लालबाग-उद्यानस्य पेनिन्सुलार् नैस् शिला
नैस् शिला: दक्षिणभारतस्य बहुभागान् आक्रान्तवत्यः सन्ति । एताः भूमे: विकासस्य आरम्भिकस्तरे रूपिता: शिला: । एतस्मिन् प्रदेशे ग्रानैट्, सिष्ट् शिलावलयः उपरितनभागे, नैस् शिलावलयः अधोभागे च अस्ति । एतेन क्रमेण दक्षिणस्य प्रस्तभूमिः रूपिता अस्ति । एता: नैस् शिला: भारतस्य पर्यायद्वीपस्य अवशिष्टानां शिलानां मूलाधाररूपेण सन्ति ।
राबर्ट् ब्रूस्फुट् नामकः भूविज्ञानी नैस् शिलाया: विषये प्रथमवारम् इतिवृत्तं लिखितवान् । स: ताः शिलाः “मूलभूत नैस्” इति आहूतवान् । १९१६ तमे वर्षे स्मित् नामकः भूविज्ञानी ता: शिला: “पेनिन्सुलार् नैस्” इति आहूतवान् । एतासां विषये रामराव्, पिच्चुमुत्तु, राधाकृष्ण: इत्यादय: भारतीया: भूविज्ञानिन: व्यापकतया अध्ययनं कृतवन्त: सन्ति ।
अस्माकं देशे अनेका: प्रसिद्धा: वाटिका: सन्ति । उदाहरणार्थं देहल्या: राष्ट्रपते: भवनस्य पुरतः विद्यामानं ‘मोगल् गार्डन्स्’ । तथैव कर्णाटकस्य बेङ्गलूरुनगरस्थं ‘लालबाग्’ देशे प्रख्यातासु सुन्दरीषु वाटिकासु अन्यतमा । एतां ‘केम्पुतोट’ इत्यपि आह्वयन्ति । ‘हे यात्रिक ! नमस्कुर्वन् अन्त: आगच्छतु ! एषा ‘पुष्पकाशी’ इति कुवेम्पु वाटिकाया: प्रशंसां कृतवान् अस्ति ।
एषा वाटिका प्रवासिनां यथा आह्लादं जनयति तथैव सस्यविज्ञानिनां प्रयोगालय: अपि अस्ति । भूविज्ञानिनाम् अध्ययनस्य क्षेत्रमस्ति । यत: कर्णाटकस्य भूविज्ञानस्य प्राथमिकं ज्ञानं प्राप्तुम् एतासां शिलानाम् अध्ययनम् आवश्यकम् अस्ति ।
बेङ्गळूरूनगरस्य निर्मापक: मागडि केम्पेगौड: नगरस्य अभिवृद्धिं सूचयितुं चतुर्षु स्थानेषु शिखराणां निर्माणं कृतवान् । तेषु एकं शिखरं लालबाग् वाटिकाया: कस्यचित् शिलाशैलस्य उपरि अस्ति । सा शिला बयोटैट् अभ्रक, हार्न्ब्लेण्ड् खनिजै: निर्मिता ग्रानैट् नैस् शिला अस्ति ।
यदा एषा शिला रूपिता तदा पश्चिमघट्टस्य वा, विन्ध्यपर्वतस्य वा, हिमालयपर्वतस्य वा इतोऽपि सृष्टि: एव न जाता आसीत् । आदिमजीविनां चिह्नानि अपि न आसन् ।
विकिरणपटुखनिजानाम् अध्ययनेन एतासां शिलानां वय: सामान्यत: २५० कोट्यधिकानि वर्षाणि इति निर्धारितमस्ति ।
कर्णाटकवन्यसंस्थाया: सहयोगेन भारतीय भूविज्ञानसर्वेक्षणसंस्था लालबागस्य पेनिन्सुलार् नैसं शिलाः राष्ट्रियभूवैज्ञानिकस्मारकम् इति घोषयित्वा तस्य संरक्षणार्थं क्रमं स्वीकृतवती अस्ति ।
अत्रत्यशिखरं केम्पेगौडस्य शासनस्य साक्षिभूतम् अस्ति चेत् एता: शिला: भूमे: विकासस्य इतिहासस्य आरम्भिकघटनानां साक्षिरूपेण सन्ति ।