रत्नकरण्डश्रावकाचारः
रत्नकरण्डश्रावकाचारः इति ग्रन्थस्य द्वितीयशताब्द्यां आचार्यसमन्तभद्रेण कृता। आचार्य समन्तभद्रः जैनदर्शनस्य प्रामाणिकाचार्येषु अन्यतमः अस्ति। तेन लिखितः ग्रन्थोऽयं जैनश्रावकाणाम् आचरणविषये प्रथमग्रन्थो विद्यते, यः परवर्तीनां लेखकानां कृते प्रेरणादायकः प्रमाणं च अस्ति।
प्रतिपादितविषय:
सम्पादयतुअयं ग्रन्थः जैनदर्शनस्य अलौकिकः महत्त्वपूर्णः च। जैनदर्शने सर्वाणि शास्त्राणि चतुर्षु अनुयोगेषु सन्ति, तेषु चाननुयोगग्रन्थः अपि अन्तर्भवति। चाननुयोगग्रन्थेषु आचरणं वर्णितं, आचरणं द्विविधं भवति - निर्ग्रन्थाचरणं श्रावकाचरणं च। ग्रन्थेऽस्मिन् श्रावकाणाम् आचरणस्य वर्णनं कृतम्। जैनदर्शने उपलब्धानां सर्वेषां श्रावकाचरणग्रन्थानां मध्ये अयं रत्नाकरण्डश्रवकाचारः प्रथमः ग्रन्थः अस्ति यस्मिन् श्रावकाणाम् आचरणस्य वर्णनं भवति। अस्मिन् ग्रन्थे सम्यक्चरित्रस्य वर्णनं सम्यग्दर्शनज्ञानयोः अनन्तरेण भवति; यतः सम्यग्दर्शनं सम्यग्ज्ञानं च विना सम्यक्चारित्रं न सम्भवति। श्रावकस्य द्वादशव्रतानां विषये अपि अस्मिन् ग्रन्थे चर्चा अस्ति । श्रावकस्य एकादशपदानां चर्चा, अपि च सल्लेखनायाः प्रामाणिकं वैज्ञानिकं च वर्णनं विद्यते। अस्मिन् ग्रन्थे १५० श्लोकाः सन्ति।
अधिकाराः
सम्पादयतुअस्य ग्रन्थस्य वर्गीकरणं स्वयं कृतिकारेण न कृतं; परन्तु परवर्तिभिः टिकाकारैः कृतम्। लेखकस्यैव वर्गीकरणाभावात् भिन्नभिन्नटिकाकारैः ग्रन्थस्य भिन्नानि वर्गीकरणानि दत्तानि; तेषु द्वे प्रसिद्धे वर्गीकरणे स्तः। आचार्यप्रभाचन्द्रस्य वर्गीकरणानुसारम् अस्य पञ्चाधिकाराः सन्ति :-
1) दर्शनाधिकारः - 41 श्लोकाः
2) ज्ञानाधिकारः - 5 श्लोकाः
3) चारित्राधिकारः - 44 श्लोकाः
4) शिक्षाव्रताधिकारः - 31 श्लोकाः
5) सल्लेखानाप्रतिमाधिकारः - 29 श्लोकाः
पण्डितसदासुखदासवर्यस्य वर्गीकरणानुसारम् अष्टाधिकाराः सन्ति : -
1) सम्यग्दर्शनाधिकारः – 41 श्लोकाः
2) ज्ञानाधिकारः – 5 श्लोकाः
3) अणुव्रताधिकारः – 20 श्लोकाः
4) गुणव्रताधिकारः – 24 श्लोकाः
5) शिक्षाव्रताधिकारः – 31 श्लोकाः
6) भावनाधिकारः – न श्लोकाः
7) सल्लेखानाधिकारः – 14 श्लोकाः
8) श्रावकपदाधिकारः – 15 श्लोकाः
टिकाः
सम्पादयतु1) प्रभाचन्द्राचार्येन लिखिता संस्कृतटिका। प्रभाचन्द्राचार्यस्तु जैनदर्शनस्य प्रसिद्धो व्याख्याकारः, अनेकेषु ग्रन्थेषु टीकान् लिखितवान्। रत्नकरण्डश्रवाकाचारटीका तेन लिखिता संस्कृते उपलभ्यते।
२) श्रीचन्दकविः अपभ्रंशभाषायाम् एकविशंतिसन्धिषु अस्य ग्रन्थस्य काव्यत्वेन विस्तृतविमर्शमकरोत्।
3) पण्डितसदासुखदासवर्येण लिखता वचनिका। पण्डितसदासुखदासवर्यः रत्नकरण्डश्रवाकाचारोऽपरि प्राचीनहिन्दीभाषायां ( ढूँढारीबोल्यां) वाचनिकां लिखितवान्। एषा टिका विद्वानानां मध्ये सर्वाधिका लोकप्रिया अभवत् । केचन् विद्वांसः अपि वदन्ति यत् जैनदर्शने अन्ये श्रावकाचाराः आसन्; परन्तु रत्नकरण्डश्रवाकाचारस्य कीर्तिः केवलं तस्य टिकाकारणाद् आगता। सः केवलं ग्रन्थस्य व्याख्यां न कृतवान्; अपितु तत्सम्बद्धेषु विविधविषयेषु मार्मिकरूपेण विस्तारमपि कृतवान्, यथा भावनाधिकारे केवलं स्वविचाराः एव स्थापिताः, श्लोकाः नास्ति।
४) अर्वाचिनटिका - ग्रन्थेऽस्मिन् आधुनिकहिन्दीभाषायाम् अपि अनेकाः टिकाः उपलभ्यन्ते, परन्तु पण्डितसदासुखदासस्य वचनिका अतीवलोकप्रियत्वात् सर्वाः तस्मिन्नेव समाविष्टाः सन्ति।
५) अनुवादः - अस्य ग्रन्थस्य अनेकभाषासु अनुवादाः कृताः; परन्तु तस्य प्रथमः आङ्ग्लानुवादः बैरिस्टरचम्पतरायवर्येण कृतः।
प्रसिद्धश्लोकाः
सम्पादयतुमङ्गलाचरणम्
नमः श्रीवर्धमानाय निर्धूतकलिलात्मने ।
सालोकानां त्रिलोकानां यद्विद्या दर्पणायते ॥१॥
धर्मस्य लक्षणम्
सद्दृष्टिज्ञानवृत्तानिधर्मं धर्मेश्वरा विदुः ।
यदीयप्रत्यनीकानि भवन्ति भवपद्धतिः ॥३॥
सम्यग्दर्शनस्य लक्षणम्
श्रद्धानं परमार्थानामाप्तागमतपोभृताम् ।
त्रिमूढ़ापोढमष्टाङ्गं सम्यग्दर्शनमस्मयम् ॥४॥
आप्तस्य लक्षणम्
आप्तेनोच्छिन्नदोषेण सर्वज्ञेनागमेशिना ।
भवितव्यं नियोगेन नान्यथा ह्याप्तता भवेत् ॥५॥
गुरोः लक्षणम्
विषयाशावशातीतो निरारम्भोऽपरिग्रहः ।
ज्ञानध्यानतपोरक्तः तपस्वी स प्रशस्यते ॥१०॥
चारित्रस्य लक्षणम्
हिंसानृतचौर्येभ्यो मैथुनसेवापरिग्रहाभ्याम् ।
पापप्रणालिकाभ्यो विरतिः संज्ञस्य चारित्रम् ॥४८॥
सल्लेखनायाः लक्षणम्
उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतिकारे ।
धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥१२२॥