैना, पोरसा, अम्बाह, जावरा, कैलारस, सबलगढ ।
कृषिः वाणिज्यं च
सम्पादयतुअस्मिन् मण्डले गोधूमस्य कृषिः भवति । सर्षपः अपि तत्र अत्यधिकपरिमाणेन उत्पाद्यते ।
वीक्षणीयस्थलानि
सम्पादयतुकुतवारग्रामः
सम्पादयतुकुतवारग्रामः इति कुन्तलपुरग्रामस्य अपरं नाम अस्ति । इदं स्थलं महाभारतकालीनम् अस्ति । अत्र विशाला चम्बलद्रोणिः अस्ति । चम्बलद्रोण्याः समीपे इदं स्थलं स्थितमस्ति ।
मीतावलि
सम्पादयतु’मीतावलि’ इति इदं स्थलं रमणीयमस्ति । अस्मिन् स्थले पर्वतोपरि चतुःषष्ठियोगिनीनां मन्दिरम् अस्ति । इदं मन्दिरं १०० फीट उच्चतायां स्थितमस्ति । सिहोनिया, पदावली, राष्ट्रीय चम्बल अभ्यारण, पहाडगढ इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये मुरैनामण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://morena.nic.in/
http://www.census2011.co.in/census/district/286-morena.html