राघवीयम्
वाल्मीकिरामायणोक्तरीत्या एव रघुरामस्य चरितं विंशतिसर्गपर्यन्ते अस्मिन् महाकाव्ये कविना वर्ण्यते । अस्य महाकाव्यस्य मुद्रणं केरलसर्वकलाशालातः १९४१ तमे वर्षे कृतम् । बालपाठ्यनामक व्याख्यानमपि कविना योजितं अस्ति । काव्यस्य अन्तिमभागे लिखितेन, अधोदत्तेन श्लोकेनैतत् स्पष्टं भवति - रामेण पाणिवादेन राघवीयमिदं कृतम् । तेनैव बालपाठ्याख्या व्याख्या व्याख्यायि धीमता ।। पाणिनीय सूत्राआणि अपि सरसशैल्या काव्ये उपनिबद्धानि दृश्यन्ते । केचन उदहरणानि दीयन्ते - अक्ष्णा काणीचकार तं (७. ९) जनिकर्तुः प्रकृतिः स हर्षहेतुः (१५. १४) बहवः सदुपदेशान्यपि काव्येस्मिन् विद्यन्ते । १. आराधनं किं न ददाति शौरेः । २. बालोपि दुर्वारविषयो हि भोगी । ३. नियतमृत्यु हि जन्मशरीरिणाम् ।