लज्जालुसस्यम्
इदं लज्जालुसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारते सर्वत्र वर्धते । इदं लज्जालुसस्यं भूमौ प्रसारितम् इव वर्धते । सामान्यतया २ – ३ पादमितं दीर्घं भवति । अस्य पर्णानि मनुष्याणां स्पर्शेन पुटीकृतानि भवन्ति । इदं कण्टकयुक्तं सस्यम् अस्ति । अस्य पुष्पाणि श्वेतमिश्रितपाटलवर्णीयानि भवन्ति । जलांशः यत्र प्राप्यते तत्र सर्वत्र वर्धते इदं सस्यम् ।
लज्जालुसस्यम् | ||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
(Mimosa pudica)
Flower-head | ||||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||||
| ||||||||||||||||||
द्विपदनाम | ||||||||||||||||||
Mimosa pudica L. | ||||||||||||||||||
इतरभाषाभिः अस्य लज्जालुसस्यस्य नामानि
सम्पादयतुइदं लज्जालुसस्यम् आङ्ग्लभाषया Mimosa Pudica इति उच्यते । हिन्दीभाषया “लज्जालू” इति, तेलुगुभाषया “मुनुगुड मरमु” इति, तमिळभाभाषया “तोट्टलवाहि” इति, मलयाळभाषया “तोट्टमाम्” इति, मराठीभाषया “लाजरी” इति, कन्नडभाषया “मुट्टिदरे मुनि” अथवा “नाचिके मुळ्ळु” इति उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य लज्जालुसस्यस्य प्रयोजनानि
सम्पादयतुअस्य लज्जालुसस्यस्य रसः तिक्तः कषायः च । इदं सस्यं शीतवीर्ययुक्तम्, लघु च ।
- १. इदं कफं शमयति ।
- २. इदं सस्यं नासिकातः रक्तस्रावे, अतिसारे, योनिरोगेषु च अधिकतया उपयुज्यते ।
- ३. मूत्राशये पाषाणाः जाताः सन्ति चेत् तेषाम् अपसारणार्थम् अपि अस्य उपयोगः क्रियते ।
- ४. शुनककासे (कन्नडभाषया “नायिकेम्मु” इति) अस्य मूलं मधुना सह सेवनीयम् ।
- ५. मूलव्याधौ, अण्डवृद्धौ च इदं सम्पेष्य लेपनीयम् ।
- ६. स्त्रीणां मासिकस्रावः अधिकः जातः चेत्, योनितः रक्तस्रावः जायते चेत् अस्य पर्णानां कषायः सेवनीयः । तेन कषायेन योनिप्रक्षालनम् अपि करणीयम् ।
- ७. मूलव्याधौ रक्तस्रावः जायते चेत् अस्य् स्वरसः सेवनीयः ।