म्याथयास् जेकब् ष्लेडन्

(कालः – ०५. ०४. १८०४ तः २३. ०६. १८८१)

Matthias Jakob Schleiden
जननम् (१८०४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०५)५ १८०४
Hamburg, Holy Roman Empire
मरणम् फलकम्:Dda
Frankfurt am Main, German Empire
देशीयता German
कार्यक्षेत्राणि Botany
संस्थाः University of Jena, University of Dorpat
मातृसंस्थाः Heidelberg
विषयेषु प्रसिद्धः Cell theory
लेखकनामोल्लेखः(सस्यशास्त्रम्) Schleid.


अयं म्याथयास् जेकब् ष्लेडेन् (Matthias Jakob Schleiden) सस्यानां कोशसिद्धान्तस्य निरूपकः । अयं १८०४ वर्षे एप्रिल्-मासस्य ५ दिनाङ्के जर्मनीदेशस्य ह्याम्बुर्ग् इति प्रदेशे जन्म प्राप्नोत् । अयं न्यायशास्त्रम् अधीत्य तद्विषये प्रशिक्षणम् अपि प्राप्तवान् आसीत् । परन्तु तस्य मनः तां वृत्तिं न अङ्गीकरोति स्म । तस्मात् कारणात् जीवने जुगुप्सां प्राप्य आत्महत्यार्थम् अपि प्रयत्नम् अकरोत् । किन्तु सः तस्मिन् प्रयत्ने सफलः नाभवत् । तदनन्तरं सः विनोदार्थम् अभ्यस्तं सस्यशास्त्रम् एव जीवनाधाररूपेण स्व्यकरोत् । अयं म्याथयास् जेकब् ष्लेडेन् सस्यानां वर्गीकरणम् एव प्रमुखलक्ष्यरूपेण स्वीकृतवतां विज्ञानिनां विरोधं कुर्वन् १८३८ तमवर्षात् आरभ्य सस्यानाम् अङ्गांशान् गभीरतया अभ्यस्तवान् । एतत् एव कार्यं प्राणिनां विषये अग्रिमे वर्षे (१८३९) थियोडोर् स्छ्वान् अकरोत् । अयं म्याथयास् जेकब् ष्लेडेन् जीवकोशे विद्यमानं कोशकेन्द्रम् एव सम्यक् अभ्यस्य "जीवकोशस्य विभागस्य कोशकेन्द्रस्य च सम्बन्धः अस्ति” इत्येतं विषयं संशोधितवान् । अयं म्याथयास् जेकब् ष्लेडेन् १८३९ तमे वर्षे ज्ना–विश्वविद्यालये प्राध्यापकपदं प्राप्नोत् । अयं डार्विनस्य विकासवादम् अङ्गीकृतवान् आसीत् । सः म्याथयास् जेकब् ष्लेडेन् १८८१ तमे वर्षे जून्-मासस्य २३ तमे दिनाङ्के जर्मन्-देशस्य फ्र्याङ्क्फर्ट् इति प्रदेशे विधिवशः सञ्जातः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु