लावा
एषा भारतीयकालगणनस्य कश्चित् बिन्दुः अस्ति । इयं कालमापनस्य अतिलघुश्रेण्याम् अस्ति ।
- एकः तृसरेणुः = ६ ब्रह्माण्डीयाः अणवः ।
- एका त्रुटिः = ३ तृसरेणु, सैकिण्ड् मापने १/१६८७.५ भागः।
- एकः वेधः = १०० त्रुटयः ।
- एका लावा = ३ वेधाः ।
- एकः निमेषः = ३ लावाः, नेत्रस्पन्दनम् ।
- एकं क्षणम् = ३ निमेषाः ।
- एका काष्ठा = ६ क्षणानि, = ८ सैकिण्ड्स् ।
- एकं लघु =१५ काष्ठाः, = २ मिनट्स् ।
- एका नाडी/दण्डाः = १५ लघूनि ।
- एकः मुहूर्तः= २ दण्डौ ।
- एकः यामः / प्रहरः = ६ अथवा ७ मुहूर्ताः । दिनस्य रात्रेः वा पादभागः ।
- एकं दिनं वा एका रात्रिः = ४ यामः/ प्रहरः ।