यमस्मृतिः
यमस्मृतिराकारेण लघीयस्यपि विचारेण महत्तरेति मन्यामहे । स्मृतावस्यां प्रायश्चितविधिरतीव सुस्पष्टः साधीयांश्चास्ति । अत्र पञ्चगव्यनिर्माणविधेर्यथा वैशिष्ट्यमस्ति, तदन्यत्र कस्याञ्चनापि स्मृतौ न कदापि दृश्यते । यमेन लिखितम्- श्वेतवर्णाया धेनोर्मूत्रम् अधिकतरं मेध्यं भवति । तथैव श्यामवर्णाया गोमयम्, ताम्रवर्णाया दुग्धम् कपिलायाश्च धेनो घृतम् अधिकतरं पूतं भवति । एतेन वस्तुतो गवां वर्णवैशिष्ट्यं खलु किमपि विज्ञानसम्मतं कारणं द्योतयेदिति स्पष्टम् अवबुध्यते । इत्थञ्च तीर्थान् मृण्मय-घटेन ताम्रघटेन वा जलमाहरणं सर्वथाऽधिकतरं पवित्रं मन्यते । समाजे निवसदभिर्जनैः ज्ञानवशतोऽज्ञानवशतो वा कृतानां पापानां कृते किंप्रकारं प्रायश्चितं विधातव्यम् तत्सर्वस्य व्यवस्थाऽत्र सम्यक् प्रदीयते । विशेषतोऽस्यां स्मृतौ पञ्चगव्यनिर्माणस्य महत्त्वं सर्वोपरि वरीवर्तिः ‘यम’ इति कथनेन भयङ्करदेवस्य कस्यापि प्रतिमूर्तिरिति चित्ते सर्वेऽनुभवन्ति । ततः स दण्डाधिकारी वर्त्तते । सत्यतः स्मृतेरस्याः प्रायश्चित्तव्यवस्थायां महत्त्वं दृष्ट्वाऽनुभूयते यत् यमेन प्रोक्तस्य प्रायश्चित्त-रुपस्य दण्डविधानस्य महिमा न केवलं नरके प्रत्युत् मृत्योः परमपि मानवानां जीवद्दशायां नूनं सम्माननीय स्तथा साधीयान् प्रशंसावहो भवतीत्यहो भाग्यं मन्यमहे वयम् । किन्तु स्मृतेरस्या रचयिता कश्चन यमनामा मुनि रासीदिति वार्त्ता सर्वथाऽवधारणीया भवेत् । यमस्मृतौ मिलित्वा ७८ संख्याकाः श्लोकाः सन्ति । तैरेव प्रायश्चित्तानां चान्द्रायणव्रतादीनां विधिः प्रतिपादितः । कस्मै देवाय कथं पूजनं समर्पणीयं स्यादिति विषये यमोक्तिः सर्वथाऽवधारणीया एवास्ति । यथा -
- देवतानां पितृणांच जले दद्याज्जलाञ्जलीन् ।
- असंस्कृत-प्रमितानां स्थले दद्याज्जलाञ्जलीन् ॥
- श्राद्धे हवनकाले च दद्यादेकेन पाणिना ।
- उभाभ्यां तर्पणे दद्यादिति धर्मो व्यवस्थितः ॥