मृदङ्गः (वाद्यम्)
मृदङ्गवाद्यं (Mridangam) एकं जनप्रियं शास्त्रीयसङ्गीतताळवाद्यम् भवति । मृदङ्गवाद्यं कर्णाटकसङ्गीते उपयुज्यते । "अवनद्धवाद्यगणस्य" प्रसिद्धः प्रमुखः लयवाद्यं भवति । मृत् तथा अङ्गपदाभ्याम् अस्य वाद्यस्य मृदङ्गवाद्यम् इति व्यवहारः।
मृदङ्गस्य रचनाक्रमःसंपादित करें
मृदङ्गवाद्यस्य निर्माणार्थं काष्ठम्, त्वक्, (’करणे कल्लु’ इत्येतस्याः) कस्याश्चित् कृष्णशिलायाश्च उपयोगं कुर्वन्ति। पनसवृक्षस्य, दारुवृक्षस्य, नीम्बवृक्षस्य च काष्ठं विशिष्य अस्य वाद्यस्य निर्माणे उपयोगं कुर्वन्ति । दक्षिणभागस्य व्यासः वामभागस्य व्यासस्यापेक्षया न्यूनं भवति । मध्यभागस्य हरड अथवा कडग इति व्यवहारः अस्ति । दक्षिणपार्श्वे अजस्य चर्म स्थापयन्ति । दक्षिणपार्श्वे त्रिस्थरीयावरणं भवति । महिषचर्मणः अपि निर्माणे उपयोगं कुर्वन्ति ।
प्रसिद्धाः मृदङ्गवादकाःसंपादित करें
आभारते नैके मृदङ्गवादकाः सन्ति । तेषु प्रसिद्धानां नामानि विलिख्यन्ते । गोपालराव् अप्प्, शिवस्वामि अप्प, नारायणस्वामि अप्प, मान्पोण्डिया पिळ्ळे, पुदुक्कोट्टै दक्षिणामूर्ति पिळ्ळे, मुत्तुस्वामि तेवर्, कुंयुमणि अय्यर्, हेच् पुट्टाचार्, टि.एम्. पुट्टस्वामय्य, पालक्काड् सुब्बय्यर्, पाल्फाट् मणि अय्यर्, सि.के. अय्यामणि अय्यर्, वेल्लूरु रामभद्रन्, उमयाळप्पुरम् शिवरामन्, कारैकुडि मणि, तिरुवारूरु भक्तवत्सलन्, मन्नार्गुडि ईश्वरन्, टि.के.मूर्ति, पाल्घाट् रघु, श्रीमुष्णं राजाराव्, टि.वि.गोपालकृष्णन्, टि.वि.भद्राचार्, पि.जि.लक्ष्मीनारायणः, ए.वि.आनन्द, एम.टि.राजकेसरि, टि.ए.एस्.मणि, एम्.वासुदेवराव्, के.वि.प्रसाद्, चेलुवराजस्वामि, एच्.एस्.सुधीन्द्रः, अर्जुनकुमारः, आनूरु अनन्तकृष्णशर्मा,
- उडुपीक्षेत्रस्य मृदङ्गवादकाः, बालचन्द्रः आचार्यः, बालचन्द्रः भागवत, देवेशः भट्टः
बाह्यसम्पर्कतन्तुःसंपादित करें
- Mannarkoil J Balaji explains about the aspects of mridangam.
- Know about tala system and about mridangam