मृगशिरः

(मृगशिरा इत्यस्मात् पुनर्निर्दिष्टम्)

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते रोहिणी । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् रोहिणी भवति चतुर्थं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

मृगशिरानक्षत्रम्

आकृतिः सम्पादयतु

मृगशिरा शीर्षं त्रयम् - शीर्षाकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

सम्बद्धानि अक्षराणि सम्पादयतु

वे वो का की - मृगशिरानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम् सम्पादयतु

सोमो राजा मृगशीर्षेणागात् । शिवं नक्षत्रं प्रियमस्य धाम ।
आप्यायमानो बहुधा जनेषु । यत्ते नक्षत्रं मृगशीर्षं प्रियं राजन् प्रियतमम् ।
तस्मै ते सोम हविषा विधेम । शन्न एधि द्विपदे चतुष्पदे ।

मृगशिरानक्षत्रस्य अधिपतिः चन्द्रः । तैत्तिरीयब्राह्मणस्य कथनानुगुणं सोमराजः समस्तप्राणिभ्यः समृद्धिं यच्छन् मृगशिरानक्षत्रेण सह उदेति । नक्षत्रमिदं कल्याणकरि अस्ति । इदं चन्द्रस्य प्रियं गृहम् । ऋषिगणः सोमाय मृगशिरन्क्षत्राय च हविं प्रददाति । एतौ अस्माकं बलवर्धनं कुर्वन्ति । पशुसम्पत्तिं रक्षन्ति ।

आश्रिताः पदार्थाः सम्पादयतु

मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहङ्गाः ।
मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥

सुरभीणि सुगन्धद्रव्याणि । वस्त्राण्यम्बराणि । अब्जं यत्किञ्चिज्जलोद्भवम् । कुसुमानि पुष्पाणि । फलानि प्रसिद्धान्याम्रादीनि । रत्नानीन्द्रनीलप्रभृतीनि । वनचरा वनवासिनः । विहङ्गाः पक्षिणः । मृगा अरण्यप्राणिनः । सोमपीथयः सोमपाः । गान्धर्वा गेयज्ञाः । कामुकाः कामिनः । लेखहारा लेखवाहाः । एते सर्वम् एव मृगशिरसि ।

स्वरूपम् सम्पादयतु

शान्तिकपौष्टिकशिल्पव्रतकर्मोद्वाहकमङ्गलाद्यखिलम् ।
सुरसंस्थापनवास्तुक्षेत्रारम्भादि सिद्ध्यते सौम्ये ॥

मृगशिरानक्षत्रे शान्तिकर्म, पौष्टिककार्यं, शिल्पकार्यं, व्रतबन्धविवाहादीनि मङ्गलकार्याणि, देवताप्रतिष्ठा, वास्तुसम्बन्धीनि सर्वाणि कार्याणि कर्तुं शक्यन्ते ।

मृदुसंज्ञकनक्षत्राणि सम्पादयतु

मृदुवर्गोऽनूराधाचित्रापौष्णैन्दवानि मित्रार्थे ।
सुरतविधिवस्त्रभूषणमङ्गलगीतेषु च हितानि ॥

अथ मृदूनि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह - अनूराधा । चित्रा । पौष्णं रेवती । ऐन्दवं मृगशिरः । एतानि चत्वारि नक्षत्राणि मृदुवर्गः । तानि च मित्रार्थे मित्रवरणार्थं श्रवणादिप्रयोगे । सुरतविधौ सुरतकर्मणि । वस्त्रेषु वस्त्रकर्मादिषु । भूषणेष्वलङ्करणेषु । मङ्गलेषु विवाहोपनयनचूडाकरणेषु । गीते च । एतेषु च कर्मसु च हितानि श्रेष्ठानि ।


पश्य सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मृगशिरः&oldid=395737" इत्यस्माद् प्रतिप्राप्तम्