रामकृष्ण मिशन्
रामकृष्ण मिशन् इत्येषा संस्था विश्वव्याप्ता धार्मिकी सामाजिकी च सेवासंस्था । इयं संस्था श्रीरामकृष्ण परमहंसेन एव १८८६ तमे वर्षे स्वीयान्तरङ्गशिष्येभ्यः संन्यासदीक्षायाः अनुग्रहद्वारा संस्थापिता । तस्य दिवङ्गमनानन्तरं तदीयेन परमश्रेष्ठेन शिष्येण स्वामिना विवेकानन्देन १८९७ तमस्य वर्षस्य मेमासस्य प्रथमदिनाङ्के व्यवस्थितरूपेण संरचितम् । शिक्षणं, वैद्यकीयचिकित्सा, वनवासिकल्याणं, ग्रामाभिवृद्धिः इत्यादिषु क्षेत्रेषु संस्था सेवाकार्यं करोति । दीक्षिताः संन्यासिनः, गृहस्थशिष्याः च मिलित्वा एतानि कार्याणि निर्वहन्ति । कर्मयोगसिद्धान्तस्य आधारेण अत्र कार्यम् आचर्यते । [१] अस्याः संस्थायाः केन्द्रकार्यालयः पश्चिमवङ्गराज्यस्य हावरामण्डलस्य कोलकोत्तनगरे विद्यमानं बेलूरमठम् । सनातनहिन्दुधर्मस्य वेदान्ततत्त्वानुगुणम् अस्याः कार्यं प्रचलति । 'रामकृष्णमठ'नामकेन संन्यासिनां सङ्घटनेन सह अस्याः कार्यं प्रचलति ।
रामकृष्ण मिशन् | |
---|---|
ध्येयवाक्यम् | आत्मनो मोक्षार्थं जगद्धिताय च |
संस्थापनम् | १८९७ |
उद्देश्यम् | शैक्षणिकम्,सामाजिकम्, अध्यात्मिकम्, धार्मिकाध्ययनम् |
मुख्यकार्यालयाः | बेलूरुमठम्, पश्चिमवङ्गराज्यम्, भारतम् |
कार्यव्याप्तिः | जागतिकम् |
जालस्थानम् | बेलूरुमठ |
इतिहासः
सम्पादयतुरामकृष्ण परमहंसः (१८३६-१८८६) एव रामकृष्ण संन्याससङ्घस्य संस्थापकः । [२] [३][४] रामकृष्णः दक्षिणेश्वरे कालीमन्दिरस्य अर्चकः आसीत् । तस्य बहवः संन्यासिशिष्याः गृहस्थशिष्याः च आसन् । तस्य प्रमुखः संन्यासशिष्यः विवेकानन्दः । १८८६ तमे वर्षे तस्य मरणात् केभ्यश्चित् दिनेभ्यः पूर्वं संन्यासं स्वीकर्तुम् उद्युक्तेभ्यः स्वीयतरुणशिष्येभ्यः सः काषायवस्त्रम् अयच्छत् । रामकृष्णः तेषां तरुणानां योगक्षेमनिर्वहणदायित्वं विवेकानन्दाय अददात् । तस्य मरणानन्तरं ते तरुणशिष्याः मिलित्वा अध्यत्मसाधनम् अकुर्वन् । १८८६ तमे वर्षे डिसेम्बर्मासे ते अनौपचारिकरूपेण एकस्यां रात्रौ संन्यासप्रतिज्ञां स्वीकृतवन्तः । [२]
स्थूलपरिचयः
सम्पादयतुविवेकानन्देन संस्थापिता इयं संस्था स्वास्थ्य-शिक्षण-विपत्परिहारादिषु कार्येषु आत्मानं योजितवती अस्ति । अस्याः संस्थायाः पञ्जीकरणं १९०९ तमे वर्षे (१८६० नियमः XXI अनुगुणं) जातम् । अस्याः संस्थायाः मठस्य च बहु निकटसम्बन्धः वर्तते । मठस्य चितः विश्वस्तः एव अस्याः संस्थायाः निर्वहणाधिकारी भवति ।
निर्वहणम्
सम्पादयतुरामकृष्णमठस्य पदाधिकारिणां चयनं विश्वस्तमण्डल्या क्रियते । मण्डल्या विद्यमानैः विश्वस्तैः एव अध्यक्षः, उपाध्यक्षः, कार्यदर्शी, उपकार्यदर्शिनः, कोशाध्यक्षः च चीयन्ते । एतन्निमित्तं आ विंशतिभ्यः वर्षेभ्यः विद्यमानानां संन्यासिनाम् अभिप्रायः स्वीक्रियते । रामकृष्ण मिशन् संस्थायाः निर्वहणगणे रामकृष्णमठस्य विश्वस्ताः भवन्ति । रामकृष्णमठस्य मुख्यकार्यालयः बेलूरुमठः एव रामकृष्ण मिशन् संस्थायाः अपि मुख्यकार्यालयः विद्यते । रामकृष्णमठस्य शाखा संन्यासिगणेन निरूह्यते ये च विश्वस्तैः प्रेष्यन्ते । विश्वस्तानां प्रमुखः भवति ज्येष्ठः संन्यासी यः अध्यक्षः इति निर्दिश्यते । रामकृष्ण मिशन् संस्थायाः शाखाकेन्द्रं निर्वहणगणेन निरूह्यते । तस्मिन् गणे संन्यासिनः अन्ये च भवन्ति । अन्ये सदस्याः रामकृष्ण मिशन् संस्थायाः निर्वहणगणेन क्रियते यस्य कार्यदर्शी निर्वहणाधिकारिरूपेण कार्यं करोति । संस्थानिर्वहणस्य आधारभूताः भवन्ति सर्वे संन्यासिनः । सर्वेषां संन्यासिनां मेलनं वर्षत्रये एकवारं भवति यत्र विश्वस्तैः स्वीकृतानां नियमानाम् अङ्गीकारः कार्याणां मार्गदर्शनञ्च भवति । रामकृष्ण मिशन् संस्थायाः कार्यनिर्वहणस्य नीतिनियमाः स्वामिना विवेकानन्देन एव आरचिताः सन्ति । १८९८-९९ तमयोः वर्षयोः स्वामी विवेकानन्दः स्वामिनं शुद्धानन्दम् उद्दिश्य एतान् नियमान् अवदत् । ततः ते नियमाः श्रीरामकृष्णस्य सर्वैः शिष्यैः प्रशिष्यैः च सर्वानुमतेन अङ्गीकृताः । अग्रे १८९९-१९०१ तमयोः वर्षयोः तेषां नियमानां पञ्जीकृतविश्वस्तपत्रं सज्जीकृतम् स्वामिना विवेकानन्देन, अन्यैः रामकृष्णभक्तैश्च । [६]
ध्येयं तत्त्वानि च
सम्पादयतुअस्याः संस्थायाः लक्ष्यतत्त्वादीनि अध्यात्मिकानि मानवीयमौल्ययुतानि च विद्यन्ते । ते राजनैतिकसम्बन्धः न कोपि विद्यते । आधुनिकभारतस्य राष्ट्रियादर्शद्वयम् - त्यागः सेवा च - इति न्यरूपयत् विवेकानन्दः । तदीयान् आदर्शान् नित्यजीवने समर्थरीत्या आनेतुं प्रयतते इयं संस्था ।
संन्यासिगणः
सम्पादयतु१८८६ तमे वर्षे श्रीरामकृष्णस्य मरणानन्तरं तदीयाः युवशिष्याः सम्मिल्य संन्यासदीक्षां स्व्यकुर्वन् । मूलः मठः कलकत्तासमीपस्थे बारानगरे आसीत् । ततः १८९२ तमे वर्षे सः मठः अलम्बझार्-नगरं प्रति, ततः नीलम्बार् मुखर्जिवर्यस्य उद्यानगृहं प्रति च परिवर्तितः । १८९९ तमे वर्षे हावराजनपदे विद्यमाने बेलूरुमठं प्रति परिवर्तितः जातः । इयं भूमिः स्वामिना विवेकानन्देन आसादिता । [७] अयं बेलूरुमठः देशे विदेशे च विभिन्नेषु मठकेन्द्रेषु मिशिन् केन्द्रेषु च कार्यं कुर्वतां सर्वेषामपि संन्यासिनां मातृगृहं विद्यते । मठस्य सर्वः अपि सदस्यः प्रशिक्षणं संन्यासदीक्षां च बेलूरुमठे एव प्राप्नोति । संन्यासदीक्षाकांक्षी प्रथमवर्षे पूर्वपर्यवेक्षणावस्थायां भवति । अग्रिमाणि चत्वारिवर्षाणि पर्यवेक्षणावस्थायां भवति । तस्यान्ते सः ब्रह्मचर्यव्रतधारी भूत्वा प्रतिज्ञातः भविष्यति । ब्रह्मचर्यं, त्यागः, सेवा च प्रतिज्ञायाः प्रमुखाः विषयाः । चतुर्भ्यः वर्षेभ्यः अनन्तरं योग्यः इति निश्चीयते चेत् तस्मै संन्यासदीक्षा प्रदीयते । सः भवति काषायवस्त्रधारी ।
लाञ्छनम्
सम्पादयतुइदं लाञ्छनं स्वामिना विवेकानन्देन एव आरचितम् अस्ति, एवं विवृणोति च - चित्रे दृश्यमानं तरङ्गयुक्तं जलं कर्मसूचकं, कमलं भक्तिसूचकम्, उदयमानः सूर्यः ज्ञानसूचकः, परितः आवृतः सर्पः योगस्य जागरितायाः कुण्डलिनीशक्तेः सूचकः, चित्रे विद्यमानः हंसः परमात्मसूचकः विद्यते । कर्म-ज्ञान-भक्ति-योगस्य संयोगेन परमात्मनः दर्शनं प्राप्यते इत्येतत् द्योतयति चित्रम् । [८]
कार्यक्रमाः
सम्पादयतुप्रमुखाः कार्यकर्तारः संन्यासिनः । अस्याः संस्थायाः प्रमुखकार्याणि -
- शिक्षणम्
- स्वास्थ्यप्रगतिः
- सांस्कृतिककार्यक्रमाः
- ग्रामोत्थानम्
- वनवासिकल्याणम्
- युवान्दोलनम् इत्यादयः
संस्थायाः स्वीयचिकित्सालयाः, साहाय्यकेन्द्राणि, कुष्ठरोगचिकित्सालयाः, चरचिकित्सालयाः, प्रसूतिकेन्द्राणि च विद्यन्ते । अनुवैद्यानां शिक्षणकेन्द्राणि अपि निरूह्यन्ते । ग्रामविकासः, वनवासिकल्याणकेन्द्राणि, वृद्धाश्रमाः इत्येतेषु अपि एतेषां कार्याणि प्रचलन्ति । अनया संस्थया भारते बहूनि शिक्षणसंस्थानि स्थापितानि । तदीयानि प्राथमिकविद्यालयाः, प्रौढशालाः, शिक्षकप्रशिक्षणकेन्द्राणि, महाविद्यालयाः, वृत्तिशिक्षणकेन्द्राणि, अन्धशालाः विश्वविद्यालयश्च विद्यन्ते । पश्चिमवङ्गराज्यस्य सुन्दर्बन्-प्रदेशेषु भौगोलिककारणतः विद्युच्छक्तेः सम्पर्ककल्पनम् अशक्यम् । अत्रत्याः सर्वे अपि मृत्तैलेनैव जीवन्ति स्म । तस्मिन् स्थले सूर्यशक्तेः साहाय्येन दीपव्यवस्था कल्पिता अस्ति अस्याः संस्थायाः परिश्रमेणैव । [९]
धार्मिककार्याणि
सम्पादयतुइयं संस्था जात्यतीतः विद्यते । [१०][११] अपि च जातिभेदविरोधी वर्तते । [१२] रामकृष्णाश्रमस्य धार्मिककार्यक्रमेषु अन्यतमाः सन्ति सत्सङ्गः, नीराजनं च । सत्सङ्गे प्रार्थना, भजनानि, प्रवचनम्, पठनं, ध्यानञ्च भवन्ति । दिने द्विः नीराजनाचरणं क्रियते । [१३] अत्र प्रमुखाः हिन्दु-उत्सवाः - महाशिवरात्रिः, रामनवमी, कृष्णाष्टमी, दुर्गापूजा च आचर्यते । रामकृष्ण-शारदादेवी-विवेकानन्द-अन्यसंन्यासिशिष्याणां च जन्मदिनं विशेषेण अत्र आचर्यते । [१३] जनवरीमासस्य प्रथमदिनाङ्कः 'कल्पतरुदिन'त्वेन आचर्यते ।[१४] धर्मनिरपेक्षभावः, अन्यधर्मविषये गौरवञ्च अस्याः संस्थायाः वैशिष्ट्यम् । स्वामिना विवेकानन्देन प्रस्तावितेषु आदिमनियमेषु अन्यतमः विद्यते - सर्वैः धर्मैः, सर्वैः धर्मोपदेशकैः, विविधधर्मानुयायिभिः च गौरवेण व्यवहरणीयम् । विवेधेषु धर्मेषु पूज्यमानाः सर्वे देवाः अपि आदरणीयाः इति । "[१५] हिन्दुपर्वाचरणेन सह अत्र बुद्धपूर्णिमा, क्रिस्मस्दिनस्य अपि आचरणं क्रियते । .[१३][१५][१६]
टिप्पणी
सम्पादयतु- ↑ Agarwal, Satya P. (1998). The social role of the Gītā : how and why. New Delhi: Motilal Banarsidass. p. 243. ISBN 978-81-208-1524-7. OCLC 68037824.
- ↑ २.० २.१ Vrajaprana, Pravrajika (1994). Living wisdom: Vedanta in the West. Vedanta Press. pp. 34. ISBN 978-0-87481-055-4.
- ↑ Carl T. Jackson, Vedanta for the West p.16
- ↑ Sharma, Arvind (1988). Neo-Hindu views of Christianity. Brill Publishers. p. 69. ISBN 978-90-04-08791-0.
- ↑ Carl T. Jackson. "Preface". Vedanta for West. pp. xii–xiii.
- ↑ The Story of Ramakrishna Mission,
- ↑ "History of Belur Math". SriRamakrishna.org. Archived from the original on 2008-09-13. आह्रियत 2014-07-28.
- ↑ Vivekananda, Swami. "Conversations And Dialogues ~ XVI". The Complete Works of Swami Vivekananda 7. Advaita Ashrama.
- ↑ Stone, J.L.; Ullal, H.S.; Chaurey, A.; Bhatia, P. (2000). "Ramakrishna Mission initiative impact study-a rural electrification project in West Bengal, India". Photovoltaic Specialists Conference, 2000. Conference Record of the Twenty-Eighth IEEE (Anchorage, AK, USA: IEEE). pp. 1571–1574. ISBN 0-7803-5772-8. doi:10.1109/PVSC.2000.916197.
- ↑ Contributions to Indian sociology (Mouton) 16: 127. 1982. ISSN 0069-9659.
- ↑ Klostermaier, Klaus K. (2000). Hinduism: a short history. Oneworld. p. 271.
- ↑ Oxtoby, Willard Gurdon (1996). World religions: Eastern traditions. Oxford University Press. p. 77.
- ↑ १३.० १३.१ १३.२ Prozesky, Martin; John De Gruchy (1995). "Hinduism". Living faiths in South Africa. C. Hurst & Co. Publishers. pp. 195–196. ISBN 978-1-85065-244-1.
- ↑ Balakrishnan, S (31 December 2001). "The spiritual significance". The Hindu. Archived from the original on 28 October 2003. आह्रियत 1 October 2009.
- ↑ १५.० १५.१ Jung, Moses; Herbert W. Schnieder. "Hinduism". Relations among Religions today. Brill Publishers. pp. 69–70.
- ↑ Ananda (2 April 2009). "Service in the name of god in every human". The Telegraph. आह्रियत 25 August 2009.
बाह्यसम्पर्कः
सम्पादयतुविकिमीडियाकोषे रामकृष्ण मिशन् अनेन सम्बद्धमाध्यमाः सन्ति। |