मेघरागः
मेघरागः(मल्हार) (Megha/ Meghamalhar Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । "काफिथाट्" गणस्य रागः भवति । करुणरसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः षड्जः (स) भवति । एवं संवादिस्वरः पञ्चमः (प) भवति । ओडवजात्यासहितः रागः भवति ।
- आरोहः - स म रे म प नि नि स
- अवरोहः - स नि प म रे, ग म रे स
- पक्कड - म प रे स, नि स रे स, नि प
समयः
सम्पादयतुमध्याह्नकालः अस्य रागस्य प्रशस्तकालः भवति । वर्षाकालः अतीवोत्तमकालः।
थाट्
सम्पादयतु- काफि