लक्ष्यसाधनक्रीडा(Archery) प्रसिद्धक्रीडासु अन्यतमा ।

कश्चन निश्चित लक्ष्यं निर्धार्य धनोः साहाय्येन बाणचानकला एव लक्ष्यसाधनं भवति । युद्धविधेः अनुसारेण लक्ष्यसाधनं बहु प्राचीनम् इति मन्यते । लक्ष्यसाधनस्य आरम्भविषये सम्यक्तया कोपि न जानति । भारतीय वेदशास्त्र-स्मृति-पुराणादि अनुसारं भारते अपि बहु पुराकालात् आरब्धं वर्तते । युरोप्-आदि पूर्वीयदेशेषु अपि लक्ष्यसाधनं बहु पुराकालात् आसीदिति श्रूयते । एषा न केवलं युद्धसम्बद्धी अपि तु क्रीडा, कुशलता, अभ्यासः च वर्तते ।

इतिहासः

सम्पादयतु

लक्ष्यसाधनं भारते बहु पुराकालादारभ्य वर्तते । वेदे लक्ष्यसाधनविषये बहुधा श्रूयते । संहिता, ब्राह्मणादिषु च वज्रस्य हस्ते धनुर्बाणस्य उल्लेखः लभ्यते । धनुर्धरस्य यात्रा सर्वदा आपत्ति रहुतः सकुशलशरीत्या च भवति इति कौशीतकि ब्राह्मणे वर्तते । भीष्मः षट्-हस्त लम्बायमानबाणः प्रयुक्तवान् आसीत् । रघुवंशमहाकाव्ये रामलक्ष्मणयोः धनुषः विषये वर्णितं वर्तते । अभिज्ञाशाकुन्तले दुश्यन्तस्य धनुर्विद्यायाः कौशलं वर्णितं वर्तते । महाभारते अर्जुनः धनुर्विद्यायां कुशलतमः इति तु स्पष्टमेव ।

धनुषः प्रकाराः

सम्पादयतु
  • सेल्फ् बौ
  • लामिनेटेड् बौ
  • काम्पोसिट् बौ
  • बौ शे
  • लाङ्ग् बौ
  • फ्लाट् बौ
  • वाबनकि बौ
  • क्रोस्-बौ

चित्रवीथिका

सम्पादयतु

अभिनवक्रीडातरंगिणी

"https://sa.wikipedia.org/w/index.php?title=लक्ष्यसाधनक्रीडा&oldid=424984" इत्यस्माद् प्रतिप्राप्तम्