योगस्य बाधकतत्त्वानि इत्युक्ते योगसाधनाकाले कानिचन बाधकतत्त्वानि अपि भवन्ति, यानि प्रत्यक्षाप्रत्यक्षतया योगसाधानायां बाधाः उत्पादयन्ति। तेभ्योऽपि साधकः सावधानः भवेत् इति धिया योगस्य बाधकतत्त्वानां विषये चिन्तनं भवति।

हठप्रदीपिकानुसारं बाधकत्त्वानि

सम्पादयतु

अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।

जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ।।१५ ।।

अर्थात्, अत्याहारः, प्रयासः, प्रजल्पः, नियमाग्रहः, जनसंगः, लौल्यं च (एतैः) षड्भिः योगः विनश्यति ।

अत्याहारः

सम्पादयतु

अत्यधिकः आहारः शरीरे ऋजुतां, शैथिल्यम्, आलस्यं च उत्पादयति। ततोऽधिकं योगसाधनायाः मूलभूतकार्येषु अपि साधकः शारीरिकतया भागं स्वीकर्तुं न शक्नोति। तस्य प्रभावः साक्षात् मनसि भवति। मनः अपि एतादृशेषु कार्येषु सत्सु आलस्यं प्रदर्शयति। अन्ते शनैः शनैः साधकः योगस्य साधनायाः विमुखः भवति। अत्याहारः तस्य सतर्कतां, चिन्तनं, श्रमं च प्रभावयति, अतः साधनकेन अत्याहारः न करणीयः।

प्रयासः

सम्पादयतु

लोके तु सर्वदा प्रयासः करणीयः इत्युच्यते। परन्तु प्रयासः बहुधा निष्फलः अपि भवति। अयोग्यस्य वस्तोः पृष्ठे अपि प्रयासः भवति। अनुचितविचारस्य परिणामतः अपि बहुधा प्रयासः भवति। यदि योगी योगसाधनायाः सम्बद्धान् क्रियाकलापान् त्यक्त्वा विभिन्नेषु अन्यकार्येषु एव स्वशक्तिं नाशयति, तर्हि सः प्रयासः तस्य योगसाधनां बाधयति। अन्यत्र कृते प्रयत्ने सः एतावान् क्लान्तः उत जामितः भवति यत्, सः योगसाधनायां स्वशक्तिं योजयितुं समर्थः न भवति। यथा – कौचन द्वौ विद्यार्थिनौ स्तः। तयोः एकः ५ किलोमिटर्-यावत् यात्रां कृत्वा गृहात् विद्यालयं प्राप्नोति। अपरः विद्यालयपरिसस्य छात्रावासात् ५ निमेषेषु विद्यालयं प्राप्नोति। अत्र छात्रावासस्य विद्यार्थिनः अयोग्यः प्रयासः अतीव अल्पः जातः। अतः तस्य अध्ययने ध्यानकेन्द्रस्य सम्भावना अधिका भवति। कारणं मार्गे विद्यार्थिना बहुकिमपि दृष्टं, श्रुतम्, अनुभूतं च स्यात्, तस्य विचाराः अध्ययकाले बाधकाः भवितुम् अर्हन्ति। विज्ञापने चित्रं दृष्ट्वा तस्य मनः पौनः पुन्येन तदेव चिन्तयेत्। मार्गे श्रुतस्य विषयस्य/गीतस्य मनने सः कदाचित् अध्ययने ध्यानं न दद्यात् उत तस्य विचारस्य कारणेन सः ध्यानं दातुम् एव न शक्नुयात्। तथैव व्यावसायिकानां, वृत्तिजीविनां च विषये भवति। यस्मै कार्याय गृहात् निर्गताः, तस्य कार्यस्य कृते यदि पर्याप्ता शक्तिः न भवति, तस्य कार्यस्य आरम्भाय एव अत्यधिकः श्रमः करणीयः भवति, तर्हि यदा तत् कार्यम् आरभते, तदा शक्तिः कुतः आगच्छेत्? अतः प्रयासः बाधकतत्त्वे अन्तर्भवति। यतः योगे यत्किमपि करणीयं तत् अभ्यासेन साधनीयं परन्तु अनायासतया। अभ्यासेन आयासं विना यत्किमपि सिद्ध्यति, तदेव योगे वास्तविकः योगाभ्यासः उच्यते।

प्रजल्पः

सम्पादयतु

योगी कदाचित् धनोपार्जनस्य विषये अधिकां चर्चां न कुर्यात्, यतः सः तत्कार्यं कर्तुम् एव न इच्छति। अतः एतादृश्यां स्थित्यां तस्य प्रजल्पः अतीव अल्पः भवति। परन्तु योगी बहुधा योगक्रियायाः अभ्यासं त्यक्त्वा काल्पनिक-सिद्धेः चर्चायां स्वस्य सर्वां शक्तिं योजयति। सः योगक्रियायाः अभ्यासं त्यक्त्वा केवलं तस्याः विषये चर्चायाम् एव समयं यापयति, अनेन तस्य प्रजल्पः योगाभ्यासे बाधकः सिद्ध्यति। बहुधा सत्यासत्ययोः एकस्य चयनं सरलं भवति, परन्तु सत्ययोः एकस्य चयनम् अतीव कठिनं भवति। अतः योगी सर्वान् विषयान् त्यक्त्वा गुरूपदिष्टमार्गेण केवलं योगाभ्यासे स्वशक्तेः उपयोगं कुर्यात्।

अत्र अपरः अपि पक्षः विद्यते। ये जनाः विपश्चनां कर्तुं शिबिरं प्रति गच्छन्ति, तेषाम् एतादृशः बहुधा अनुभवः दृश्यते। विपश्चनाकाले योगोक्तवातावरणं निर्मितं भवति। साधकेन न तु भोजनस्य, उपद्रवस्य, वस्तोः च चिन्ता करणीया भवति, न तु किमपि अनावश्यकं कार्यं करणीयं भवति। विपश्चनायै गतेन साधकेन दशदिनानि यावत् केवलम् आत्मचिन्तनं करणीयं भवति उत गुरूपदिष्टमार्गस्य अनुसरणं करणीयं भवति। परन्तु साधकस्य मनः एतावत् प्रजल्पं करोति यत्, सः विपश्चनायाः दिनेषु विविधाः कल्पनाः करोति, सः सिद्धेः विषये चिन्तयति, सः भूतकालस्य चिन्तनं करोति, सः भविष्यस्य चिन्तां करोति, सः तेषां सर्वेषां विचाराणां पृष्ठे धावति, येषां साधनायाम् आवश्यकता अपि न भवति। अतः अत्र मनसः प्रजल्पः अपि परिगणनीयः भवति।

नियमाग्रहः

सम्पादयतु

नियमाः साधकस्य मार्गदर्शकाः भवन्ति। नियमानुसारम् एव सः कृत्याकृत्यस्य ज्ञानं प्राप्य योगसाधनां कर्तुं प्रभवति। परन्तु योगी नियमानां पालने अत्यधिकः आग्रही भवति। तस्य आग्रहस्य कारणेन सः पारिस्थिक-आनुकूल्यं न प्राप्नोति। अन्ते सः नियमानाम् अनुसरणे एव स्वशक्तिं व्ययीकरोति। परिणामतः योगसाधनायाः अवसराः निश्चित-नियमस्य पालने सत्येव सम्भवाः भवन्ति। शनैः शनैः सहायकाः नियमाः लक्ष्यरूपाः भवन्ति एवं योगसाधना गौणा भवति। यथा – षट्कर्माणि तैः साधकैः निश्चयेन करणीयानि, येषां शरीरे विकाराः, दोषाः उत दोषाः सन्ति। दीर्घकालं यावत् योगाभ्यासे कृते सति योगी शरीरमलात् हीनः भवति, परन्तु तथाऽपि सः अभ्यासवशात् नियमानाम् अनुपालने सर्वदा एतादृशीषु क्रियासु व्यस्तः भवति, परन्तु नियमानाम् आग्रहः अत्यधिकः न आवश्यकः इति विचिन्त्य सः स्वानुकूलं नियमम् अनुसरति चेत् सः अधिकयोग्यतया योगसाधनां कर्तुं प्रभवति। अतः नियमानाम् अत्यधिकः आग्रहः अपि बाधकतत्त्वे अन्तर्भवति।

जनसङ्गः

सम्पादयतु

"एकान्ते योगाभ्यासः करणीयः" इति पूर्वमेव उक्तम् अस्ति। अतः जनसङ्गः तु सर्वथा योगसाधनायां बाधकः भवति। परन्तु कीदृशानां जनानां सङ्गः न करणीयः इति चिन्तने सति बोधः भवति यत्, ये जनाः साधकं योगमार्गात् भ्रष्टं कुर्वन्ति, ते जनाः साधकेन अवगणनीयाः। योगाभ्यासकाले समविचारयुक्तैः, योगसाधना-सहायकैः च सह एव सम्पर्कः करणीयः भवति। सम्मेलनेषु, उत्सवेषु, सभासु च एकत्रितैः जनैः सह सम्पर्केण विविधाः अनावश्यकाः विषयाः कर्णपटले आपतन्ति। तत्र एव साधकस्य शक्तेः व्ययः भवति। ततोऽधिकं यत्किमपि तेन त्यक्तम् अस्ति, तस्य स्मारणेन साधकः योगसाधनायां ध्यानं दातुम् अपि न शक्नुयात्। अत एव अतीव महत्त्वपूर्णानां योगसाधकानां सम्पर्कः एव करणीयः भवति।

लौल्यम्

सम्पादयतु

मनसः चाञ्चल्यम् एव लौल्यम् उच्यते। लोलः जनः चञ्चलः भवति। सः एकस्मिन् कार्ये दीर्घकालं यावत् संल्लग्नः भवितुं नार्हति। अद्य सः किमपि कार्यम् आरभते, ततः अमुकदिनाभ्यान्तरे तस्मात् कार्यात् आत्मानं विच्छिद्य अन्यकार्यं कर्तुं चिन्तयति। अतः लोलस्य भावः एव लौल्यम्। लौल्ययुक्तः जनः योगाभ्यासम् आरभते, परन्तु विषयाणाम् उत अन्यविचाराणाम् अनुसरणं कृत्वा सः योगाभ्यासं त्यक्तुम् अपि प्रभवति। अत एव योगाभ्यासे लौल्यस्य अभावः सर्वथा आवश्यकः भवति। मनसः लौल्यस्य उदाहरणं योगवासिष्ठे प्राप्यते। यथा –

श्रीराम उवाच

तत्राऽनन्तविलासस्य लोलस्य स्वस्य चेतसः।

वृत्तीरनुभवन् याति दुःखाद् दुःखान्तरं जडः॥२॥

स्वचित्तबिलसंस्थेन नानासम्भ्रमकारिणा।

बलात्कामपिशाचेन विवशः परिभूयते॥३॥

चिन्तानां लोलवृत्तीनां ललनानामिवाऽवृत्तीः।

अर्पयत्यवशं चेतो बालानामञ्जनं यथा॥४॥

ते ते दोषाः दुरारम्भाः तत्र तं तादृशाशयम्।

तद्रूपं प्रतिलुम्पन्ति दुष्टास्तेनैव ये मुने!॥५॥

महानरकबीजेन सन्ततभ्रमदायिना।

यौवनेन न ये नष्टा नष्टा नाऽन्येन ते जनाः॥[]

अर्थात्, मूर्खः जनः यौवनावस्थायाम् अनन्तैः चेष्टाभिः चञ्चलस्य स्वस्य चित्तस्य राग-द्वेषादीनां वृत्तीनाम् अनुभवं कुर्वन् एकस्मात् दुःखात् अपरं दुःखं प्रति दुःखयात्रां करोति॥ चित्तरूपिणि बिले निवासकर्तुः, अनेकप्रकाराणां भ्रमाणाञ्च उत्पादकस्य कामरूपिणः पिशाचस्य आवेशे विवशः पुरुषः सर्वथा अनादरयोग्यः भवति॥ मुने! यथा बाल्यावस्थायां सिद्धाञ्जने लेपिते सति चञ्चलवृत्तियुक्ताः नेत्रप्रभाः अनावृत्ताः भवन्ति (अर्थात् व्यवधानम् अपाकृत्य निधिं द्रष्टुं सामार्थ्यं ददति), तथैव यौवनावस्थाम् अवशं चित्तं (दुर्व्यवसेषु लौल्यम् अनेकाः चिन्ताः अनावृत्ताः करोति) अनावृत्तं (स्वच्छन्दं) करोति॥ हे मुने! युवावस्थात्वात् स्त्री-द्युत-कलहादीनां व्यवसेभ्यः उत्पन्नानां राग-लोभ-काम-चिन्तादीनां पृष्ठे लौल्यचित्तः जनः नष्टः भवति। परन्तु महानरकस्य हेतुभूत-साधनभूतायाः, सर्वदा भ्रान्त्युत्पादिकायाः च यौवनावस्थायाः यस्य विनाशः न भवति, तस्य न कदाऽपि विनाशः भवति।

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
  1. योगवासिष्ठः, सर्गः २०, श्लोकः – २-६
"https://sa.wikipedia.org/w/index.php?title=योगस्य_बाधकतत्त्वानि&oldid=472315" इत्यस्माद् प्रतिप्राप्तम्