मेघालयराज्यम् ईशान्यभागे भारते विद्यमानं किञ्चन राज्यम् । मेघानाम् आलयः "मेघालयः"। अस्य राज्यस्य विस्तीर्णं ८.७०० चदरमैलपरिमितम् अस्ति । सा.श. २००० तमे संवत्सरे २,१७५,००० जनसंख्या आसीत् । राज्यस्य उत्तरभागे असमराज्यम्, दक्षिणे बाङ्ग्लादेशश्च भवतः। शिलाङ्ग अस्य राज्यस्य राजधानी । अस्य नगरस्य जनसंख्या २६०,००० भवति । रज्यस्य तृतीयस्य एकांशः अरण्यप्रदेशः अस्ति । असमराज्यात् त्रयाणां मण्डलानां खासिहिल्स्, जैनतियाहिल्स् तथा गारोहिल्स् विभागकरणेन १९७२ तमे संवत्सरे मेघालयराज्यस्य स्थापनम् अभूत् ।

मेघालयराज्यम्
Official seal of मेघालयराज्यम्
Seal
भारते मेघालयः
भारते मेघालयः
मेघलयस्य भूपटः
मेघलयस्य भूपटः
राष्ट्रम्  भारतम्
उद्घोषणम् २१ जनवरि १९७२
राजधानी शिल्लाङ्ग्
मण्डलानि ११
Government
 • राज्यपालः रञ्जित् शेखर मूशहरी
 • मुख्यमन्त्री मुकुल् सङ्ग्मा
Area
 • Total २२७२० km
Area rank २२तम
Population
 (२०११)
 • Total २९६४००७
 • Rank २३तम
 • Density १३०/km
Time zone UTC+05:30 (भारतीय कालगणनम्)
साक्षरतापरिमाणम् ७२.१% (१५तम)
भाषाः खासि, प्नार्भाषा,गरो,हिन्दी, आङ्ग्लभाषा
Website http://meghalaya.nic.in meghalaya.nic.in

भौगोलिकम्

सम्पादयतु
 

मिघालयराज्यम् मेघालयस्य “प्रस्थभूमिः” इति व्यवहारः अस्ति । अस्मिन् अधिकतया प्राचीनशिला खण्डसदृशाः विद्यन्ते । आङ्गाराष्म, चूर्णशिला, युरेनियम् तथा सिलिमनैट सदृशाः खनिजाः शिलारूपाः भवन्ति । मेघालये काश्चन नद्यः वहन्ति । तासु काश्चन वर्षाश्रिताः सन्ति । अतः कालानुगुण्येन वहन्ति । डेरिङ्ग, साण्डा, बान्द्रा, भोगै, डारेङ्ग, सिसाङ्ग, नितै तथा भूपै इत्यादीनि गारोहिल्स् प्रदेशस्य मुख्याः नद्यः । उम्ख्रि, उमियम्, किञ्चियाङ्ग, माव्वा, उमियिव, मैन्गोट तथा मैण्ट्डु इत्यादीनि प्रस्थभूमेः केन्द्रभागस्य तथा पूर्वविभागस्य मुख्याः नद्यः भवन्ति । एताः नद्यः गहनकन्दराणां तथा सुन्दरजलपातानां सृष्टिकर्त्र्यः भवन्ति । प्रस्थभूमेः उन्नतश्रेणिः १५० तः १९६१ मी. भवति । खासिहिल्स् प्रदेशे विद्यमानायाः प्रस्थभूमेः केन्द्रभागस्य औन्नत्यम् अधिकं भवति । जैनतियाहिल्स् प्रदेशे विद्यमानः पूर्ववलयः औन्नत्ये द्वितीयः भवति । मेघालये उन्नतः शिलाङ्गशिखरः भवति । खासिहिल्स् प्रदेशे विद्यमानः शिखरः शिलाङ्गशिखरस्यापेक्षया उन्नतः भवति । अयं शिखरः १९६१ मि. उन्नतः अस्ति । प्रस्थभूमेः पश्चिमविभागे विद्यमानः गारोहिल्स वलयः प्रायः समतलप्रदेशः भवति । गारोहिल्स वलयस्य नोक्रेक् शिखरः उन्नतः भवति । अस्य औन्नत्यं १५१६ मिटर्परिमितं भवति ।

जलवायुः

सम्पादयतु

मेघालय-राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । ग्रीष्मर्तौ अस्य राज्यस्य अधिकतमं तापमानं २६ डिग्रीसेल्सियस्-मात्रात्मकं भवति । शीतर्तौ अस्य नगरस्य तापमानं ९ डिग्रीसेल्सियस्-मात्रात्मकं भवति । खासीहिल्स्-क्षेत्रे, जयन्तियाहिल्स्-क्षेत्रे च वर्षायाः आधिक्यं भवति । अस्य राज्यस्य पश्चिमभागे प्रायः २,६०० मिलिमीटरमितम्, उत्तरभागे २,५०० तः ३,००० मिलिमीटरमितं, दक्षिण-पूर्वभागयोः ४,००० मिलिमीटरमितं च वर्षामानं भवति []

मेघालय-राज्ये बह्व्यः नद्यः प्रवहन्ति । सिमसैङ्ग-नदी, माण्डा-नदी, जाञ्जीराम-नदी, डैमरिङ्ग-नदी, भोगई-नदी, रिङ्ग्गी-नदी, गनोल-नदी च इत्यादयः मेघालय-राज्यस्य प्रमुखाः नद्यः सन्ति । एताः नद्यः नौकाचालनाय उपयुक्ताः न सन्ति । यतः इदं क्षेत्रं पर्वतीयम् अस्ति । माण्डा-नदी, जाञ्जीराम-नदी, डैमरिङ्ग-नदी च इत्येताः नद्यः “गारो” इत्यस्य पर्वतक्षेत्रे उत्तरदिशि प्रवहन्ति । गनोल-नदी, रिङ्ग्गी-नदी च पश्चिमदिशि प्रवहति । सिमसैङ्ग-नदी दक्षिणदिशि प्रवहति । इयं नदी गारो-पर्वतीयक्षेत्रस्य बृहत्तमा नदी अस्ति । मेघालय-राज्ये तडागाः अपि सन्ति । माफलङ्ग-तडागः, थाडलास्किन-तडागः, उमियम-तडागः, उमियमर्त्वान-तडागः, मिलुन्द-तडागः, नपाक-तडागः, मिताङ्ग-तडागः च अस्य राज्यस्य प्रमुखाः तडागाः सन्ति []

इतिहासः

सम्पादयतु

मेघालय-राज्यस्य इतिहासः षोडशशताब्दीतः प्राप्यते । ई. स. १७६५ तमे वर्षे इदं राज्यम् असम-राज्ये आसीत् । तस्मात् कालात् इदं क्षेत्रं ब्रिटिश-जनानाम् आधीन्ये आसीत् । “ईस्ट् इण्डिया कम्पनी” इत्यस्य संस्थायाः जनाः खासि-जातेः जनैः सह सम्पर्कं कृतवन्तः । तस्मिन् समये खासि-जनाः सिलहट-क्षेत्रस्य सीमायां स्थिते पाण्डुआ-स्थले वस्तूनां व्यापारं कुर्वन्ति स्म । ई. स. १८१३ तमे वर्षे खासीपर्वतीयक्षेत्रेषु मिशनरी-जनाः प्रविष्टवन्तः । ई. स. १८६६ तमे वर्षे ब्रिटिश-जनैः शासनव्यवस्थायै तुरा-नगरे ब्रिटिश-सर्वकारस्य प्रशासनिकमुख्यालयः स्थापितः । ई. स. १८६६ तमे वर्षे “खासी पुनरुत्थान आन्दोलनम्” आरब्धम् । अस्मिन् आन्दोलने खासि-जनैः मिशनरी-जनानां वैरोद्धारं कृतम् । ई. स. १९२८ तमे वर्षे “साइमन कमीशन” इत्ययं समूहः समागतवान् । अतः तस्मिन् समये “खासी नेशनल फ्रण्ट्” इत्यनेन समुहेन पृथक्त्वेन खासी-राज्यं याचितम् । ई. स. १९५४ तमे वर्षे अस्य क्षेत्रस्य निवासिभिः पुनः पृथग्राज्यस्य याचना कृता आसीत् । किन्तु ई. स. १९५६ तमे वर्षे “राज्य पुनर्गठन आयोग” इत्यनेन तेषां याचना अस्वीकृता । ई. स. १९६० तमे वर्षे “ऑल् पार्टी हिल् लीडर्स् कॉन्फ्रेन्स्” इतीदं सङ्घटनं सङ्घटितम् । अन्ते ई. स. १९७२ तमे वर्षे इदं क्षेत्रं स्वतन्त्रभारतस्य राज्यत्वेन उद्घोषितम् आसीत् । अस्य नाम मेघालयः इति कृतम् । “मेघानाम् आलयः इति मेघालयः” इति । प्रदेशः अयं पर्वतीयः अस्ति । वर्तमाने शिलाङ्ग-नगरं मेघालयस्य राजधानी अस्ति । किन्तु इदं नगरम् ई. स. १८७४ तमे वर्षे असम-राज्यस्य राजधानी आसीत् []

जनसंख्या

सम्पादयतु

मेघालयराज्ये वनवासिनः एव अधिकतया निवसन्ति । तेष्वपि ’खासि’ जनाः अधिकतया सन्ति । ’गारोसमुदायस्थाः’ अपि अधिकतया निवसन्ति । अन्ये जैन्, तियार , कोच् , हजोङ्ग , दिमासा, ह्मार, कुकि, लखर, मिकिर, रभा तथा नेपाळि जनसमुदायाः अत्र निवसन्ति । भारते अधिकया विद्यमानेषु क्रिश्चियनसमुदायेषु त्रिषु राज्येषु मेघालयोऽपि एकं राज्यम् । अस्मिन् राज्ये ७०.३% प्रतिशतं क्रिश्चियनजनाः निवसन्ति । अन्ये द्वे राज्ये नागाल्याण्ड, मिजोरामश्च भवतः । १९९१ तमे संवत्सरे मेघालयराज्ये ६५% प्रतिशतं क्रिश्चियनजनाः वसन्तिस्म । ११ लक्ष क्रिश्चियनजनाः वसन्तिस्म । अस्मिन् समये मिजोरामापेक्षया मेघालये २००१ तमे संवत्सरे क्रिस्तजनाः अधिकतया वसन्तिस्म । २००१ तमे संवत्सरे अस्मिन् राज्ये १००० पुरुषाणां ९७५ स्त्रीणाम् लिङ्गानुपातः अस्ति । मेघालये पुरुषाणां प्रामुख्यता तावान्नास्तीति अभिप्रायः अस्ति ।

मण्डलानि

सम्पादयतु

मेघालयराज्यं त्रिषु विभागेषु विभक्तम् । जैनतियाहिल्स्, खासिहिल्स्, गारोहिल्स् त्रयः विभागाः सन्ति । ११ मण्डलानि अस्मिन् राज्ये सन्ति ।

सङ्केतः मण्डलम् केन्द्रम् अधिकृतजालपुटम्
EK पूर्व-खासिहिल्स् शिल्लौङ्ग http://eastkhasihills.gov.in/
WK पश्चिम-खासिहिल्स् नोङ्गस्तोइन् http://westkhasihills.gov.in/
SWG नैऋत्य-खासिहिल्स् मौकरवट् http://southwestgarohills.gov.in/
RB रि-भोई नोङ्गपोह् http://ribhoi.gov.in/
EJH पूर्व-जाइन्तियाहिल्स् ख्लेरिएट् http://jaintia.nic.in/ Archived २०१४-०३-२८ at the Wayback Machine
WJH पश्चिम-जाइन्तियाहिल्स् जोवाइ http://jaintia.nic.in/ Archived २०१४-०३-२८ at the Wayback Machine
EG पूर्व-गारोहिल्स् विल्ल्यम्नगर http://eastgarohills.nic.in/ Archived २००८-०६-१५ at the Wayback Machine
NG उत्तर-गारोहिल्स् रेसुबेल्पारा http://northgarohills.gov.in/
WG पश्चिम-गारोहिल्स् तुरा http://westgarohills.gov.in/
SG दक्षिण-गारोहिल्स् बाघ्मारा http://southgarohills.gov.in/
SWG नैऋत्य-गारोहिल्स् अम्पति http://southwestgarohills.gov.in/

महानगराणि

सम्पादयतु

मेघालय-राज्ये मुख्यरूपेण द्वे महानगरे स्तः । शिलाङ्ग, चेरापूञ्जी च । मेघालयराज्यं पर्वतीयक्षेत्रम् अस्ति । अतः अस्य राज्यस्य नगराणां विकासः मन्दगत्या जायमानः अस्ति ।

शिलाङ्ग

सम्पादयतु

शिलाङ्ग-नगरं मेघालयस्य राजधानी अस्ति । इदं नगरं मेघालयराज्यस्य पूर्वखासिहिल्स्-मण्डलस्य केन्द्रम् अस्ति । इदं नगरं “पूर्वदिशः स्कॉट्लैण्ड्” इति कथ्यते । नगरमिदं पर्वतक्षेत्रे स्थितम् अस्ति । अतः अस्य नगरस्य प्राकृतिकं सौन्दर्यम् अपि अद्भूतं वर्तते । अस्य नगरस्य पर्यटनस्थलानि जनान् आकर्षन्ति । तत्र बहवः जलप्रपाताः, पर्वतशिखराणि च मनोहराणि सन्ति । “शिलाङ्ग पीक”, एलिफेण्ट् जलप्रपातः, स्वीट्-जलप्रपातः, “लैडी हैदरी पार्क्”, वार्ड्स्-तडागः, “पुलिस बाजार” च अस्य नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । “डॉन् बोस्को सेण्टर् – सङ्ग्रहालयः” च अपि अस्मिन् नगरे स्थितः अस्ति । अस्मिन् सङ्ग्रहालये भारतीयसंस्कृतिः सङ्गृहीता अस्ति । मेघालय-राज्यं जनजातीयराज्यम् अस्ति । अस्मिन् राज्ये खासी, जैन्तिय, गारो च एताः तिस्रः जनजातयः निवसन्ति । शिलाङ्ग-नगरे खासी-जनजातेः जनाः निवसन्ति । इयं जनजातिः भारतस्य पुरातनीषु जनजातिषु अन्यतमा अस्ति । अस्याः जातेः जनाः कन्यायाः जन्मोत्सवम् आचरन्ति । ते कथयन्ति यत् - “कन्या एव वंशवृद्धिं करोति” इति ।

पुरा शिलाङ्ग-नगरम् असम-राज्यस्य राजधानी आसीत् । अस्य नगरस्य जलवायुः सुखदः, स्वास्थ्यकरः च अस्ति । अतः इदं नगरम् उत्तर-पूर्वदिशः पर्वतीयक्षेत्रम् अस्ति । इदं प्रशासनिकः मुख्यालयः अपि अस्ति । पुरा अस्मिन् राज्ये त्रयः ग्रामाः एव आसन् । आङ्गलैः शिलाङ्ग-नगरं स्थापितम् । शिलाङ्ग-नगरे बङ्गाली-जनाः अपि निवसन्ति । अस्य नगरस्य विकासाय बङ्गालीजनानां महद्योगदानम् अस्ति । अस्मिन् नगरे बङ्गाली-जनाः “बाबू” इति नाम्ना ज्ञायन्ते । वर्षर्तौ, शीतर्तौ च शिलाङ्ग-नगरस्य विहाराय जनाः गच्छन्ति ।

४० क्रमाङ्कस्य राष्ट्रियराजमार्गः शिलाङ्ग-नगरं गुवाहाटी-नगरेण सह सञ्योजयति । ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गः इदं नगरं सिलचर-नगरेण, त्रिपुरा-राज्येन च सह सञ्योजयति । अनेन प्रकारेण इदं नगरं समीपस्थैः राज्यैः, नगरैः च सह सम्बद्धम् अस्ति । मेघालय-राज्ये धूमशकटमार्गाः न सन्ति । किन्तु असम-राज्यस्य गुवाहाटी-नगरे मेघालय-राज्यस्य समीपस्थं रेलस्थानकम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । उमरोई-नगरस्य विमानस्थानकं शिलाङ्ग-नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं शिलाङ्ग-नगरात् ३० किलोमीटरमिते दूरे स्थितम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकं शिलाङ्ग-नगरात् ११७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा शिलाङ्ग-नगरं प्राप्यते । अनेन प्रकारेण शिलाङ्ग-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तेन जनाः सरलतया शिलाङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।

चेरापूञ्जी

सम्पादयतु

चेरापूञ्जी-नगरं मेघालय-राज्यस्य पूर्वीखासीहिल्स्-मण्डलस्य पत्तनम् अस्ति । चेरापूञ्जी-नगरं मेघालय-राज्यस्य लोकप्रियं नगरं विद्यते । इदं नगरं सोहरा इति नाम्ना अपि ज्ञायते । नगरमिदं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । पृथिव्याः आर्द्रतमं नगरम् अस्ति । तत्र बहवः पर्वताः, जलप्रपाताः च सन्ति । अस्मिन् नगरे आवर्षं वृष्टिः भवति । तेन अस्य नगरस्य मृत्तिका अल्पभारा भवति । अतः अत्र कृषिः अशक्या । यतः वर्षायाः कारणेन मृत्तिका शिथिला भवति । अनन्तरम् अग्रिमायां वर्षायां सा मृत्तिका जलेन सह वहति । तेन कृषिं कर्तुं न शक्यते । किन्तु तत्र पर्यटनस्थलानि अपि बहूनि सन्ति । मास्मई, नोहकालीकई, डैन थ्लेन च एते जलप्रपाताः सन्ति । नोहकालीकई-जलप्रपातः भारतस्य बृहत्तमेषु जलप्रपातेषु अन्यतमः अस्ति । अस्मिन् नगरे सा-इ-मीका-उद्यानम् अस्ति । तेन जनानां सम्मर्दः अपि अधिकः भवति । अस्य नगरस्य प्राकृतिकसौन्दर्येण नगरमिदम् आकर्षकम् अस्ति । समुद्रतलात् इदं नगरं १४८४ मीटरमिते औन्नत्ये स्थितम् अस्ति । अस्मिन् नगरे प्रतिवर्षं प्रायः ४६३.६६ इन्चमिता वर्षा भवति ।

अस्मिन् नगरे भूमार्गः एव परिवहनमार्गः मुख्यः वर्तते । शिलाँग-नगरात् चेरापूञ्जी-नगरं ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । नगरेऽस्मिन् मेघालय-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । अतः पर्यटकाः तैः बसयानैः भ्रमणं कुर्वन्ति । चेरापूञ्जी-नगरे रेलस्थानकं नास्ति । गुवाहाटी-नगरस्य रेलस्थानकं चेरापूञ्जी-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं चेरापूञ्जी-नगरात् १५० किलोमीटरमिते दूरे स्थितम् अस्ति । इदं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । शिलॉङ्ग-नगरस्य विमानस्थानकं चेरापूञ्जी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं कोलकाता-नगरेण सह सम्बद्धम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । अतः वर्तमाने काले गुवाहाटी-नगरस्य विमानस्थानकम् एव समीपस्थम् अस्ति । चेरापूञ्जी-नगरात् गुवाहाटी-नगरं १७० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-विमानस्थानकं बेङ्गळूरु-महानगरेण, चेन्नै-महानगरेण, देहली-महानगरेण, मुम्बई-महानगरेण इत्यादिभिः भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः जनाः सरलतया चेरापूञ्जी-नगरं प्राप्तुं शक्नुवन्ति ।

आङ्ग्लभाषा मेघालयस्य राज्यभाषा अस्ति । ’खासि’ तथा ’गारो’ मुख्ये भाषे भवतः। ’खासि’ भाषा आस्ट्रो-एष्याटिक् समूहस्य मोनखैरस्य कुटुम्बस्य अङ्गम् अस्ति । प्रायः मेघालयस्थाः ९००,००० जनाः अनया खासि भाषया व्यवहरन्ति । खासिभाषायां विद्यमानानि कानिचन पदानि बङ्गालि तथा आर्यादि भाषातः स्वीकृतानि सन्ति । खासि भाषायाः लिपिः नास्ति । भारते मोनखैर कुटुम्बेषु अवसिष्टासु भाषासु खासि अपि एका भाषा । गारो, भोडो भाषयोः साम्यता अस्ति । अस्य राज्येषु अधिकाः जनाः गारो, अवे, चिसाक, अबेङ्ग, गाञ्चिङ्ग, कामरूप, आचिक,डाका तथा माट्टियादि भाषाप्रभेदेषु व्यवहरन्ति । अस्य राज्यस्य अपरा भाषा जैन तियाहिल्स् जनानां व्यवहारभाषा भवति । प्रायः खासि भाषायाः परिवर्तितं रूपं भवति।

राजनीतिः

सम्पादयतु

मेघालय-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्य राज्यस्य विधानसभायां ६० स्थानानि सन्ति । अस्य राज्यस्य लोकसभायं द्वे स्थाने, राज्यसभायाम् एकं स्थानं च अस्ति । लोकसभायाः भूतपूर्वाध्यक्षः “पी. ए. सङ्गमा” इत्याख्यः अपि मेघालय-राज्येन सह सम्बद्धः अस्ति । हिल् स्टेट् पीपुल्स् डेमोक्रेटिक् पार्टी, पीपुल्स् डेमोक्रेटिक् पार्टी, पीपुल्स् डेमोक्रेटिक् मूवमेण्ट्, नेशनल् कॉङ्ग्रेस् पार्टी, यूनाइटेड् डेमोक्रेटिक् पार्टी च इत्यादयः अस्य राज्यस्य राजनैतिकसमूहाः सन्ति []

शिक्षणम्

सम्पादयतु

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं मेघालय-राज्यस्य साक्षरतामानं ७५.४८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ७७.१७ प्रतिशतं, स्त्रीणां साक्षरतामानं ७३.७८ प्रतिशतम् अस्ति । शिलाङ्ग-नगरस्य “नॉर्थ् ईस्टर्न् हिल् युनिवर्सिटी”, शिलाङ्ग-नगरस्य “नॉर्थ् ईस्टर्न् इन्दिरा गान्धी रीजनल् इन्स्टीट्युट् ऑफ् हेल्थ् एण्ड् मेडिकल् साइन्सेज्”, शिलाङ्ग-नगरस्य “सैक्रेड् हार्ट् थियोलॉजिकल् कॉलेज्” च इत्यादीनि मेघालयराज्यस्य शैक्षणिकसंस्थानानि सन्ति []

अर्थव्यवस्था, कृषिः, उद्योगश्च

सम्पादयतु

मेघालय-राज्यस्य जनाः मुख्यत्वेन कृष्याधारिताः सन्ति । अस्य राज्यस्य ८० प्रतिशतं जनाः कृषिकार्याणि, कृषिसम्बद्धान् उद्योगान् च कुर्वन्ति । मेघालय-राज्यस्य जलवायुः, मृत्तिका च कृषये अनुकूला अस्ति । अस्य राज्यस्य तापमानम् उष्णकटीबन्धीयं भवति । अतः फलानि, शाकानि च अधिकमात्रायाम् उत्पाद्यन्ते । तण्डुलाः, लवेटिकाः च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति []

अस्मिन् राज्ये बहवः उद्योगाः अपि सन्ति । “मेघालय एसेन्शल् एण्ड् केमिकल् लिमिटेड्”, “मेघालय फाइटो केमिकल्स् लिमिटेड्”, “कोमोराह लाइमस्टोन् माइनिङ्ग् लिमिटेड्”, “यूनियन् काल्स्नेट्स् लिमिटेड्”, चेरापूञ्जी-नगरे “वज्रचूर्णस्य यन्त्रागारः” च इत्यादयः अस्य राज्यस्य प्रमुखाः उद्योगाः सन्ति । मेघालयराज्ये आहत्य १,५६० लघ्वुद्योगाः सन्ति । अस्मिन् राज्ये आहत्य ५६ उद्योगाः पञ्जीकृताः । अङ्गारः (Coal), चूर्णपाषाणः, केओलिन्, फेल्डस्पार्, स्फटिकं, अभ्रकं, जिप्सम्, बॉक्साईट् इत्यादयः खानिजाः प्राप्यन्ते । ई. स. १९९३ तमे वर्षे अस्मिन् राज्ये २५,४३,००० टनमात्रात्मकाः अङ्गाराः (coal), २,०९,००० टनमात्रात्मकाः चूर्णपाषाणाः च उत्पादिताः । मेघालय-राज्यस्य सिलीमेनाइट् (Sillimanite) इत्ययं खानिजः सम्पूर्णे विश्वस्मिन् श्रेष्ठः मन्यते । मेघालय-राज्यादेव सम्पूर्णभारते सिलीमेनाइट्-खानिजस्य आपूर्तिः क्रियते []

कला, संस्कृतिश्च

सम्पादयतु

मेघालय-राज्यस्य संस्कृतिः बहुधा वर्तते । प्रत्येकस्मिन् क्षेत्रे विभिन्नाः जातयः निवसन्ति । अतः सर्वेषां संस्कृतिः, परम्परा च भिन्ना भवति । अस्य राज्यस्य जनाः नृत्यप्रेमिणः भवन्ति । सर्वे सङ्गीतप्रियाः भवन्ति । “पोमम्बलाङ्ग-नौगक्रेम” खासिजनजातेः प्रमुखं पर्व अस्ति । एवं च “वाङ्गाला” इत्ययम् उत्सवः गारोजनजातेः प्रमुखोत्सवः वर्तते । “माङ्गोना अजीओर”, “राङ्गूच गाल”, “डेन विलियम्स्” इत्यादयः अपि अस्य राज्यस्य प्रमुखाः उत्सवाः सन्ति । जयन्तिला-जनाजातेः जनाः “टाईगर् फेस्टिवल्”, “बाम फलार” च इत्येतौ उत्सवौ आचरन्ति []

मेघालय-राज्ये ईसाई-धर्मस्य जनाः अधिकमात्रायां सन्ति । आहत्य जनसङ्ख्यायाः ७५ प्रतिशतं जनाः ईसाई-धर्मस्य अनुसरणं कुर्वन्ति । अस्य राज्यस्य गारो-जातेः ९० प्रतिशतं, खासि-जातेः ८० प्रतिशतं च जनाः ईसाई-धर्मम् आचरन्ति । हजोङ्ग-जातेः ९७ प्रतिशतं, कोच-जनजातेः ९८.५३ प्रतिशतं जनाः हिन्दुधर्मम् आचरन्ति ।

वीक्षणीयस्थलानि

सम्पादयतु

मेघालय-राज्यं पर्वतीयक्षेत्रे स्थितम् अस्ति । अतः तस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । शिलाङ्ग-नगरं मेघालय-राज्यस्य राजधानी अस्ति । तस्य नगरस्य समीपे “लैडी हैदरी-उद्यानं”, “वार्ड्-तडागः, “शिलाङ्ग-पर्वतशिखरं”, “एलीफेण्ट्-जलप्रपाताः”, “पोलो ग्राउण्ड्” च इत्यादीनि प्रमुखाणि पर्यटनस्थलानि सन्ति []चिरापुञ्जि ईशान्य भारतस्य जनप्रियं प्रेक्षणीयस्थलम् । चिरापुञ्जि शिलाङ्गनगरात् दक्षिणदिशि विद्यते । ’एलिफण्ट जलपातः’, ’शाद्धुम् जलपातः’, ’वेय्निया जलपातः’, ’बिषप् जलपातः’, ’नोह्कालिकेय् जलपातः’, ’ल्याङ्ग्षियाङ्ग् जलपातः’, ’स्वीट् जलपातश्च’ प्रसिद्धाः जलपाताः भवन्ति । मासिन्राम् समीपे “जाक्रेम् अष्णजलउत्सांसि” सन्ति । रोगनिरोधकशक्तिः ऊष्णजले अस्ति । मेघालये मानवनिर्मिताः नैसर्गिकाश्च तटाकाः सन्ति । गुवहाटीतः शिलाङ्गगमनमार्गे विद्यमानस्य 'उमियम्' तटाकस्य “बडापानि” इति ख्यातिरस्ति । उमियम् तटाकः जानाकर्षकं प्रवासिस्थानं भवति । थङ्गखारङ्ग् उद्यानम्, इको उद्यानम्, सस्यशास्त्रीयोद्यानम्, लेडिहैदरि उद्यानानि प्रसिद्धानि भवन्ति ।

पश्चिम-गारो-हिल्स्

सम्पादयतु

पश्चिम-गारो-हिल्स्-मण्डलं मेघालय-राज्यस्य द्वीतीयं बृहत्तमं मण्डलम् अस्ति । अस्य मण्डलस्य मुख्यालयः तुरा-नगरम् अस्ति । तुरा-नगरं मेघालय-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं मण्डलं प्रायः पर्वतीयक्षेत्रम् अस्ति । अस्य मण्डलस्य विस्तारः ३७१४ चतुरस्रकिलोमीटरमितः अस्ति । अस्मिन् मण्डले अपि बहव जलप्रपाताः, तडागाः, नद्यः, पर्वताः च सन्ति । अनेन अस्य मण्डलस्य सौन्दर्यं वर्धते । ये जनाः पर्वतारोहिणः सन्ति । तेभ्यः इदं मण्डलं रमणीयं भवति । “नोकरेक बायोस्फीयर्”, “चिबराग्रे पेल्गा जलप्रपातः”, “रोङ्गबैङ्ग डेयर्” च अस्य मण्डलस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । तत्र सासातग्रे-ग्रामः अस्ति । अयं ग्रामः नारङ्गफलाय प्रसिद्धः अस्ति । अस्मिन् मण्डले गारोस-जनजातयः निवसन्ति । गारोस-जनजातिः बोडो-परिवारेण सह सम्बद्धा अस्ति । वर्षर्तोः अनन्तरं शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं, सुखदं, स्वास्थ्यकरं च भवति । अस्य मण्डलस्य केन्द्रं तुरा-नगरम् अस्ति । तुरा-नगरम् अस्य मण्डलस्य प्रवेशद्वारमपि अस्ति । तुरा-नगरात् गुवाहाटी-नगरं २२२ किलोमीटरमिते, शिलाङ्ग-नगरं ३०९ किलोमीटरमिते च दूरे स्थितम् अस्ति । ५१ क्रमाङ्कस्य राष्ट्रियराजमार्गे तुरा-नगरं स्थितम् अस्ति । अतः इदं मण्डलं भूमार्गेण समीपस्थैः नगरैः सह सम्बद्धम् अस्ति । असम-राज्यस्य गुवाहाटी-नगरे अस्य मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । अस्मात् मण्डलात् गुवाहाटी-नगरं २१० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुवाहाटी-नगरस्य विमानस्थानकम् अस्य मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा तुरा-नगरं प्राप्यते । अनेन प्रकारेण इदं मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

पूर्वीगारोहिल्स्

सम्पादयतु

पूर्वीगारोहिल्स्-मण्डलं मेघालयराज्यस्य एकादशमण्डलेषु अन्यतमम् अस्ति । अस्य मण्डलस्य सर्वकारीयकार्याणि विलियमनगरस्य प्रशासनिकमुख्यालये भवन्ति । इदं मण्डलं २६०३ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । अस्य मण्डलस्य दक्षिणदिशि दक्षिणगारोहिल्स्-मण्डलं, पूर्वदिशि खासीहिल्स्-मण्डलं, पश्चिमदिशि पश्चिमगारोहिल्स्-मण्डलं च स्थितम् अस्ति । अस्मिन् मण्डले गारो-जातेः जनाः निवसन्ति । इयं जातिः मेघालय-राज्यस्य द्वितीया बृहत्तमा जातिः वर्तते । तत्र बहवः जातयः निवसन्ति । हजोङ्ग्स, रभस, कोचेस, बनिस, दलुस, बोरोस च इत्यादयः जातयः प्राप्यन्ते । मण्डलेऽस्मिन् विभिन्नप्रकारकाः वनस्पतयः, जीवाः प्राप्यन्ते । किन्तु साम्प्रतम् इदं मण्डलं प्रसिद्धं नास्ति । तथापि समीपस्थाः जनाः भ्रमणार्थं तत्र गच्छन्ति । अस्य मण्डलस्य विकासः जायमानः अस्ति । अस्य मण्डलस्य वातावरणं ग्रीष्मर्तौ उष्णं, शीतर्तौ शीतलं च भवति । अस्य मण्डलस्य जलवायुः अपि सुखदः, स्वास्थकरः च भवति । पूर्वीगारोहिल्स्-मण्डलं ५१ क्रमाङ्कस्य राजमार्गेण सह सम्बद्धम् अस्ति । मेघालय-राज्यस्य सर्वकारेण अपि पर्यटनाय बसयानानि प्रचालितानि सन्ति । तैः जनाः पूर्वीगारोहिल्स्-मण्डलस्य पर्यटनस्थलानि भ्रमितुं शक्नुवन्ति । गुवाहाटी-नगरस्य रेलस्थानकं मेघालय-राज्यस्य मुख्यं रेलस्थानकत्वेन स्थितम् अस्ति । गुवाहाटी-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । उमरोई-नगरे मेघालयराज्यस्य प्रमुखं विमानस्थानकम् अस्ति । गुवाहाटी-नगरं गन्तुं विमानस्थानकम् अपि समीपे एव अस्ति । अनेन प्रकारेण पूर्वीगारोहिल्स्-मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । जनाः सरलतया तत्र गन्तुं शक्नुवन्ति ।

जोवाई-नगरं मेघालय-राज्यस्य पश्चिमजयन्तियाहिल्स्-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे पनार-जनजातिः निवसति । इदं नगरं माइण्टडू-नद्याः तटे स्थितम् अस्ति । नगरमिदम् एकस्मिन् शैलप्रस्थे स्थितम् अस्ति । समुद्रतलात् इदं नगरं १३८० मीटरमितम् उन्नतम् अस्ति । औन्नत्ये स्थिते सति अस्य अस्य नगरस्य जलवायुः सुखदः, शान्तश्च अस्ति । जोवाई-नगरस्य समीपे अङ्गाराणां (coal) कूल्याः अपि सन्ति । अतः अस्य नगरस्य अर्थव्यवस्था अपि सुदृढा अस्ति । जोवाई-नगरे बेहदीमखालम-उत्सवः आचर्यते । जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । प्रतिवर्षं जुलाई-मासस्य द्वितीये सप्ताहे अयम् उत्सवः आयोज्यते । तत्र थाडलासेकिन-तडागः, लालाङ्ग-उद्यानं, “जोवाई प्रेस्बिटेरियन् चर्च्” च इत्यादयः अस्य नगरस्य पर्यटनस्थलानि सन्ति । ग्रीष्मर्तौ, शीतर्तौ च अस्य नगरस्य वातावरणं सुखदं भवति ।

जोवाई-नगरं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । असम-राज्यस्य गुवाहाटी-नगरे अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । जोवाई-नगरात् गुवाहाटी-नगरं १६० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुवाहाटी-नगरस्य विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा जोवाई-नगरं प्राप्यते । अनेन प्रकारेण इदं मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

जयन्तिया हिल्स्

सम्पादयतु

जयन्तियाहिल्स् इत्येतत् क्षेत्रं मेघालय-राज्ये स्थितम् अस्ति । अस्य क्षेत्रस्य मण्डलद्वयम् अस्ति । पूर्वीजयन्तियाहिल्स्-मण्डलं, पश्चिमीजयन्तियाहिल्स्-मण्डलं च । पूर्वीजयन्तियाहिल्स्-मण्डलस्य केन्द्रं खलीहरियत-नगरं, पश्चिमीजयन्तियाहिल्स्-मण्डलस्य केन्द्रं जोवाई-नगरं च अस्ति । जयन्तियाहिल्स्-क्षेत्रस्य प्राकृतिकं सौन्दर्यम् अद्भूतम् अस्ति । बाङ्ग्लादेशेन सह क्षेत्रमिदं सम्बद्धम् अस्ति । अस्मिन् क्षेत्रे “जयन्तिया” इत्याख्यः राजा शासनं करोति स्म । जयन्तियापुरं तस्य राज्यस्य राजधानी आसीत् । सः तत्रैव निवसति स्म । किन्तु साम्प्रतं जयन्तियापुरं बाङ्ग्लादेशे स्थितम् अस्ति । जयन्तिया-राज्ञा अस्य क्षेत्रस्य नारतियाङ्ग-ग्रामः ग्रीष्मकालीनराजधानीत्वेन उपयुज्यते स्म । अतः तेन कारणेन आवागमने वृद्धिः जाता । अपि च सांस्कृतिकदृष्ट्या अपि सम्बन्धः जातः । साम्प्रते काले नारतियाङ्ग-ग्रामः जयन्तियाहिल्स्-क्षेत्रस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमः अस्ति । नारतियाङ्ग-ग्रामस्य दुर्गामन्दिरम् अपि अस्य क्षेत्रस्य आकर्षणस्य केन्द्रं विद्यते ।

परिवहने भूमार्गः अस्य क्षेत्रस्य प्रमुखं साधनम् अस्ति । इदं क्षेत्रं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । एवं च मेघालय-राज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अस्य क्षेत्रस्य पर्यटनस्थलानां भ्रमणं कर्तुं बसयानानि सन्ति । मेघालय-राज्ये रेलस्थानकम् एव नास्ति । अतः असम-राज्यस्य गुवाहाटी-नगरे जयन्तियाहिल्स्-क्षेत्रस्य समीपस्थं रेलस्थानकम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । उमरोई-नगरस्य विमानस्थानकम् अस्य क्षेत्रस्य निकटतमं विमानस्थानकम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अस्य क्षेत्रस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा जयन्तियाहिल्स्-क्षेत्रं प्राप्यते । अनेन प्रकारेण इदं स्थलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तेन जनाः सरलतया तत्र गन्तुं शक्नुवन्ति ।

दक्षिणीगारो हिल्स्

सम्पादयतु

दक्षिणीगारोहिल्स्-मण्डलं मेघालय-राज्ये स्थितम् अस्ति । अस्य नगरस्य सौन्दर्यं महत्त्वपूर्णम् अस्ति । इदं मेघालय-राज्यस्य दक्षिणदिशि स्थितम् अस्ति । बाघमारा-नगरम् अस्य मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । अस्य मण्डलस्य उत्तरदिशि पूर्वीगारोहिल्स्-मण्डलं, पूर्वदिशि पश्चिमीखासीहिल्स्-मण्डलं, पश्चिमदिशि पश्चिमीगारोहिल्स्-मण्डलं, दक्षिणदिशि बाङ्लादेशः च स्थितः अस्ति । साम्प्रतम् इदं मण्डलं भारते प्रसिद्धं नास्ति । यतः इदानीम् अस्य प्रारम्भिकावस्था वर्तते । अस्य मण्डलस्य बहूनि वीक्षणीयस्थलानि गुप्तानि सन्ति । अतः मेघालय-राज्यस्य सर्वकारः इदं स्थलं साहसिकपर्यटनस्थलं कर्तुं प्रयासान् कुर्वन् अस्ति । बालपकराम-राष्ट्रियोद्यानं, “चिदिमक”, सिजु-गुहा च इति दक्षिणीगारोहिल्स्-मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । नेङ्गकोङ्ग, सिमसाङ्ग-नदी, इमिलचाङ्ग दारे च अस्य मण्डलस्य पर्यटनस्थलानि सन्ति । अस्मिन् मण्डले वृष्ट्याः आधिक्यम् अस्ति । अतः अस्य मण्डलस्य वातावरणं शीतलं भवति । किन्तु ग्रीष्मर्तौ उष्णता भवति । अतः शीतर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति ।

गुवाहाटी-नगरस्य रेलस्थानकं दक्षिणीगारो-मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं बाघामारा-नगरात् १५७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं देहली-महानगरेण, मुम्बई-महानगरेण, कोलकाता-महानगरेण इत्यादिभिः भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । उमरोई-विमानस्थानकम् अस्य मण्डलस्य समीपस्थं विमानस्थानकम् अस्ति । इदं कोलकाता-नगरेण सह सम्बद्धम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । अतः वर्तमाने काले गुवाहाटी-नगरस्य विमानस्थानकम् एव समीपस्थम् अस्ति । गुवाहाटी-विमानस्थानकं बेङ्गळूरु-महानगरेण, चेन्नै-महानगरेण, देहली-महानगरेण, मुम्बई-महानगरेण इत्यादिभिः भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः जनाः सरलतया दक्षिणीगारोहिल्स्-मण्डलं प्राप्तुं शक्नुवन्ति ।

“री भोई” मेघालय-राज्यस्य मण्डलम् अस्ति । नोङ्गपोह-नगरम् अस्य मण्डलस्य मुख्यालयः अस्ति । इदं मण्डलं पूर्वीखासीहिल्स्-मण्डलस्य विभागः अस्ति । उमियाम-तडागः अस्य मण्डलस्य आकर्षणस्य केन्द्रं विद्यते । एतत् स्थलं “बारा पानी” इति नाम्ना ज्ञायते । अस्य तडागस्य समीपे एकः विद्युदुत्पादकः जलबन्धः अस्ति । जनाः तत्र जलक्रीडां कुर्वन्ति । “लुम नेहरू पार्क्” इत्येतत् स्थलं पर्यटकेषु लोकप्रियम् अस्ति । “लुम सोहपेटबैङ्ग”, “डिङ्गिई-शिखरं”, “द्वारक्सुद” इत्यादीनि “री भोई-मण्डलस्य” अन्यानि पर्यटनस्थलानि सन्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं शुष्कं, सुखदं, स्वास्थ्यकरं च भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।

इदं मण्डलं ४० क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अतः इदं मण्डलं मेघालय-राज्यस्य मण्डलैः सह सम्बद्धम् अस्ति । मेघालयराज्यस्य सर्वकारेण जनानां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । नोङ्गपोह-नगरं गुवाहाटी-नगरात् ५० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरे अस्य मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुवाहाटी-नगरस्य विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा “री भोई-मण्डलं” प्राप्यते । अनेन प्रकारेण इदं मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

परिवहनम्

सम्पादयतु

भूमार्गः

सम्पादयतु

मेघालयराज्ये भूमार्गाः ६,०२२ किलोमीटरमिताः दीर्घाः सन्ति । मेघालय-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । अस्य राज्यस्य लोकनिर्माणविभागेन राज्ये मार्गाः निर्मापिताः । राज्येऽस्मिन् षड्राष्ट्रियराजमार्गः अपि विद्यते । तैः राष्ट्रियराजमार्गैः इदं राज्यं भारतस्य विभिन्नराज्यैः सह सम्बद्धम् अस्ति । शिलाङ्ग-नगरं, चेरापूञ्जी-नगरं च असमराज्यस्य विभिन्ननगरैः सह भूमार्गेण सम्बद्धम् अस्ति । असम-राज्यस्य गुवाहाटी-नगरं मेघालय-राज्येन सह श्रेष्ठतया सम्बद्धम् अस्ति । अतः भूमार्गेण मेघालय-राज्यं सरलतया प्राप्यते ।

धूमशकटमार्गः

सम्पादयतु

मेघालय-राज्ये धूमशकटमार्गाः न सन्ति । यतः मेघालयराज्यं पर्वतीयम् अस्ति । अतः धूमशकटमार्गान् निर्मातुं समस्या भवति । तथापि राज्यसर्वकारः, केन्द्रसर्वकारश्च प्रयासान् कुर्वन्तौ स्तः । इदं राज्यं गुवाहाटी-नगरस्य रेलस्थानकेन सह भूमार्गेण सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकाद् बसयानैः, भाटकयानैः वा मेघालय-राज्यं प्राप्यते ।

वायुमार्गः

सम्पादयतु

मेघालय-राज्यस्य उमरोई-नगरे एकमेव विमानस्थानकम् अस्ति । शिलाङ्ग-नगरात् उमरोई-नगरं ३५ किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकं मेघालय-राज्यस्य समीपस्थं विमानस्थानकम् अस्ति । तस्माद् विमानस्थानकाद् बसयानैः, भाटकयानैः वा मेघालय-राज्यं प्राप्यते । जनाः सरलतया मेघालय-राज्यं प्राप्तुं शक्नुवन्ति । मेघालय-राज्यस्य सर्वकारः मेघालय-राज्यस्य परिवहनव्यवस्थां सुदृढां कर्तुं प्रयासान् कुर्वाणः अस्ति । समयान्तरे अस्य राज्यस्य परिवहने विकासः भविष्यति ।

बाह्यानुबन्धः

सम्पादयतु


सन्दर्भाः

सम्पादयतु
  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९५
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९५
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९१-२९२
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९२
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९६
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९५
  7. http://bharatdiscovery.org/india/मेघालय_की_अर्थव्यवस्था
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९६
  9. http://hindi.nativeplanet.com/sitemap/
"https://sa.wikipedia.org/w/index.php?title=मेघालयराज्यम्&oldid=483463" इत्यस्माद् प्रतिप्राप्तम्