रणकपुरम्
रणकपुर –शिल्पस्थान राजस्थानराज्ये पालीमण्डले अरावळीपर्वतप्रदेशे एतत् शिल्पधाम अस्ति । अस्य विस्तारः ३७२० चतुरस्रमीटर् अस्ति । अत्र कश्चन जैनदेवालयः अप्यस्ति । चौमुखदेवालय इति ख्यातः एष देवालयः शिल्पकलाकेन्द्रमिव अस्ति । ५००शवर्ष प्राचीनम् एतत् १४ शतके निर्मितम् । अत्र २९ विस्तृतसभाङ्गणानि १४४४ स्तम्भयुक्तानि सन्ति । सर्वे स्तम्भाः विभिन्नशिल्पकलायुक्ताः सन्ति । अत्र ऋषभदेवस्य मूर्तिरस्ति । देवालयस्य अन्तर्भागे ८० गोलच्छदाः (Tomb) सन्ति । एतेषु मध्यगोलछदः अतीवोन्नतः अस्ति । अत्र जैनशिल्पिनां कार्यम् अतीवसुन्दरं श्रेष्ठं च अस्ति । यात्रिकाः “एष देवालयः अतीव विशालः सुन्दरः शिल्पकलायुक्तः सुन्दरतयालङ्कृतः” इति वर्णितवन्तः सन्ति ।
रणकपुरम् राणकपुरम् | |
---|---|
ग्रामः | |
रणकपुरमन्दिरम् | |
देशः | भारतम् |
राज्यम् | राजस्थानम् |
मण्डलम् | पालीमण्डलम् |
Languages | |
• Official | हिन्दी |
Time zone | UTC+5:30 (IST) |
PIN |
306702 |
Telephone code | 02934 |
Vehicle registration | RJ-22 |
धूमशकटमार्गः
सम्पादयतुअहमदाबाद्-देहलीमार्गे फाल्न् निस्थानतः ३५ .कि.मी दूरे एतदस्ति ।
वाहनमार्गः
सम्पादयतुउदयपुरतः १६ कि.मी जोधपुरतः १४० कि.मी । राजस्थानप्रवासनिगमस्य वसतिगृहे वासः शक्यः अस्ति ।