राशिविज्ञानम्
[[Category:]]
स्वकीये ब्रह्माण्डे एकं भचक्रं विद्यते । तस्य चक्रस्य भागाः ३६० अंशपरिमिताः सन्ति । तस्मिन्नेव भचक्रे द्वादशराशयः सन्ति । अतः प्रति त्रिंशदंशविशेषः एकः राशिर्भवति । यथा –
ज्योतिषाधारेणा भचक्रं कालपुरुषात्मकमस्ति । तस्यैवाङ्गस्वरूपेणा द्वादशराशयः सन्ति । ते यथा –
- मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः ।
- तुलालिधनुषो नक्रकुम्भमीनास्ततः परम् ॥
अर्थात्- मेषः, वृषः, मिथुनः, कर्कः, सिंहः, कन्या, तुला, वृश्चिकः, धनुः, मकरः, कुम्भः, मीनश्चैते द्वादशराशयो भवन्ति । राशेः पर्यायवाचिशब्दरूपेण क्षेत्रं, गृहं, ऋक्षं, भं भावश्चादयः व्यवह्रियन्ते । नक्षत्रसमूहैः राशयः भवन्ति । ३६० डिग्रिमानैः युक्तं कान्तिचक्रं द्वादशधा विभक्तं वर्तते । अस्य कारणीभूतः अस्ति चन्द्रः । कस्मिंश्चित् पूर्णिमादिने चन्द्रः यस्मिन् नक्षत्रे भवति तत्रैव पुनः आगमनाय १२ मासाः अपेक्षिताः भवन्ति । सूर्यस्य विषये प्रत्यक्षप्रामाणस्य प्राप्तिः असाध्या । यतः सूर्यस्य प्रकाशे अन्यानि नक्षत्राणि न दृश्येरन् एव । अतः सूर्योदयात् प्राक् आकाशे दृश्यमानानि नक्षत्राणि, सूर्यास्तमस्य अनन्तरं पश्चिमदिशि दृश्यमानानि नक्षत्राणि वा परिगणय्य यदि गणयामः तर्हि समाननक्षत्राणां दर्शनं १२ मासानाम् अनन्तरम् एव भविष्यति । अतः राशयः द्वादशधा विभक्ताः सन्ति । ३६० डिग्रिमानैः युक्तं ज्योतिर्वृत्तं द्वादशधा यदि विभज्येत तर्हि एकैकः भागः ३० डिग्रिमानयुक्तः भवति ।
द्वादशराशयः
सम्पादयतुक्रमसंख्या | राशिः | परिधिः |
---|---|---|
१ | मेषः | ०-३०डिग्रिमानयुक्तः |
२ | वृषभः | ३०-६०डिग्रिमानयुक्तः |
३ | मिथुनः | ६०-९०डिग्रिमानयुक्तः |
४ | कर्काटकः | ९०-१२०डिग्रिमानयुक्तः |
५ | सिंहः | १२०-१५०डिग्रिमानयुक्तः |
६ | कन्या | १५०-१८०डिग्रिमानयुक्तः |
७ | तुला | १८०-२१०डिग्रिमानयुक्तः |
८ | वृश्चिकः | २१०-२४०डिग्रिमानयुक्तः |
९ | धनुः | २४०-२७०डिग्रिमानयुक्तः |
१० | मकरः | २७०-३००डिग्रिमानयुक्तः |
११ | कुम्भः | ३००-३३०डिग्रिमानयुक्तः |
१२ | मीनः | ३३०-३६०डिग्रिमानयुक्तः |
एकैकं नक्षत्रं १३.२० डिग्रिमानयुक्तं भवति ।
कालपुरुषस्य अङ्गानि
सम्पादयतुकालपुरुषस्याङ्गेषु मेषराशिः मस्तकं, वृषराशिः मुखं, मिथुनराशिः भुजद्वयं, कर्कराशिः हृदयप्रदेशः, सिंहराशिः उदरस्थानं, कन्याराशिः कटिस्थलम्, तुलाराशिः वस्तिः नाभिलिङ्गयोर्मध्यभागः, वृश्चिकराशिः गुह्याङ्गं लिङ्गादिगुप्ताङ्गानि, धनुराशिः उरुः, मकरराशिः जानुः कुम्भराशिः जंघद्वयं , मीनराशिः पादद्वयं च भवति । यथोक्तं –
कालाङ्गानि वराङ्गमाननमुरो हृत्क्रोडवासोभृतो,
वस्तिर्व्यजनमुरुजानुयुगले जङ्घे ततोऽङ्घ्रि द्वयम् ।
मेषाश्विप्रथमा नवर्क्षचरणाचक्रस्थिता राशयो,
राशिक्षेत्रगृहर्क्षभानि भवनं चैकार्थसम्प्रत्ययाः ॥ (बृ. जा. – १/४)
राशिस्वरूपम्
सम्पादयतुमेषादिराशीनां स्वरुपमधस्तात् प्रतिपाद्यते । यथा –
मत्स्यौ घटी नृमिथुनं सगदं सवीणं,
चापी नरोऽश्वजघनो मकरो मृगास्यः ।
तौलीससस्यदहना प्लवगा च कन्या,
शेषाः स्वनामसदृशाः खचराश्च सर्वे ॥
अर्थात् निम्नाकारयुक्ताः मेषादिराशयः भवन्ति । यथा- मत्स्यद्वयाकारः मीनराशिः , घटधारकपुरुषस्याकारः कुम्भराशिः, स्त्रीपुरुषयोः युगलचित्रं मिथुनराशिः अत्र पुरुषस्य हस्ते गदा तथा स्त्रियाः हस्ते वीणा वर्तते, धनुर्धारिपुरुषस्याकारः धनुरत्र पुरुषस्य कटिप्रदेशादधः भागः अश्वाकारः ऊर्ध्वभागश्च पुरुषाकारः मकरराशिः मकरसदृशः वर्तते , परन्तु तस्य मुखं हरिणसदृशं, तुलाराशेः स्वरूपं तुलाधारिपुरुषस्य वर्तते, कन्याराशेः स्वरूपं वालिकायाः वर्तते यस्या एकस्मिन् हस्तेऽग्निरन्यस्मिन् च अन्नं वर्तते तथा च सा नावोपरि उपविष्टा भवति, मेषराशेः मेष इव स्वरूपं, बृषराशेः वृष इव, कर्कस्य कर्क इव, सिंहस्य सिंह इव तथा च वृश्चिकस्य वृश्चिक इव स्वरूपं वर्तते ।
राशीनां नामान्तराणि
सम्पादयतुराशीनां नामान्तराण्यपि बृहज्जातके प्रतिपादितानि । यथा –
क्रियताबुरिजितुमकुलीरलेयपार्होनजूककौर्प्याख्याः ।
तौक्षिकाअकोकेरोहृद्रोगश्चान्यर्भचेत्थम् ॥ (बृ. जा. – १/८)
अर्थात् क्रियः मेषस्य, ताबुरिः बृषस्य, जितुमः मिथुनस्य,कुलीराः कर्कस्य, लेयः सिंहस्य, पाथोनः कन्यायाः , जूकः तुलायाः कौर्पिः वृश्चिकस्य तौक्षिकः धनोः आकोकेरः मकरस्य, हृद्रोगः कुम्भस्य , अन्त्यभञ्च मीनस्य नामान्तरं वर्तते ।
राशिषु नक्षत्राणां विभजनम्
सम्पादयतुएकस्यां राशौ पादप्रमाणोत्तरं नक्षत्रद्वयम् भवति । (१३.२० + १३.२० + ३.२० = ३० डिग्रिपरिमितम्) । एतेन नक्षत्रविभजनेन एव प्रतिविषयं राशिदृष्ट्या विश्लेषणं कर्तुं शक्यते । मुहूर्त-गोचरादीनां निर्णये अयं विषयः अनिवार्यः भवति ।
राशिः | नक्षत्रविभजनम् | |
---|---|---|
१ | मेषः | अश्विनी (४) भरणी (४) कृत्तिका (१) |
२ | वृषभः | कृत्तिका (२,३,४) रोहिणी (४) मृगशिरा् (१,२) |
३ | मिथुनः | मृगशिरा (३,४) आर्द्रा (४) पुनर्वसु (१,२,३) |
४ | कर्काटकः | पुनर्वसु (४) पुष्य (४) आश्लेषा (४) |
५ | सिंहः | मखा (४) पूर्वा फाल्गुनी(४) उत्तरा फाल्गुनी (१) |
६ | कन्या | उत्तर (२,३,४) हस्त (४) चित्त (१,२) |
७ | तुला | चित्त (३,४) स्वाति (४) विशाखा (१,२,३) |
८ | वृश्चिकः | विशाखा (४) अनूराधा (४) ज्येष्ठा (४) |
९ | धनुः | मूल (४) पूर्वाषाढा (४) उत्तराषाढा (१) |
१० | मकरः | उत्तराषाढा (२,३,४) श्रवण (४) धनिष्ठा (१,२) |
११ | कुम्भः | धनिष्ठा (३,४) शतभिष (४) पूर्वाभाद्र (१,२,३) |
१२ | मीनः | पूर्वाभाद्र (४) उत्तराभाद्र (४) रेवती (४) |
राशिविभागः
सम्पादयतुस्वभावानुसारं राशयः त्रिधा विभक्ताः - चर, स्थिर, द्विस्वभावयुक्ताः - इति ।
क्रमसंख्या | राशिः | स्वभावः |
---|---|---|
१ | मेषः | चरः |
२ | वृषभः | स्थिरः |
३ | मिथुनः | द्विस्वभावः |
४ | कर्काटकः | चरः |
५ | सिंहः | स्थिरः |
६ | कन्या | द्विस्वभावः |
७ | तुला | चरः |
८ | वृश्चिकः | स्थिरः |
९ | धनुः | द्विस्वभावः |
१० | मकरः | चरः |
११ | कुम्भः | स्थिरः |
१२ | मीनः | द्विस्वभावः |
चरराशीनां स्वभावः
सम्पादयतुएषु राशिषु ये जाताः ते क्रियाशीलाः, चञ्चलाः, परिवर्तनापेक्षिणः, लक्ष्यबद्धाः, उत्साहिनः, पर्यटनोत्सुकाश्च भवन्ति ।
स्थिरराशीनां स्वभावः
सम्पादयतुएते स्थिराभिप्रायवन्तः, सुखजीवनाभिलाषिणः, एकाग्रता-निग्रह-सहना-हठ-आत्मविश्वासयुक्ताश्च भवन्ति ।
द्विस्वभावराशीनां स्वभावः
सम्पादयतुद्विधा अपि चिन्तनं, द्वन्द्वस्वभावः, अभिप्रायपरिवर्तनं, बोधनाशक्तिः, उपदेशः, विभिन्नाशयाः, बुद्धिमत्ता च भवति ।
तत्त्वाधारेण विभागः
सम्पादयतुअग्नितत्त्वम् | भूतत्त्वम् | वायुतत्त्वम् | जलतत्त्वम् |
---|---|---|---|
मेषः | वृषभः | मिथुनः | कर्काटकः |
सिंहः | कन्या | तुला | वृश्चिकः |
धनुः | मकरः | कुम्भः | मीनः |