इदं मेथिकापत्रम् अपि भारते वर्धमानं किञ्चित् सस्यविशेषम् । इदं मेथिकापत्रम् अपि सस्यजन्यः आहारपदार्थः एव । एषा मेथिका आङ्लभाषायां Methi इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Tyrigonella foenum graecum इति । एतस्याः मेथिकायाः दीपनी, उग्रा, कुञ्चिका, बहुपत्रिका, मल्लिका, शितवीर्या, ज्योतिष्का, वल्लरी, शिखी इत्यादीनि अन्यानि नामानि अपि सन्ति । अस्य मेथिकासस्यस्य बीजं पर्णं चापि उपयुज्यते । अनेन पर्णेन रोटिका, व्यञ्जनं, क्वथितं चापि निर्मातुं शक्यते ।

मेथिकापत्रम्

आयुर्वेदस्य अनुसारम् अस्य मेथिकापत्रस्य स्वभावःसंपादित करें

इदं मेथिकापत्रं कटुरसयुक्तं, तिक्तरुचियुक्तं च । एतत् मेथिकापत्रं पचनार्थं लघु, रूक्षं च । अस्याः मेथिकायाः बीजानि लघ्वाकारकाणि, अत्यन्तं तिक्तानि च भवन्ति ।

“मेथिका कटुरुष्णा च रक्तपित्तप्रकोपिनी ।
अरोचहरा दीप्तिकरी वातप्रणाशिनी ॥“ (धन्वन्तरिकोषः)
१. मेथिका उष्णवीर्या, रक्तपित्तं प्रकोपयति ।
 
मेथिकासस्यम्
२. इयं मेथिका अग्निम् उद्दीपयति, अरुचिं निवारयति च ।
३. मेथिका कफहारिका, ज्वरनाशिका च ।
४. मेथिका बलवर्धिका, हृदयस्य हितकरी च ।
५. मेथिका मलम् अवरुणद्धि, वमनं शमयति च ।
६. मेथिका वातरक्तं, कफं, कासं, दातार्शं, कृमिं, क्षयं च निवारयति ।
७. मेथिकाबीजस्य चूर्णेन निर्मितं पिण्डं प्रसवानन्तरं दीयते । तेन बभुक्षा वर्धते, क्षीरम् अपि वर्धते, मलशुद्धिः च भवति ।
८. मेथिकाबीजस्य चूर्णेन निर्मितं पिण्डं श्रान्तौ, आमवाते, आतकवे च दातुं शक्यते ।
९. रक्तसहिते अतिसारे मेथिकां भर्जयित्वा उष्णजले योजयित्वा पातव्यम् ।
१०. मेथिकायाः सेवनेन शरीरवेदना न्यूना भवति ।
११. मेथिका तिक्तरुचियुक्ता इति कारणात् मधुमेहे अपि उपयोक्तुं शक्यते ।
१२. मेथिका काड्लिवर्-तैलस्य स्थाने अपि दैर्बल्यादिषु उपयोगम् अर्हति ।
१३. शरीरस्य उपरि वेदना अस्ति चेत् तत्र मेथिकायाः लेह्यं लेपयितुं शक्यते ।
१४. मेथिका रक्तपित्तं वर्धयति । तस्मात् रक्तपित्तरोगिणः अस्याः उपयोगं न कुर्युः ।
१५. अस्याः मेथिकायाः चूर्णं १-५ ग्रां पर्यन्तं दातुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=मेथिकापत्रम्&oldid=432027" इत्यस्माद् प्रतिप्राप्तम्