(कालः – ११. १२ .१८४३ तः २७. ०५ .१९१०)

राबर्ट् कोख्
जननम् (१८४३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-११)११ १८४३
Clausthal, Kingdom of Hanover
मरणम् २७ १९१०(१९१०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-२७) (आयुः ६६)
Baden-Baden, Grand Duchy of Baden
देशीयता German
कार्यक्षेत्राणि Microbiology
संस्थाः Imperial Health Office, Berlin, University of Berlin
मातृसंस्थाः University of Göttingen
संशोधनमार्गदर्शी Friedrich Gustav Jakob Henle
विषयेषु प्रसिद्धः Discovery bacteriology
Koch's postulates of germ theory
Isolation of anthrax, tuberculosis and cholera
प्रभावितः Friedrich Loeffler
प्रमुखाः प्रशस्तयः Nobel Prize in Medicine (1905)


जर्मन्-देशस्य नाणके राबर्ट् कोखस्य चित्रम्

अयं राबर्ट् कोख् (Robert koch) ब्याक्टीरियाविज्ञानस्य पितामहः । अयं राबर्ट् कोख् जर्मन्-देशस्य हानोवर् इति प्रदेशे १८४३ तमे वर्षे डिसेम्बरमासस्य ११ दिनाङ्के जन्म प्राप्नोत् । अस्य पितुः १३ पुत्रेषु अयम् अपि अन्यतमः आसीत् । अस्य पिता खनितन्त्रज्ञः आसीत् । एषः राबर्ट् कोख् बाल्यादारभ्य अपि प्रकृतिविषये आसक्तः आसीत् । १८६६ तमे वर्षे वैद्यपदवीं प्राप्नोत् । अनन्तरं ५ वर्षाणि यावत् वैद्यालये कार्यम् अकरोत् । सः यदा वोल्स्टीन् प्रदेशस्य वैद्याधिकारी आसीत् तदा तत्रत्यानां मनुष्याणां रोगाणां निवारणेन सह पशुपक्षिणां रोगाणां निवारणस्य दायित्वम् अपि तस्यैव आसीत् । सः राबर्ट् कोख् तत् दायित्वद्वयम् अपि आसक्त्या श्रद्धया च निरवहत् । अग्रिमाणि दश वर्षाणि यावत् पुनः लघु लघु प्रदेशेषु कार्यं निरवहत् । किन्तु तस्य मनः प्रायोगशालायां कार्यं कर्तुम् इच्छति स्म ।


कदाचित् तस्य राबर्ट् कोखस्य जन्मदिने तस्य पत्नी तस्मै एकं सूक्ष्मदर्शकयन्त्रम् उपायनरूपेण अयच्छत् । तदेव तस्य रबर्ट् कोखस्य अमूल्यम् उपकरणम् अभवत् । सः प्रथमं तेन यन्त्रेण मृतायाः कस्याश्चित् धेनोः रक्तस्य परीक्षाम् अकरोत् । तदवसरे तेन अरोगवतां प्राणिनां शरीरे अविद्यमानं किञ्चित् वस्तु तस्मिन् रक्ते दृष्टम् । सः राबर्ट् कोख् १८९७ तमे वर्षे धेनूनां "प्लेग्”रोगस्य तथा मलेरियारोगस्य च विषये संशोधनम् अकरोत् । तेन प्रयोगेण सूक्ष्मजीविनः एव तेषां रोगाणां कारणाम् इति ज्ञातम् । मेषाणां विचित्ररोगस्य "अन्थ्राक्स्” इत्यस्य शलाकाकारकाः ब्याक्टीरीयाः (ब्यासिल्लै) एव कारणम् इत्यपि संशोधनम् अकरोत् । तस्य कार्यं तदा सुलभं न आसीत् । तस्य प्रयोगार्थं स्थलम् एव नासीत् । अतः सः स्वस्य गृहस्य उपवेशनाङ्गणम् एव प्रयोगशालारूपेण परिवर्तितवान् आसीत् । तत्र सर्वत्र तेन उपयुज्यमानानि उपकरणानि पतितानि भवन्ति स्म । सर्वत्र गृहे रासायनिकानां वस्तूनां कटुगन्धः , शशमूषकाणां मलमूत्रादीनां गन्धः वा प्रसृतः भवति स्म । तस्य सम्पूर्णं लक्ष्यं संशोधनदिशि एव आसीत् इति कारणतः सदा प्रयोगनिरतः भवति स्म । तेन धनस्य सम्पादनं न्यूनं जातम् । तदवसरे गृहस्य निर्वहणम् एव कर्तुं न शक्यते स्म । अयं राबर्ट् कोख् तादृश्यां परिस्थितौ अपि धैर्यहीनः न जातः । स्वीयं संशोधनकार्यम् अनुवर्तितवान् । किञ्चित् कालानन्तरं विभिन्नानां सङ्घ-संस्थानां द्वारा गौरवसमर्पम् आरब्धम् । नूतनानाम् उद्योगानाम् आह्वानानि अपि आगतानि । जर्मन्-सर्वकारः एव तं राबर्ट् कोखं बर्लिन्-नगरे स्थितम् इम्पीरियल् हेल्त् इन्स्टिट्यूट् प्रति प्रेषयित्वा संशोधनार्थम् आवश्यकानि आनुकूल्यानि अकल्पयत् । लण्डन्-नगरे प्रवृत्ते विश्ववैद्यसम्मेलने तेन राबर्ट् कोखेन प्रस्तुतः अन्थ्राक्स्-सम्बद्धः प्रबन्धः सर्वेषां प्रशंसां प्राप्नोत् । तत्र प्राप्तेन प्रोत्साहेन राबर्ट् कोख् मारकरोगस्य क्षयस्य कारणं संशोधयितुम् उद्युक्तः अभवत् । वर्षद्वये एव सः तस्मिन् कार्ये सफलः अभवत् अपि । तथैव जिलेटिन् मध्ये विभिन्नाः ब्याक्टीरियाः वर्धयितुं शक्यन्ते इत्यपि संशोधितवान् । जर्मन्-सर्वकारः तं राबर्ट् कोखं भारतं तथा ईजिप्तं प्रति कालरारोगिणां परीक्षणार्थं प्रेषितवान् । तदा अपि राबर्ट् कोख् कालरारोगस्य कारणीभूतान् ब्याक्टीरियान् संशोधितवान् । तथैव तेषां ब्याक्टीयाणां वर्धनस्य नियन्त्रणं कथं करणीयम् इत्यपि अदर्शयत् । तस्य राबर्ट् कोखस्य एतादृशस्य महाकार्यस्य निमित्तं सः १९०५ तमे वर्षे "नोबेल्” पुरस्कारेण सम्मानितः अपि । अयं राबर्ट् कोख् ६७ वर्षाणि यावत् अजीवत् । १९१० तमे वर्षे मेमासस्य २७ तमे दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यानुबन्धः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=राबर्ट्_कोख्&oldid=480875" इत्यस्माद् प्रतिप्राप्तम्