योगस्य चतस्रो भूमयः सन्ति । योगसाधको यदा तासु भूमिषु आत्मनः अधिकारं करोति तदा चतुर्धा भवति प्रथमकल्पिकः मधुभूमिकः, प्रज्ञाज्योतिः, अतिक्रान्तभावनीयश्च । योगसाधकस्य समाधये प्रवृत्तिमात्रता, परचित्तज्ञानाभावस्य स्थितिश्च प्रथमकल्पिक उच्यते । निर्विकारसमाधौ स्थिता साधकस्य प्रज्ञा ऋतम्भरा भवति तदा साधको मधुभूमिक उच्यते । भूतेन्द्रियेषु विजयप्रापको योगी प्रज्ञाज्योतिर्भवति । परतत्त्वे लयेच्छुको योगी अतिक्रान्तभावनीयः कथ्यते । अस्याम् अवस्थायां योगी सप्तप्रान्तभूमिप्रज्ञाः प्राप्नोति । ताश्च ययोक्ताः –अपरिज्ञेयत्वम् अपरिक्षेतत्वम्, अपरिनिश्चायकत्वम्, अप्राप्तव्यत्वम्, विवेकख्यातित्वम्, अनभिव्यक्तत्वम्, मुक्तत्वम् चेति ।

योगशास्त्रस्य प्रणेता पतञ्जलिः

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=योगभूमयः&oldid=480845" इत्यस्माद् प्रतिप्राप्तम्