मुर्शिदाबादमण्डलम्
मुर्शिदाबादमण्डलम् | |
---|---|
मण्डलम् | |
देशः | भारतम् |
राज्यम् | पश्चिमबङ्गराज्यम् |
प्रशासनिकविभागः | प्रेसिडेन्सी |
केन्द्रनगरम् | बहरमपुर |
Area | |
• Total | ५,३२४ km२ |
Population (2011) | |
• Total | ७१,०२,४३० |
• Density | १,३३४/km२ |
Time zone | UTC+५:३० (भारतीय-मान-समयः) |
लोकसभाकेन्द्राणि | जङ्गीपुर, बहरमपुर, मुर्शिदाबाद |
Website | http://www.murshidabad.gov.in/ |
प्रसङ्गः
सम्पादयतुमुर्शिदाबाद (Murshidabad)भारतीयराज्यपश्चिमबङ्गस्य एकं मण्डलम् । अस्य मण्डलस्य केन्द्रनगरं "बहरमपुर" इति । बहुधर्म-जाति-संस्कृतेः सङ्गमस्थलं मुर्शिदाबादमण्डलं वैचित्रम् आवहति । पर्यटकाः बौद्ध-ब्राह्मण-वैष्णव-जैन-इस्लामधर्मीयजनानाम् एकदेशीकरणमत्र परिलक्ष्ययितुं शक्नुवन्ति । सर्वोपरि क्षेत्रमिदम् ऐतिहासिकप्रसङ्गात् विश्वप्रसिद्धम् ।
नामेतिहासः
सम्पादयतुक्रैस्तवीय प्रथमशतके महानगौडसम्राटशशाङ्कस्य राजधानी मुर्शिदबादमण्डलमासीत् । अष्टादशशतब्देः प्रथमार्धे मण्डलस्य वर्तमाननामकरणम् अभूत् । "मुर्शिदाबाद" इति नगरस्य नाम अनन्तरवर्तीकाले मण्डलस्यनाम अपि अभूत् । पुराकाले अस्य मण्डलस्य नाम मक्षुदाबाद मुघलराजा आकबरमहोदयेन दत्ता । "औरङ्गजेवशासनकाले" "कर्तलव खान्" अत्र सामन्तपदे आसीत् । औरङ्गजेव तस्मै मुर्शिद्-कुलि-खान् इति पदवीं दत्तवान् । १७०४ तमे वर्षे तस्यैव नामानुसारं मुर्शिदाबाद इति नगरस्य नाम अभूत् ।
प्रमुखदर्शनीयस्थलानि
सम्पादयतुहजारदुयारी-अट्टालिका
सम्पादयतु- हजारदुयारी-अट्टालिका मुर्शिदाबादमण्डलस्य प्रमुखपर्यटनस्थलम् । अट्टालिकायां सहस्रद्वराणि सन्ति, परन्तु ९०० एव वास्तवद्वराणि अन्ये प्रतीकीमात्रम् । ४१ एकर अस्या विस्तारः । १८३७ तमे संवत्सरे डंकन मैकलियोडमहोदयः मीरजाफरस्य उत्तराधिकारी नवाब-नजीमहूमांयू-जाहाय पाश्चात्यशैल्या अट्टालिकानिर्माणं कृतवान् । मनोरमा इयं अट्टालिका पर्यटकहृदयान् आह्लादयति ।
संग्रहालयः
सम्पादयतुअट्टालिकायाः समीपे एव विशालाकारसंग्रहालयः वर्तते । संग्रहालये शाहीनवाबजनानां आकर्षकवस्तुनि सन्ति । येषु अस्त्र-शस्त्रादयः, चित्रकलाकृतयः, हस्तिदन्तनिर्मितानि विविधवस्तुनि अन्यतमानि । अत्रस्थ सप्तशतद्विसहस्राधिकानि अस्त्रशस्त्रानि पर्यटकानां मुख्याकर्षणकेन्द्रम् । बृहदाकारग्रन्थालयोऽपि अस्य एव अंशरूपेण अत्र स्थितः ।
निजामत-इमामबाड़ा
सम्पादयतुवर्तमाने यत्र निजामत-इमामबाड़ा स्थिता तत्रैव सिराज्-उद्-दुल्लायाः इमामबाड़ा आसीत् । परन्तु अग्निसंयोगात् सा इमामबाड़ा विध्वंसाऽसीत् । १८४७ तमे संवत्सरे अस्या निर्माणम् अभवत् । हुमांयू-जाहस्य अपत्यं नवाबनजीम-मंसूर-अलीखान् अस्या निर्माता । निजामत-इमामबाड़ा समग्रभारते सर्वबृहत् इमामबाड़ा ।
कटरामस्जिद्
सम्पादयतुविशालगोलक(गुम्बद) तथा गगनचुम्बीस्तम्भ(मिनार्)-समन्वितं कटरामस्जिद् अतिरमणीयम् । १७२३-२४ तमे वर्षे नवाबमुर्शिद्-कुलीखान् अस्य निर्माणं कृतवान् । अस्य मुस्लिमदेवालयस्य ऐतिहासिकगुरुत्वमस्ति । अत्रैव नवाबमुर्शिद्-कुलीखान्-महोदयस्य शवस्मारकं विद्यते ।
परिवहनम्
सम्पादयतुवायुमार्गः
सम्पादयतुपर्यटकाः वायुमार्गेन कोलकाताविमानकेन्द्रं गन्तुं शक्नुवन्ति । ततः मुर्शिदाबादमण्डलं "बस"माध्यमेन अनयासेन संप्रप्यते ।
धूम्रशकटमार्गः
सम्पादयतुमुर्शिदाबादमण्डलस्य केन्द्रनगरे बहरमपुरे पर्यटनार्थं धूम्रशकटस्थानकं (स्टेशन्) निर्मितमस्ति । सियालदहस्थानकतः(स्टेशन) "भागीरथी एक्सप्रैस" एवं "लालगोला सवारी" इत्यादिनि धूम्रशकटयानानि बहरामपुरनगरं गन्तुं सहजलभ्यानि ।
भूमार्गः
सम्पादयतुपर्यटकाःपश्चिमबङ्गराज्यस्य विभिन्नप्रान्ततः तथा च भारतस्य अन्यराज्यतः अपि मुर्शिदाबादमण्डलं भूमार्गेन सुलभतया आगन्तुं शक्नुवन्ति ।