रविशङ्कर (धर्मगुरुः)

(रविशङ्कर् (अध्यात्मगुरुः) इत्यस्मात् पुनर्निर्दिष्टम्)

श्री श्री रविशङ्करः (Sri Sri Ravishankar) (तमिळ: ஸ்ரீ ஸ்ரீ ரவி ஷங்கர்) (जार्जियन: ಶ್ರೀ ಶ್ರೀ ರವಿಶಂಕರಗುರುಃ) ಶ್ರೀ ಶ್ರೀ ರವಿಶಂಕರಗುರುಃकश्चित् सनातनधर्मगुरुः । क्रि.श. १९५६तमे वर्षे तमिळुनाडुप्रदेशे अजायत । भारतस्य अध्यात्मगुरोः अस्य प्रथमः आचार्यः महर्षिः महेशयोगी[]अस्य मूलं नाम रविशङ्कररत्नम् । आर्ट् आफ् लिविङ्ग् प्रतिष्ठानस्य संस्थापकः (क्रि.श.१९८२) अस्ति। एतत् प्रतिष्ठानं वैयक्तिकजीवनस्य क्लेशानां, सामाजिकसमस्यानां, हिंसाचारादीनां च शमनाय उद्दिष्टम् अस्ति । अपि च विश्वसंस्थायाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगस्य (UNESCO) सूचनास्थानमानेन विद्यमाना सर्वकारेतरसंस्था (NGO) अस्ति । सरलतया श्री श्री इति गौरवसूचकपदेन अथवा गुरुजी, गुरुदेव इति वा अनुयायिनः एतं सम्बोधयन्ति ।[] एषः क्रि.श. १९९७तमे वर्षे जिनिवामूलस्य इण्टर्न्याषनल् संस्था फार् ह्यूमन् व्याल्यूस् इति धर्मदत्तिसंस्थाम् आरब्धवान् । एषा अपि असर्वकारीयसंस्था (NGO) परिहारकार्ये, ग्रामीणाभिवृद्धिकार्ये च निरता अस्ति ।

श्री श्री रविशङ्करः ।
ಶ್ರೀ ಶ್ರೀ ರವಿಶಂಕರಗುರುಃ
जन्मतिथिः क्रि.श. १९५६तमवर्षस्य मे मासस्य १३दिनाङ्कः ।
जन्मस्थानम् तमिळुनाडुराज्यम्, भारतम्
पूर्वाश्रमनाम रवि रत्नम् ।
तत्त्वचिन्तनम् अध्यात्म

जीवनवृत्तान्तः

सम्पादयतु

क्रि.श. १९५६तमे वर्षे रविशङ्करस्य पिता आर्.एस्.वेङ्कटरत्नं वाहनोद्यमे निरतः आसीत् ।[] ग्रामीणमहिलानां सबलीकरणसंस्थायाः निदेशकः भारतीयभाषाणां विद्वान् चासीत् । रविशङ्करस्य माता विशालाक्षी रत्नम् । एतस्य बाल्यनाम रवि इति रविवासरे जातः इति अङ्कितम् । आदिशङ्कराचार्यस्य जन्मतिथौ (वैशाखशुद्धपञ्चम्याम्) जातः इति शङ्करः इति अपि नाम योजितम् । अतः रविशङ्करः इति अभवत् । [][] बेङ्गळूरुविश्वविद्यालयस्य सेण्ट् जोसेफ् महाविद्यालयतः स्वस्य २१तमे वयसि विज्ञानपदवीम् अवाप्नोत् । स्नातकपदव्याः पश्चात् वेदविज्ञानस्य विषये उपन्यस्तुं, वेदविज्ञानस्य च सम्मेलनं व्यवस्थापयितुम् आयुर्वेदकेन्द्राणि स्थापयितुं च आह्वानम् अङ्गीकृत्य महर्षिणा महेशयोगिना सह प्रवासम् अकरोत् ।[] एतं पूर्वं पण्डितः रविशङ्करः (अथवा पण्डितजी) इति सम्बोधयन्ति स्म । किन्तु पण्डितः रविशङ्करः इति प्रसिद्ध सितार् वादकः अस्तीति क्रि.श. १९९०तमे वर्षे श्री श्री रविशङ्करः इति सम्बोधनं परिवर्तितम् ।[]क्रि.श. १९८०तमे दशके रविशङ्करः आध्यात्मिकतायाः प्रयोगिकप्रणालीं विश्वे बहुत्र आयोजितवान् । सुदर्शनक्रियानामिकां विशिष्टां क्रमबद्धस्य श्वासोच्छ्वासस्य अभ्यासपद्धतिम् आविष्कृतवान् [] प्रत्येकं भावः अपि श्वासोच्छ्वासस्य गतिना सम्बद्धः भवति । श्वासः सक्रमः भवति चेत् शरीरस्य मनसः च सङ्कष्टस्य शमनं भवति इति रविशङ्करः वदति ।[] अस्य प्रोत्साहनेन अस्य पिता अन्यैः बेङ्गळूरुनगरप्रमुखैः सह मिलित्वा वेदविज्ञानमहाविद्यापीठम् इति संस्थाम् आरब्धवान् । अस्याः संस्थायाः आश्रयेण ग्रामीणभागस्य शिक्षावञ्चितबालानां विद्यालयः एकः आरब्धः । एषा शाला इदानी २०००छात्रेभ्यः विद्यादानं कुर्वती अस्ति ।[]क्रि.श. १९८३तमे वर्षे प्रथमवारं रविशङ्करः युरोप् देशस्य स्विट्झर्ल्याण्ड् नगरे सर्वप्रथमं जीवनकलाप्रणालीं समचालयत् । क्रि.श. १९८६तमे वर्षे अमेरिकादेशस्य क्यालिफोर्नियायाः एपल् व्यालिमध्ये एतत् चालितवान् ।[]

अध्यात्मगुरुः

सम्पादयतु

रविशङ्करः वदति आध्यात्मं मनुष्ये प्रीतिं करुणाम् उत्साहं जीवनमौल्यानि च वर्धयति । एतत् कस्यचिदपि एकस्य मतस्य धर्मस्य वा परिमितौ न विद्यते । एतत् विश्वधर्मस्य हृदयभागः अस्ति । अतः एतत् सर्वजनेभ्यः मुक्तम् अस्ति।[] श्वासः अस्माकं देहमनसोः मध्ये विद्यमानः अनुबन्धः इति रविशङ्करस्य प्रतिपादनम् । अतः मनसः शान्त्यै साधनं ध्यानं परोपकारः च इति अस्य वादः । विज्ञानम् अध्यात्मं च परस्परं सम्बद्धम् । मनसः विबाधानिवारणं हिंसामुक्तजगतः निर्माणम् एव अस्य परमं लक्ष्यम् अस्ति । [१०]

मानवहितकार्याणि

सम्पादयतु

क्रि.श.१९९०तमे काले जीवनकलासंस्थायाः अन्यराष्ट्रियसंस्थायाः चाश्रयेण नैकानि मानवहितकारिकार्याणि आरब्धानि । तानि अद्यापि अनुवर्तन्ते । क्रि.श. १९९२तमे वर्षे कारागारेषु बद्धानां पुनश्चेतनेन प्रधानवाहिन्याम् आनेतुं तत्र अनेकाः कार्यक्रमाः कृताः । [११]क्रि.श. १९३७तमे वर्षे मानवमौल्यानाम् अन्ताराष्ट्रियसंस्था इति मानवहितकारी सङ्घः आरब्धः । तस्य 5Hकार्यक्रमेण ग्रामीणप्रदेशेषु सुस्थिराभिवृद्धिः, मानवीयमौल्यपुनश्चेतनं च लक्षितम् ।[१२]न्यूयार्क नगरस्य विश्ववाणिज्यकेन्द्रस्य उदर्के क्रि.श.२००१तमे वर्षे सम्भूते भयोत्पादकाक्रमणावसरे सञ्जातजनमानसविबाधानिवारणार्थं []एतत् प्रतिष्ठानं कोसोवो युद्धपीडितस्य प्रदेशे परिहारकार्याणि, आरोग्यसंरक्षणकार्याणि च अकरोत् । क्रि.श. २००३तमे वर्षे आक्रान्ते इराक् देशे कार्यनिरतः भूत्वा जनमानसस्य विबाधां शमयितुं प्रयत्नम् अकरोत् । [१३] अफगानिस्ताने क्रि.श. २००३तः २००६पर्यन्तम् एतादृशानि एव परिहारकार्याणि अकरोत् । क्रि.श. २००७ श्री श्री रविशङ्करः प्रधानमन्त्रिणः नौरि अल् मौलिकि इत्यस्य निमन्त्रणम् अङ्गीकृत्य इराक् प्रवासं कृत्वा सुन्नि शिया कुर्दि नायकानां सन्दर्शनं कृतवान् ।[१४]एषः क्रि.श.२००४तमे वर्षे पाकिस्तानस्य प्रवासं कृत्वा जागतिकशान्तिप्रेरणां कर्तुं कांश्चन मतीयनायकान् सन्दृष्टवान् ।[१५]बहवः कार्यकर्तारः क्रि.श. २००४ तमे वर्षे हिन्दुमहासागरस्य भूकम्पन सुनामी जञ्झावातस्य सन्त्रस्तानां सहायार्थं कार्याणि कृतवान् । SMART इति परिचितस्य कारागृहस्य बन्धिनां मानसविबाधापरिहारार्थं कार्यक्रमान् योजितवान् । रविशङ्करः अन्तर्मतीयकसंवादेषु अपि आसक्तः अस्ति । प्रस्तुतम् एलिजा अन्तर्मतीयसंस्थायाः विश्वमतनायकसमितौ रविशङ्करः स्थानं प्राप्तवान् ।[१६]

सुदर्शनक्रिया

सम्पादयतु

सुदर्शनक्रिया श्वसोच्छ्वासाधृतं तन्त्रम् । [१७] Art of living प्रणाल्याः मुख्यभागः प्रतिष्ठानस्य आघातपरिहारकार्यक्रमस्य मूलशिला भवति ।[१७] अस्य केषुचित् उपन्यासेषु सुदर्शनक्रियां लयबद्धा श्वासक्रिया दैहिकमनसिकभावनात्मकस्तरान् परिशोधयति समरसं करोति च इति वर्णितवान् । [१८]अस्य तन्त्रस्य विषये नैकानि वैद्यकीयाध्ययननि तज्ञानां विमर्शाः वृत्तपत्रिकासु प्रकाशिताः । मानसिकविबाधायाः शमनम्, आरोग्यरक्षणम्, उद्वेगनियन्त्रणं, मनःखिन्नतापरिहारः इत्यादयः साध्याः इति निर्णिताः । [१९]

  1. रविशङ्करस्य गाथा
  2. २.० २.१ २.२ A. ಸಾಲ್ಕಿನ್, एम्परर् आफ् एर्,योग जर्नल्२००२
  3. ३.० ३.१ Mahadevan, Ashok (February 2007). "Face to face". Reader's Digest. Archived from the original on 2007-09-29. आह्रियत 2009-06-05. 
  4. इण्डिया बयोग्रफी[नष्टसम्पर्कः]
  5. गौटियर्, फ्राकय्स्, दि गुरु आफ् जाय्, न्यूयार्क्, हए हौस्,२००८,पि. ३६.
  6. ६.० ६.१ MacGregor, Hillary E (2004-10-31). "Breathe deeply to relieve stress, depression". The Seattle Times. आह्रियत 2009-06-05. 
  7. http://expressbuzz.com/Cities/Bangalore/dutch-honour-for-sri-sri-ravi-shankar/64181.html[नष्टसम्पर्कः]
  8. http://artofliving.eu/index.php?id=205&L=17
  9. श्री श्री रविशङ्करः ब्याङ्ग् आन् दि डोर् साण्टा बार्बरा, CA: आर्ट् आफ् लिविङ्ग् फौण्डेशन्१९९५. ISBN 1-885289-31-6
  10. वषिङ्क्टन् पोस्ट् सन्दर्शनम्
  11. "इन् प्रिसन्, प्रवीण् महाजन्, & दावूद्स् ब्रदर् जायिन्१५००, अदर्स् इन् योग एण्ड् भजन्स्", MUMBAI न्यूस् लैन् - मुम्बै क्रि.श. २००७ तमस्य वर्षस्य एप्रिल् मासस्य ३०दिनाङ्कः ।
  12. श्री श्री रविशङ्करः, दि हफिङ्ग्टन् पोस्ट् क्रि.श. २०१०, अगस्त् १२।
  13. BBCवार्ता| भारतीय स्ट्रेस् बस्टर्स् टार्गेट् इराक्
  14. "Art of living guru in irraq to talk peace". Archived from the original on 2007-09-30. आह्रियत 2012-05-04. 
  15. there is dignity of religion in pakistan,The times of India
  16. "The elija interfaith institute - hindu members of the board of the world religious leaders". Archived from the original on 2012-04-26. आह्रियत 2012-05-04. 
  17. १७.० १७.१ "page on Art of living". Archived from the original on 2010-12-01. आह्रियत 2012-05-04. 
  18. "perma link to article about payed association attempt on ravishankar •Newन्यूस् स्टोरि फ्रम् 31 मे 2010". Archived from the original on 2011-01-01. आह्रियत 2012-05-04. 
  19. Anti dipresent officasy of Sudarshana kriyayoga (SKY) In melankoliya : A randamised compresion with electroconvelsive theraphy(ECT) And impramise जानकिरामय्य एन्., गङ्गाधर बि.एन्., नागवेङ्कटेशमूर्ति पि.जे, हरीश् एम्.जि, सुब्बकृष्ण डि.के., वेदमूर्ताचार् - A gernal of effective disarorders ५७तमे सम्पुटम् । सङ्ख्या क्रि.श. २०००, जनवरि प्रथमदिनाङ्कः ।http://www.ncbi.nlm.nih.gov/pubmed/10708840

बाह्यानुबन्धाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=रविशङ्कर_(धर्मगुरुः)&oldid=488603" इत्यस्माद् प्रतिप्राप्तम्