यूरोपखण्डः

महाद्वीपाः

यूरोपखण्डः (Europe) सप्तमहाखण्डेषु अन्यतमः । ३७ राष्ट्रैः युक्तः अस्ति अयं खण्डः । दक्षिण-पूर्व-मध्य-वायव्य-उत्तरसमुद्रप्रदेशाः इति अयं खण्डः परिगणयितुं शक्यः । अस्य खण्डस्य जनानां बाह्यलक्षणस्य अनुगुणं काकेसायिड्, नार्डिक्, आल्पैन्, अर्मेनायिड् इत्येते प्रकाराः दृश्यन्ते । अत्र जर्मेनिक्, स्लाव्, केल्टिक्, रोमेण्टिक् इत्यादयः विविधाः भाषाः विद्यन्ते अस्मिन् ।

यूरोपखण्डः
विस्तीर्णम् १,०१,८०,००० वर्गकि.मी(३९,३९,००० वर्गमाइल्)
जनसङ्ख्या ७३,१०,००,०००
जनसङ्ख्यासान्द्रता ७० जनाः(प्रति वर्गकि.मी)
राष्ट्रीयता यूरोपीय
देशाः ५०

वैशिष्ट्यम्

सम्पादयतु

क्षेत्रफलाधारेण युरोपखण्डः द्वितीयक्षुद्रतमखण्डः। अस्य व्याप्तिः १०,१८०,००० वर्गकिलोमीटर्-परिमितम् । समग्रपृथिव्याः २%(शतांशः) भू-भागस्य ६.८% युरोपखण्डः अधिकरोति। युरोपखण्डस्य पञ्चाशत्सु (५०) देशेषु रूसदेशः बृहत्तमः। जनसंख्याविचारे अपि तस्यैव (रूसदेशस्य) प्रभुत्वम् अस्ति। 'वैटिकन् नगरम्' इति युरोपखण्डस्य क्षुद्रतमदेशः। एशिया-आफ्रिकाखण्डयोः अनन्तरं युरोपखण्डैव सर्वाधिकजनसंख्यायुक्तः खण्डः। वर्तमान-समग्रजनसंख्यायाः ११% युरोपखण्डस्यैव योगदानम्। पूर्वं तु १९०० वर्षे २५% योगदानम् आसीत्।

इतिहासः

सम्पादयतु

'युनान्' इति पाश्चात्यसंस्कृतेः जन्मस्थानं भवति युरोपखण्डः। १६ शतब्द्यां (विशेषतः उपनिवेशवादस्य उद्भवपरवर्तीकाले) युरोपखण्डः विश्ववाणिज्यविषये प्रमुखभूमिकां निरूढवान्। १६ शतकतः २० शतकमध्यवर्तिनि काले अमेरिका-आफ्रीका- एशियाखण्डानाम् अधिकांशाः युरोपीयदेशैः नियन्त्रिताः आसन्। द्वे विश्वयुद्धे अपि मध्ययुरोपतः विस्तृतिम् अलभताम् । एतस्मात् कारणात् विंशतिशतके युरोपखण्डस्य प्रभुत्वह्रासः जातः। अपरपक्षे संयुक्त-राज्य-अमेरिका एवं 'सोवियत्'संघः इति नवसाम्राज्ययोः प्रादुर्भाः जातः। शीतयुद्धकाले (cold war) नाटो-वारसा-सन्धिभ्यां युरोपखण्डः विभक्तः आसीत्।

वातावरणम्

सम्पादयतु

अयं खण्डः उत्तरगोलार्धे ३५ - ७० अक्षांशयोः मध्ये विद्यते इत्यतः वातावरणे विपरीतम् वैविध्यं दृश्यते । पोर्चुगल्, इटलि, अल्बेनिया, स्पेन् इत्यादिषु देशेषु औष्ण्यकाले हितकरं वातावरणं शैत्यकाले शीतलं मेडिटरेनियन्-वातावरणं च भवति । उक्रेन्-देशस्य आग्नेयभागर्धः, रशियादेशस्य दक्षिणभागेषु भ सामान्यतः शुष्कं वातावरणं भवति । अत्र वृष्टिः अल्पा । नार्वे, स्वीडन्-देशस्य उत्तरभागः, फिन्लेण्ड्, रशियादेशस्य उत्तरप्रदेशः, आर्कटिक्-प्रदेशेषु च अत्यधिकं शैत्ययुतं वातावरणं भवति । अत्र द्वीपेषु च शीतमरुभूमेः वातावरणं भवति । नार्वेदेशस्य पर्वताः, स्वीडन्देशस्य दक्षिणभागः, रशियादेशस्य मध्यभागः, बेलारस्, उक्रेन्-देशस्य उत्तरभागः वायव्यभागः, रोमेनियादेशस्य पूर्वभागः इत्येतेषु भागेषु शीतलं खण्डान्तरवातावरणं भवति । अवशिष्टेषु भागेषु तन्नाम ऐर्लेण्ड्, ग्रेट्-ब्रिटन्, फ्रान्स्, जर्मनि, नेदर्लेण्ड्स्, पोलेण्ड्देशस्य पश्चिमभागः, स्लोवाकिया, झेक्-रि, हङ्गेरि, रोमेनियादेशस्य दक्षिणभागः, युगोस्लाविया, बल्गेरिया इत्यादिषु भागेषु आर्द्रं समशीतोष्णं वातावरणं भवति ।

अस्य खण्डस्य भूयान् भागः शीतलेन हितावहेन वातावरणेन युक्तः भवति । नार्वे-स्वीडन्-फिन्लेण्ड्-देशानाम् उत्तरभागाः अर्क्टिक्वलये विद्यन्ते इत्यतः सर्वदा शैत्येन युक्ताः भवन्ति । ग्रीष्मऋतौ अयं खण्डः शीतलं भवति । शैत्यकाले हिमपातः भवति ।

वृष्टिः

सम्पादयतु

अस्मिन् खण्डे वार्षिकी वृष्टिः प्रायः ७५० मिलिमीटर्मितं भवति । पोर्चुगल्तः कृष्णसमुद्रपर्यन्तं विस्तृतेषु भूभागेषु ततः उत्तरदिशि च वृष्टिः १००० मिलिमीटर्मितं ततोप्यधिकं वा भवति । उक्रेन्-रशियाभागेषु वृष्टिः ५०० मिलिमीटर्मितस्य अपेक्षया न्यूना भवति । विशेषतया इटलीदेशस्य आल्प्स्-पर्वतश्रेणीप्रदेशेषु नार्वे स्काट्लेण्ड् ऐर्लेण्ड्प्रदेशेषु च २००० मिलिमीटर्मितस्य अपेक्षया अधिका भवति । रशियादेशस्य भागेषु वृष्टिः न्यूना भवति । किन्तु महत् शैत्यं भवति । ब्रिटन्-नार्वेप्रदेशेषु आवर्षं वृष्टिः भवति । मेडिटरेनियन्समुद्रं परितः विद्यमानेषु भूप्रदेशेषु शैत्यकाले वृष्टिः भवति ।

औष्ण्यम्

सम्पादयतु

जुलैमासावसरे सूर्यः कर्कवृत्ते भवति इत्यतः तस्मिन् समये अस्मिन् खण्डे महदौष्ण्यं भवति । जनवरीमासे शैत्यकालः भवति । शैत्यकाले बाल्कन्-राज्येषु, इटलि, स्पेन्, पोर्चुगल्, फ्रान्स्, ग्रेट्-ब्रिटन्, नेदर्लेण्ड् इत्यादिषु प्रदेशेषु ० - १० सेण्टिग्रेड्मितं भवति औष्ण्यम् । स्पेन्देशे पोर्चुगल्देशे च १० सेण्टिग्रेड्मितं भवति । रशियादेशे -२० - -२५ सेण्टिग्रेड्मितं न्यूनं भवति । जुलैमासे अस्मिन् खण्डे ग्रीष्मकालः भवति । मेडिटरेनियन्समुद्रं परितः विद्यमानेषु प्रदेशेषु औष्ण्यं २५ सेण्टिग्रेड्मितस्य अपेक्षया अधिकं भवति । रशियादेशस्य दक्षिणभागे अपि अधिकम् औष्ण्यं भवति । नार्वे-स्वीडन्देशयोः उत्तरभागे, रशियादेशस्य उत्तरभागे च ० - १५ सेण्टिग्रेड्मितं भवति औष्ण्यम् ।

सस्यसम्पत्तिः

सम्पादयतु

पोर्चुगल्, स्पेन्, इटलि, ग्रीस् इत्यादिषु मेडिटरेनियन्प्रदेशेषु नित्यहरिद्वर्णयुक्तवृक्षाः, गुल्मानि च वर्धन्ते । पर्वतीयप्रदेशेषु पैन्, सैप्रेस्, योव्, स्प्रूस् इत्यादयः शङ्ख्वाकारकाः नित्यहरिद्वृक्षाः भवन्ति । रशियादेशस्य दक्षिणभागे उक्रेन्देशस्य आग्नेयभागे च तृणानि वर्धन्ते । ऐस्लेण्ड्, नार्वे, स्वीडन्, रशियादेशस्य उत्तरभागेषु च अल्पजीवीनि लघुसस्यानि वर्धन्ते । अवशिष्टेषु शङ्ख्वाकारकाः मिश्रसूचिपर्णीसस्यानि वर्धन्ते । ५५ अक्षांशतः उत्तरभागे वाणिज्याधारितानि अरण्यानि एव अधिकतया विद्यन्ते । मध्ययुरोपप्रदेशेषु अपि एतादृशाः वृक्षाः वर्धन्ते । अत्युत्तरेषु भागेषु लाभदायककर्माणि न दृश्यन्ते । अवशिष्टेषु भागेषु शाद्वलं, मेषमहिषीपालनञ्च अधिकतया दृश्यते । द्राक्षा, भिन्नशर्करा (पालङ्कात् (बीट्रूट्तः) निर्मितम् ?), निम्बूकजातिफलानि, गोधूमः इत्यादीनि अस्मिन् खण्डे अधिकतया वर्धन्ते । जर्मनि, नेदर्लेण्ड्स्, इङ्ग्लेण्ड्देशेषु भूमेः ७०% तः अधिकः भागः कृष्यर्थम् उपयुज्यते । बार्लि, ओट्स्, र्-है, गोधूमः, व्रीहिः, जूर्णः, आलूकम् इत्यादयः फलोदयाः अत्र वर्धन्ते । द्राक्षा, ओलिव्, नारङ्गम्, पीच्, निम्बूकजातिफलानि अत्र वर्धन्ते ।

पर्वताः नद्यश्च

सम्पादयतु

अस्मिन् खण्डे आल्प्स्-पर्वतश्रेण्यः अत्युन्नताः सन्ति । मौण्ट्ब्लाक् अस्य खण्डस्य (४८०७ मीटर्मितम्) अत्युन्नतं शिखरं वर्तते । एताः पर्वतश्रेण्यः इटलि-स्विट्सर्लेण्ड्-अस्ट्रियाप्रदेशेषु व्याप्ताः सन्ति । अस्य पूर्वस्यां दिशि कार्पेथियन्-श्रेण्यः विद्यन्ते । पोलेण्ड्, स्लोवाकिया, रोमेनियाप्रदेशेषु एताः श्रेण्यः प्रसृताः सन्ति । २६५५ मीटर्मितोन्नतयुतं टाट्राशिखरम् अस्यां श्रेण्यां विद्यते । बल्गेरियायां बाल्कन्श्रेणी, ग्रीस्देशे पिण्डस्श्रेणी, क्रोयेशिया-युगोस्लाविययोः डिनारिका-आल्फ्स्, इटलिदेशे अपेनैन्, स्पेन्देशे पिरनीस् इत्यादयः श्रेण्यः अस्मिन् खण्डे वर्तन्ते । कृष्णसमुद्र-क्यास्पियन्समुद्रयोः मध्ये काकेसस्श्रेण्यः विद्यन्ते । नार्वे-स्वीडन्देशयोः दक्षिणभागे स्काण्डिनेवियापर्वताः सन्ति । उत्तरस्यां दिशि ल्याप्लेण्ड् इति कथयन्ति । स्विट्सर्लेण्ड्तः रशियादेशपर्यन्तं उत्तरयुरोपस्य विशालः समतलप्रदेशः वर्तते । अस्य खण्डस्य ईशान्यभागे दक्षिणोत्तरदिशि व्यापृतः उरल्पर्वतः विद्यते ।

अतिदीर्घा नदी ओल्गा (३६९० कि मी) अत्र वहति । डेन्यूब् (२८२४ मी) डान् नीपर्-नद्यः च अत्रत्याः प्रमुखनद्यः । र्-होनेनदी १३२० किलोमीटर्मितं यावत् प्रवहति । मास्कोनगरस्य उत्तरभागे लडोगा-ओनेगा-नामकौ सरोवरौ विद्येते । फिन्लेण्ड्देशे स्वीड्न्देशस्य दक्षिणभागे च अनेके सरोवराः विद्यन्ते । नेदर्लेण्ड्-जर्मनिदेशयोः उत्तरसमुद्रस्य तीरप्रदेशः उरल्-ओल्गानद्योः मुखजभूप्रदेशश्च समुद्रस्तरस्य अपेक्षया अधः विद्यते ।

खनिजाः देशाः
खनिजाङ्गारम् जर्मनी, बेल्जियम्, रशिया, पोलेण्ड्, फ्रान्स्, युनैटेड् किङ्ग्डम्
अयः स्वीडन्, जर्मनी, स्पेन्, बेल्जियम्, रशिया, फ्रान्स्, युनैटेड् किङ्ग्डम्
मेङ्गनीस्-खनिजः बोस्निया, रशिया, इटलि, स्पेन्, रोमेनिया
ताम्रम् स्वीडन्, जर्मनी, स्पेन्, रशिया
इन्धनतैलम् रोमेनिया, रशिया, स्पेन्, षेट्लेण्ड्द्वीपः
स्वर्णम् रशियादेशस्य उरल्पर्वताः, हङ्गेरि, रोमेनिया, झेक्-गणराज्यं, स्लोवाकिया

पाणिपक्षिणः

सम्पादयतु

शैलशशः, कीटाहारी दीर्घदेही, जलशुनकः, चिक्रोडः, जतुका,कण्टकवराहः, कपीशवर्णीयः भल्लूकः, वृकः, हिमभल्लूकः, अरण्यमार्जालः, नकुलसदृशः प्राणी (मार्टेन्), रक्तहरिणः, अरण्यवृषभः, अरण्यमेषः, ग्लटान्, ब्याजर्, आटर्, लिङ्क्स्, वाल्रस्, सील्, रेण्डियर् इत्यादयः प्राणिनः अत्र दृश्यन्ते । बलाकः, बकपक्षी, जलकुक्कुरः दक्षिणभागेषु बकपक्षी, कदम्बः, हंसः, मलार्ड्, टेल्पक्षिणः, गृध्रः, गरुडः, पेट्रिज्, फिजण्ट्, प्लोवर्, स्याण्ड् पैपर्, कोकिलः, उलूकः, समुद्रपक्षी, रात्रिपक्षी, टिट्पक्षी इत्यादयः पक्षिणः अत्र विद्यन्ते ।

१८५७ तमे वर्षे जातात् औद्यमिकक्रान्तेः कारणतः अस्मिन् खण्डे धूमशकटम्, यन्त्रोपकरणानि, वयनोद्यमश्च विशेषप्रगतिं प्राप्तवन्तः । मूलवस्तूनां सिद्धवस्तूनाञ्च विनिमयकारणतः गच्छता कालेन अस्मिन् खण्डे उद्यमकौशलं श्रेष्ठस्तरम् अवाप्नोत् । अद्यत्वे अपि अयं खण्डः उद्यमे अग्रेसरः अस्ति । मेषपालनं (चर्म, मांसम्), पशुपालनम् (क्षीर-मांसोत्पादनम्), वराहपालनम् (मांसम्), गोपालनम् इत्यादयः अद्यत्वे अपि प्रमुखः उद्योगः अत्र । रोमेनिया, उक्रेन्, रशियादेशस्य सेम्, पीटर्स्बर्ग्, मेञ्चेस्टर्, एडिन्बर्ग्, स्टाक्-होम्, कोपन्-हेगन्, लण्डन्, ब्रुसेल्स्, स्लाच्टेरेन्, डब्लिन्, प्यारिस्, बार्सेलोनाप्रदेशः (स्पेन्), बुकारेस्ट्, बेल्ग्रेड्, मिलान् (इटली), प्राग्, ह्याम्बर्ग्, वार्सा, कियेव्, रोम् इत्यादयः अत्रत्यानि औद्यमिककेन्द्राणि सन्ति । उत्तरसमुद्रस्य बहुत्र बुकारेस्ट् (रोमेनिया)प्रदेशे इन्धनतैलस्य अनिलानां च महतः प्रमाणस्य उत्पादनघटकाः सन्ति । क्यास्पियन्समुद्रस्य पश्चिमदिशि विशालम् इन्धनतैलोत्पादनकेन्द्रम् अस्ति । खनिजाङ्गारस्य खन्युद्यमः पोलेण्ड्, झेक्गणराज्यम्, जर्मनि, फ्रान्स्, इङ्ग्लेण्ड्, स्पेन्देशेषु च सन्ति । लिघैट्खनिजः जर्मनि, पोलेण्ड्, स्पेन्, टर्कि, ग्रीस्देशेषु उत्पाद्यन्ते । कार्-यानानि यन्त्रोपकरणानि च जर्मनि, इङ्ग्लेण्ड्देशे उत्पाद्यते । दारुखण्डाः कागदनिर्माणाय आवश्यकानि पल्प् इत्येतानि नार्वे, स्वीडन्, फिन्लेण्ड्देशेषु महता प्रमाणेन उत्पद्यन्ते । इङ्ग्लेण्ड्-फ्रान्स्देशेषु अयसः वस्तूनि, वस्त्राणि च उत्पाद्यन्ते । फ्रान्स्देशे द्राक्षा-उद्याननिर्वहणम्, सुरानिर्माणञ्च भवति । इतः तस्य निर्यातः अपि प्रचलति । स्पेन्देशे गन्धद्रव्याणि, फलानि, ओलिव्-तैलोत्पादनञ्च भवति ।

यूरोपखण्डस्य विकासः

वनस्पतिः एवं वन्यजीवाः

सम्पादयतु
 
यूरोपखण्डस्य जीवभरः(बायोम)

:


     टुन्ड्रा      अल्पाइन टुन्ड्रा      टैगा      पर्वात्यवनम्
     समशीतोष्णवनम्      भूमध्यसागरीयवनम्      समशीतोष्णतृणक्षेत्रम्      शुष्कतृणक्षेत्रम्

"https://sa.wikipedia.org/w/index.php?title=यूरोपखण्डः&oldid=356750" इत्यस्माद् प्रतिप्राप्तम्