मेकेदाटु
मेकेदाटु कर्णाटके प्रसिद्धं प्रवासिक्षेत्रम् । एतद् कावेरी- अर्कावती नद्या: सङ्गमत: पञ्चकिलोमीटर् दूरे अस्ति । अत्र कावेरी नदी दृढशिलाखण्डान् कर्तयित्वा गहनं खातं निर्मितवती अस्ति । परित: स्थिता: बृहत्शिला: बहूनि रूपाणि प्राप्तवन्ति सन्ति । नद्या: अधोभागे शिलासु गहनानि गर्तानि निर्मितानि अभवन् ।
कावेरीनद्या निर्मितानां दशाधिकपादाङ्गुलमितानां गहनानां खातानां वैशाल्यं बहुन्यूनम् अस्ति इत्युक्ते काचित् अजा एतां पारं कर्तुं शक्नुयात् इति कारणेन एतस्य नाम ‘मेकेदाटु’ इति आगतम् अस्ति । प्रादेशिकभाषया मेके नाम अजा, दाटु नाम उल्लङ्घनस्थानम्।
कावेर्या निर्मितं शिल्पं ‘मेकेदाटु’ । एतस्य विस्मयस्य निर्माणं कथम् अभवत् इति एव रोचक: अंश: ।
तलकावेर्यां कावेरीनदी १३४१मीटर् उन्नतस्थाने जन्म प्राप्नोति । अत्र बहोवेगेन प्रवहन्ती नदी समप्रदेशं यदा प्राप्नोति तदा प्रवाहस्य वेगः न्यूनः भवति । मन्दगामिनी कावेरी स्वेन आनीतानि वस्तूनि अत्र क्षिपन्ती गच्छति । एतेन तलकाडुसिकतराशे: निर्माणं भवति । एवं मन्दगत्या प्रवहन्ती नदी शिवनसमुद्रे जलपातं निर्माय वेगं प्राप्नोति । इत: तमिळ्नाडुराज्यस्य होगेनकल्पर्यन्तं ४६३ मीटर् औनत्यं नष्टं भवति । तदा अधिकेन वेगेन जलं खड्गस्य तीक्ष्णतां प्राप्य दृढशिलामपि कर्तयति । एवम् अत्र गहनं खातं रूपितम् अस्ति । परित: स्थिता: बृहत्शिला: जलस्य प्रभावेन बहुविधानि रूपाणि प्राप्तवत्यः सन्ति । जलेन सह गच्छन् शिलाखण्ड: वर्तुलाकारेन चलन् भूमये शाणस्य कार्यं करोति । तदा नद्या: अन्तर्भागे बहुदीर्घप्रमाणस्य शिलागर्ता: भवन्ति । नद्या: जलं यदा उन्नतप्रदेशात् अधोभागं प्रति प्रवहति तदा जलेन सह सिकता: अपि आगच्छन्ति । ते प्रवाहस्य जले स्थित्वा शिलाखण्डानाम् उपरि वर्तुलाकारेण घट्टनं करोति । रन्ध्रकरणस्य यन्त्रमिव एषा प्रक्रिया प्रचलति । तदा वर्तुलाकारस्य गर्ता: नदीपात्रे रचिता: भवन्ति । एतान् एव ‘शिलाकुळि’ इति वदन्ति । कदाचित् एते बहु गहनतां विशालताम् अपि प्राप्तवन्त: भवन्ति ।