अयम् अपि भारते वर्धमानः उपयुज्यमानः च सस्यजन्यः आहारपदार्थः । एतत् लकुचम् आङ्ग्लभाषायां Monkey Jack इति वदन्ति । अस्य लकुचस्य वैज्ञानिकं नाम अस्ति Artocarpus lakoocha इति । लकुचम् आम्लरुचियुक्तम् इति कारणतः प्रतिदिनम् अपि भोजने अस्य उपयोगः भवति एव । कुत्रचित् लकुचस्य फलस्य अपि उपयोगं कुर्वन्ति । अन्यथा आवर्षम् उपयोगार्थं चूर्णीकृत्य रक्षन्ति । सारस्य, क्वथितस्य, व्यञ्जनस्य, उपसेचनस्य वा निर्माणे लकुचस्य उपयोगः क्रियते । कुत्रचित् तिन्त्रिण्याः स्थाने लकुचस्य चूर्णस्य एव उपयोगः क्रियते प्रतिदिनं पाके ।

लकुचसस्यस्य शाखा, फलं चापि

आयुर्वेदस्य अनुसारम् अस्य लकुचस्य स्वभावः

सम्पादयतु

एतत् लकुचं गुरु, रूक्षम्, उष्णं च । अस्य रुचिः आम्ल–मधुर–कषायमिश्रिता ।

“आमं लकुचमुष्णं च गुरु विष्टम्भकृत् तथा ।
मधुरं च तथाम्लं च दोषत्रितयरक्तकृत् ॥
शुक्राग्निनाशनं वापि नेत्रयोरहितं स्मृतम् ।
सुपक्वं तत्तु मधुराम्लं चानिलपित्तहृत् ॥
कफवह्निकरं रुच्यम् अवृष्यं विष्टम्भकं च तत् ॥“ (भावप्रकाशः)
१. लकुचम् एतत् मलम् अवरुणद्धि ।
२. लकुचं शुक्रं (वीर्यं) न्यूनीकरोति ।
३. लकुचं जीर्णशक्तिं नाशयति ।
४. लकुचं नेत्रयोः अहितम् ।
५. सुपक्वं फलं यद्यपि अत्यन्तं रुचिकरं तथापि रक्तदूषणं करोति ।
६. लकुचं गुरु, रूक्षम्, उष्णं च इति कारणात् अधिकप्रमाणेन सेवनं न हिताय ।
७. लकुचम् आम्ल–मधुर–कषायमिश्रितं रुचियुक्तम् इति कारणात् त्रिदोषप्रकोपं (कफः, वातः, पित्तं च) करोति ।
"https://sa.wikipedia.org/w/index.php?title=लकुचम्&oldid=345414" इत्यस्माद् प्रतिप्राप्तम्