रम्ज़ान् इत्येतत् पर्व इस्लाममतानुयायिभिः आचर्यते । तेषां कालगणनानुसारं हिजरिशकस्य नवमः मासः रंज़ान् इत्युच्यते । रंज़ान्-मासे आचर्यमाणं रंज़ान्-पर्व "रमादान्" इत्यपि अभिदीयते । मासस्य प्रथमे दिने चन्द्रदर्शनानन्तरमेव पर्वणः आरम्भः भवति । विश्वे सर्वे यवनाः भक्तिभावेन सम्भ्रमेण च एतस्य पर्वणः आचरणं कुर्वन्ति । रम्ज़ान्-मासे यवनाः पवित्रस्य कुरान्-ग्रन्थस्य पारायणं पठनं च आमासं कुर्वन्ति । उपवासव्रतम् अपि आमासम् आचर्यते । इस्लाम्-मतस्य पञ्चमहातत्त्वेषु रम्ज़ान् मासे आचर्यमाणम् उपवासव्रतम् अपि अति प्रमुखं वर्तते ।

रंज़ान्
रमदान्
रंज़ान् रमदान्
बहरीनदेशे रंज़ान्-पर्वणः आरम्भे चन्द्रदर्शनम्
के आचरन्ति इस्लाममतानुयायिनाः
वर्गः इस्लाममतम्
आरम्भः हिजरीशके नवमे मासे
अन्त्यम् रंज़ानमासस्य अन्तिमदिनम् ( २९तम वा ३०तम दिनम्)
आचरणानि सामूहिक प्रार्थनाः (इफ्तार्)
रीतयः
  • उपवासव्रतम्
  • दानम् ( ज़कत्)
  • प्रार्थना (तारावीह्)
  • कुरान् पारायणम्
  • सात्विकव्यवहाराः

अस्मिन् मासे यवनाः निराहारिणः भूत्वा प्रपञ्चे विद्यमानान् निर्गतिकान् स्मरन्तः तेषां कृते प्रार्थनां कुर्वन्ति । रात्रौ क्रियमाणा सामूहिकप्रार्थना बहु विशिष्टा या "तरावीह-नमाज़्" इति नाम्ना प्रसिद्धा वर्तते । एवं कुरान्- ग्रंथस्य पठनेन, उपवासव्रतपालनेन, विशेषप्रार्थनाद्वारेण च यवनाः आत्मसंस्करणं साधितुमिच्छन्ति ।

रम्ज़ान्-मासे सूर्योदयादारभ्य सूर्यास्तपर्यन्तं तेषां नियमानुसारेण आहारेण विना उपवासव्रतम् आचरन्ति । सूर्योदयात् पूर्वं क्रियमाणं भोजनं 'सहरि' इति कथ्यते । सूर्यास्तानन्तरं व्रतं समाप्य इफ्तार्नामकं भोजनं स्वीकुर्वन्ति । विविधफलानि, खाद्यानि, फलरसाश्च भोजने भवन्ति । सर्वे गृहजनाः मिलित्वा "आझान्" श्रवणानन्तरं भोजनं कुर्वन्ति ।

यवनैः उपवासव्रतं पालनीयम् इति शासनं क्रिस्ताब्दे ६२६ तमे वर्षे कृतम् । पवित्र खुरान्-ग्रन्थस्य १८३ अध्यायतः १८७ अध्यायपर्यन्तं रम्ज़ान् पर्वणः उपवासपालनस्य विषये विवरणानि प्राप्यन्ते ।

बाह्यानुबन्धाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=रमजान्&oldid=481764" इत्यस्माद् प्रतिप्राप्तम्