वंशानुक्रमस्य वातावरणस्य च मनसि प्रभावः

वंशानुक्रमस्य, वातावरणस्य च मनसि प्रभावः कश्चन प्रभावः भवति। 'वंशानुक्रम' इति शब्दस्य कोऽर्थः? 'वंशानुक्रम' इति शब्देन वयं पैतृकगुण सङ्क्रमणतारतम्यमिति जानीमः। ‘पैतृक' इति शब्देन् पितामहादीनां गुणसङ्क्रमणमपि सम्भाव्यते। ननु किं नाम वातावरणमिति शब्द:? नहि वातावरणेन वायोरावरणं द्योत्यते यत् शतकद्वयक्रोशपर्यन्तं प्रायेण पृथिवीमावृणोति। वातावरणेन हि खलु निखिला सामाजिकावस्था द्योत्यते, यस्यां कोऽपि मानवो जन्मन आरभ्य शारीरिकमानसिकनैतिकाध्यात्मिकविकासमवाप्नोति, यस्यां च परिवारपाठशालामित्रमण्डली राजनैतिकार्थिकौद्योगिकसांस्कृतिकधार्मिकादिसर्वेषामेव संस्थासङ्घटनसमाजादीनां समावेश: क्रियते। अत्रास्माकमियं महती विचारणीया समस्या- 'किं बालकस्य मानवस्य वा विकासे वंशानुक्रमस्य पैतृकगुणसङ्क्रमणस्य गुरुतरः प्रभावो भवति, किंस्विद् वातावरणस्य सामाजिकसंस्थाजन्यशिक्षाया वा? अयं प्रश्न: शिक्षामनोविज्ञानदृष्ट्याऽतीव महत्त्वपूर्ण उपयोगी चास्ति। यदि पैतृकगुणा एव सर्वोपरि शिशो विविकासं निर्णयन्ति, तीलमनेन महता शिक्षकायासेन ! यदि चापरथा वातावरणमेव परिवारपाठशालाराजनैतिकदलादिजन्य शिक्षणमेव वस्तुतो बालकभाविविकासदिनिर्णायकं तर्हि कथं केषाञ्चिद्विद्यार्थिनां शिक्षकप्रयत्नानुकूला प्रगति ऽवलोक्यते? वातावरणवैयर्थ्यप्रदर्शनाय भवभूतिमहाकवेर्वचनं सुप्रथितमेव सर्वेषां विदुषाम्। तथा हि -

वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे

न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा।

भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा

प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः।।

तेषामिदं तात्पर्यम् - गुरुः सर्वान् शिष्यान् समानरूपेण कक्षायां पाठयति। तस्यां कक्षायां मन्दबुद्धयस्तीब्रबुद्धयश्च सर्व एव छात्राः सन्ति। नहि गुरुः प्रकृष्टबुद्धिषु कञ्चित् शक्तिविशेषमादधाति, न चापि मन्दबुद्धीनां कञ्चित् शक्तिविशेषमपहन्त्येव, परन्तु तथापि तेषां पाठबोधमात्रायामतीव भेदो दृश्यते। किन्तर्हि तस्य भेदस्य कारणम्? नहि खलु गुरुः, नापि शिक्षणविधिः, नापि पाठशाला, नाऽपि भोजनाऽच्छादनान्येव। एते तु सर्वेषामेवान्तेवासिनां समाना एव। अतोऽस्ति किञ्चित्तेषां स्वभावगतकारणं पैतृकगुणादिजन्यं जन्मत एव प्राप्तम्। तद्गुणस्तु तेषामन्त:कणमादर्श इव प्रतीयमानं मन्दबुद्धिषु मलिनीकरोति, प्रत्युत्पन्नमतिषु च स्वच्छं करोति। यथा स्वच्छ आदर्श बिम्बग्राहिका शक्तिः सम्यक्तया वर्तते, परन्तु मलिनपदार्थेषु मृत्तिकाभाजनेषु नैव सा बिम्बग्राहिका शक्तिरुपलभ्यते, एवमेव सर्वोपकरणेषु गुरुपाठशालाकक्षाशिक्षणादिषु समानभावेन विद्यमानेष्वपि मन्दबुद्धीनां मलिनान्त:करणत्वान्नास्त्येवंविधः पाठबोधः, यादृशः स्वच्छान्त:करणानां पिपठिषूणां प्रायेण दृश्यते। अत: सिद्धं भेदकारणं पैतृकगुणसङ्क्रमणजन्यं सांसिद्धिकमिति तेषामभिसन्धिः।

अपि च, विद्यते हि पुरातनकालान्मानवमात्रस्यायं दृढतरो विश्वासो यत्पुत्रो रूपपराक्रमबुद्धिस्वभावादिषु स्वपितरं मातरञ्चानुहरति। नायं विश्वासो भारतीया नामार्याणामेवापि तु यवनादिदेशेष्वपि लक्ष्यते। कियती मार्मिकी हि खलु भगवतो रामचन्द्रस्येयमुक्तिर्मानवसुलभमिमं विश्वासं कियत्तरञ्च स्फोरयति। तथा हि - भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि

कठोरपारावतकण्ठमेचकं वपुर्वृषस्कन्धसुबन्धुरांसयोः।

प्रसन्नसिंहस्तिमितं च वीक्षितं ध्वनिश्च माङ्गल्यमृदङ्गमांसलः।। [१]

(निपुणं निरूपयन्) अये, न केवलमस्मद्वंशसंवादिन्याकृति: -

अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति।

ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो रभिनवशतपत्रश्रीमदास्यं प्रियायाः।।

शुक्लाच्छदन्तच्छविसुन्दरेयं सैवौष्ठमुद्रा स च कर्णपाशः।

नेत्रे पुनर्यद्यपि रक्तनीले तथाऽपि सौभाग्यगुणः स एव ।।[२]

उपर्युक्तेषु श्लोकेषु महाकविभवभूतिना रघुवंशर्षभव्याजेनेदमभिव्यञ्जितं यद्धि शिशू रूपगुणादिषु न केवलं स्वपितरमेवानुकरोत्यपि तु मातरमपि। तदनुसारं राघवेण लवकुशयोः स्वकीयाकृतिगुणानां सीतागुणानाञ्च नितरां सादृश्यानुकारित्वं तत्र दृष्टम्। नास्त्यत्र किमप्याश्चर्यं यत् शिशुयुगलमुखे दृष्ट्वा सीताया मुखमपि स्मारं स्मारं स नन्दति स्म। अस्तु तयं पैतृकगुणसङ्क्रमणपक्षः किं वा वंशानुक्रमपक्षः। भगवताऽग्निवेशेनाऽपीदं मतमभिव्यञ्जितम्, यदा तैरभिहितम् -

रूपाद्धि रूपप्रभवः प्रसिद्धः कर्मात्मकानां मनसो मनस्तः।[३]

एवं सम्प्राप्ते वातावरणपक्षोऽपि विचारपदवीमुत्सहते। मार्कण्डेयपुराणवर्णितं मदालसाया: प्रातःस्मरणीयं वृत्तं यत्र हि तया स्वशिक्षाप्रभावेण षट् पुत्रा वैराग्यसम्पदारूढ़ा: कृताः, सप्तमश्च स्वपत्यादेशानुसारं राजधर्मे नियोजित:, शिक्षासरणिप्रभावस्याऽयमादर्शोऽ स्माकं हृदयं नितरामानन्दयति। तथा हि -

शुद्धोऽसि रे तात ! न तेऽस्ति नाम कृतं हि ते कल्पनयाऽधुनैव।

पञ्चात्मकं देहमिदं न तेऽस्ति नैवास्य त्वं रोदिषि कस्य हेतोः?[४]।।

महाभारतेऽपि सौभद्रस्य चक्रव्यूहशिक्षा गर्भवातावरणजन्यशिक्षाप्रभावस्य चरममुदाहरणम्। कथ्यते हि गुरुपादैरपि- “वक्तुरेव हि तज्जाड्यं श्रोता यत्र न बुध्यते'' इति। आङ्गलदेशीयदार्शनिकप्रवरेण लॉकमहोदयेनाऽनुभाववादसंस्थापकेनेदं मतं स्थापितं यत्-“जन्मकालेऽस्माकं मनः श्वेतपट्टिका भवति'' इति। श्वेतपट्टिकोपमितत्वेन तेषामभिप्राय: सर्वसंस्कारशून्यमित्यासीत्। तामेव सरणिमनुसृत्य वाट्सनमहोदयो डिण्डिमघोषपूर्वक मिदमुद्धोषितवान् यद्धि तत्किञ्चिदप्येकमानवादन्यमानवेऽन्तरं जायते तत्सर्वं वातावरण जन्यम्, सामाजिकपारिवारिकपरिस्थितिजन्यमिति यावत्। तथा हि- “समीचीनवातावरण शिक्षणाभ्यां कमपि साधारणतया स्वस्थं बालकं तस्य स्वकीयप्रवृत्तियोग्यताप्रतिभां तस्य च पितृपितामहादीनां जीवनव्यवसायं जाति चाऽविमृश्यैवाहं स्वेच्छानुसारं यथेष्टविषयविशेषज्ञं कर्तुं प्रभवामि, यथायुर्वेदज्ञप्राविवाककलाविद्व्यावसायिक प्रमुखेत्यादिरपि च याचकचौरादिः” इति।[५]

अत एव व्यवहारवादिनामिदमपरं किञ्चिदालङ्कारिकं वाक्यमपि सङ्गच्छते-“देहि मे मृत्पिण्डमहञ्च तं यथेष्टाकारं कर्तुं शक्नोमि'' इति।

एवं सम्प्राप्तयोर्द्वयोरेव पक्षयोः सतोर्मनोवैज्ञानिकैर्विचारणीयं वर्तते, को हि पक्षः खलु सम्यक्परीक्षणानन्तरमनवद्यः सिध्यतीति। यदि च कोऽपि पक्षविशेष: सर्वथा शुद्धः प्रशस्यो वाऽपवादरहितो वा न साधयितुं शक्यते, अथ च यदि द्वावेव पक्षावंशत: सत्यौ निर्णीतौ भवेताम्, तर्हि कस्याऽपि पक्षस्यांशिकसत्यसत्त्वानुग्राहकहेतु विमर्शपुरस्सरं तत्सत्यत्वस्येयत्ताऽपि निर्धारणीया। अतोऽस्माभिरिदं विवेचनं प्रारभ्यते, आशास्यते च यदनेन मानवस्वभावाध्ययनबद्धपरिकराणां मनोविज्ञानाऽध्येतृणां महद् बुद्धिवैशारा सेत्स्यतीति।

ननु किं नाम पैतृकगुणसङ्क्रमणम्? सम्पादयतु

वंशानुक्रमवादिनो मन्यन्ते यद्धि लोके स्वस्थबलिष्ठपितृपितामहानां पुत्रपौत्रा अपि स्वस्था बलिष्ठाश्च दरीदृश्यन्ते, विदुषाञ्च पुत्रपौत्रा बुद्ध्युत्कर्षवन्तः प्रतिभाशीलिनश्चेति। एतन्मतं विशदीकर्तुं श्रीफ्रांसिसगाल्टनमहोदयेनाङ्गलदेशीयस्वतन्त्रवैज्ञानिकेन १९२६ वैक्रमाब्दे ‘हैरेडिटेरी जीनियस' इति नामको ग्रन्थः प्रकाशं नीतः। अनेन वैज्ञानिकधुरन्धरेण मनोविज्ञानं वैज्ञानिकानुसन्धानपद्धतिरूपराजमार्गे प्रतिष्ठापितम्। वैज्ञानिकशैल्या वंशानुक्रमाध्ययनातिरिक्तं तैर्न केवलं शुद्धवंशोत्पत्तिविज्ञानमेव प्रवर्तितमपि तु पुरुषाणां पारस्परिकशारीरिकमानसिकभेदाध्ययनोपयोगीनि बहूनि परीक्षणान्यप्याविष्कृतानि। गाल्टन महोदय आङ्गलद्वीपसमूहवासिनां राजनीतिसैनिकप्रवरनौसैनिकविद्याविशारदप्रख्यात व्यवसायिनां ९७७ नामानि सङ्कलय्य तेषां पूर्वजानां इतिवृत्तसंशोधनपरायणोऽभवत्।

तस्य प्रधानतो विवेचनीयसमस्येयमासीदस्ति कोऽपि कार्यकारणसम्बन्ध: पैतृकगुणसङ्क्रमण सव्यपेक्ष: पितामहपितृपुत्रपौत्रप्रपौत्रादिष्वनुगत इति। तेषां हि खलु ५७४ प्रतिष्ठितसम्बन्धिन आसन्। तेष्वपि च ३६२ सम्बन्धिनस्तु सन्निकटतमा आसन्, २१२ सम्बन्धिभिः साकं किञ्चिद् दूरस्थ: सम्बन्ध आसीत्। तेषां वंशवृक्षाणां सम्यगनुसन्धानेन गाल्टनमहोदयो निर्णीतवान् यद्धि प्रतिभा बुद्धयुत्कर्षरूपा वस्तुत: पैतृकगुणसङ्क्रमणाधीना किं वा वंशपरम्परागतगुणानुसारिण्येव भवतीति। अपि च, तुलनात्मकविधिना तैर्वैज्ञानिक प्रवरैरन्येऽपि सहस्रेक पुरुषा आङ्गलदेशीयाः साधारणजनाः सङ्कलिताः। नहि ते पूर्वोक्तसरणिवत् ख्यातिलब्धा आसन्। तेषां वंशानां सम्बन्धिनां चाध्ययनेन तैर्निश्चितं यद्धि केवलं चत्वार एव ख्यातिलब्धाः प्रतिष्ठिताः सम्बन्धिनोऽवचितानां सहस्रपरिमितानां साधारणजनानामवाप्तुं शक्यन्ते। अनेनापि तस्य पूर्वोक्तं मतमेव दृढीकृतम्।

प्रतिभासम्बन्धिपैतृकगुणसङ्क्रमणानुसन्धाने गाल्टनमहोदयानां रुचि: कलात्मक वंशानुक्रमप्रभावाऽध्ययनेऽपि जागृता। फलतस्तैर्निर्णीतं यद्धि सङ्गीतचित्रादिकलाविदां पुरुषाणां त्रिंशत्परिवारेषु ६४% प्रतिशतं बालकाः कलात्मकरुचिसम्पन्ना आसन्, किन्तु सामान्यतः सङ्कलितेषु कलात्मकरुचिविशेषरहितेषु १५० परिवारेषु केवलं २१% प्रतिशतमेव बालकाः कलात्मकरुचिं प्रदर्शयन्ति। अत एव तैर्महाभागैरयं निष्कर्षः समालोडितो यद्धि वातावरणप्रभावापेक्षयाऽस्ति हि नूनं महत्तर: प्रभावो वंशानुक्रमस्य वंशपरम्परागतगुणसङ्क्रमणस्य वेति।

वीझमान-मतम् [६] सम्पादयतु

गाल्टनमहोदयमनुसृत्य वीझमानमहाशयेन ‘शुक्रकीटतारतम्यवाद:' स्थापितः। तेषां मतेन पैतृकग्णसङ्क्रमणप्रकारोऽपि व्याख्यातो भवति। गर्भाधानकाल एव पैतृकगुणसङ्क्रमणस्य वेलाऽस्ति। वंशानुक्रमवादिभिः स्वीक्रियते यद्धि मातापित्रो: शारीरिकमानसिकविशिष्टगुणानां सङ्क्रमणं शुक्रकीटरज:संयोगद्वारा सङ्घटते । शुक्रकीटरज:संयोगे कोषाणुकानि संवर्धन्ते। समागमवेलायामपि नह्येकमेव कोषाणुकं प्रविश्यत्यपि तु शतकोट्यधिकानि कोषाणुकानि प्रविशन्ति। साम्प्रतं, वीझमानमहोदयानुसारं नहि सर्वाणि कोषाणकानि प्रजननक्षमाणि। केवलं कोषाणुकानां विशिष्टप्रकारकाणामेवेदं प्रजननसामर्थ्य सम्भवति। प्रजननक्रियायां योग्यतमः कोषाणुकसमुदायो हि खलु वंशपरम्परायां तारतम्येनाविनश्वरः प्रविचलति, तमेव धारावाहिकरूपेण पिता पुत्राय प्रददाति, पुत्रोऽपि तमेव शुक्रकीटसमुदायमक्षुण्णमेव पौत्राय प्रदत्ते, एवमेव च पौत्र: प्रपौत्रादिभ्यः। एकमेव शुक्रकीटमेक एव शुक्रकीटसमुदायो वा अक्षुण्णमविनष्टो वा एकस्मिन् वंशे तारतम्येन प्रचलति। इदमेव तेषां तात्पर्यम्। अस्य मतस्य सादृश्यं स्मृतिवचनेष्वपि सँल्लक्ष्यते। ‘जाया' इति शब्दस्य व्याख्यानावसर एतत् स्मृतिवचनमुपलभ्यते। तथा हि -

पतिर्भार्यां सम्प्रविश्य गर्भो भूत्वेह जायते।

जायायास्तद्धि जायात्वं यदस्यां जायते पुनः।। इति।

अस्य पाठान्तरमेवमपि क्वचिदुपलभ्यते

पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम्।

सा जाया जाया भवति यदस्यां जायते पुनः।। इति।

अनेनेदं स्पष्टं जायते यद्धि पिता नहि वंशक्रमागतप्रजननक्षमशुक्रकीटस्य जनयिताऽपि तु संरक्षक एव। यथा हि धनमेकस्माद्धनागारादादायापरे धनकोशे निक्षिप्तं भवति सञ्चितं वा क्रियते, एवमेवास्ति वीर्यप्रदानम्। नहि पिता शुक्रकीटं वंशपरम्परागत मुत्पादयत्यपि तु निक्षेपमिव पूर्वजानां स्वपुत्रपौत्रेभ्यः समर्पयति। अन्यत्र श्रुत्याऽप्याम्नातं हि खल्विदं “आत्मा वै पुत्रनामासि'' इति। तद्यथा -

अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे।

आत्मा वै पुत्रनामासि त्वं जीव शरदः शतम् ।। इति।

नहि वीझमानमतं सर्वथा समीचीनमनुमोदितं वा सर्वांशत: प्राणिविज्ञान विशारदैः। नाप्यनेन वंशानुगतपैतृकगुणसङ्क्रमणमेव सर्वथा व्याख्यातुं शक्यते। वयमग्रे प्राणिविज्ञानायुर्वेदविज्ञानाभिमतगुणसङ्क्रमणनिरूपणावसरेऽस्य मतस्याऽपूर्णतां प्रदर्शयिष्यामः।

गोडार्डमतम् [७] सम्पादयतु

दुर्बलमस्तिष्कबालकानां वाइनलैण्डट्रेनिङ्गस्कूलनामकपाठशालासञ्चालकेन अमेरिकादेशीयश्रीगोडार्डमहोदयेन १९६९ वैक्रमाब्दे ‘कालिकाकफेमिली' इति नाम्नी पुस्तिकां प्रकाश्य पैतृकगुणसङ्क्रमणविकृतिरतीव महत्वपूर्णविधिना विवेचिता। स स्वकीयपाठशालायामेकमन्याश्च कतिपयान् बालकान् समानाभिजातपारिवारिकाभिधानयुक्तान् मानसिकविकारगतानपश्यत्। तेषां वंशवृक्षानुसन्धानान्तरं तान् सर्वानेकस्यैव मूलपुरुषस्या मेरिकीयक्रान्तियुद्धीयसैनिकस्य वंशजान् स निर्णीतवान्। नहि ‘मार्टिनकालिकाक' इति तस्या वास्तविकं नामापि तु व्याजनाम। ‘कालिकाक' इति शब्दस्य यवनानी भाषाभिमतोऽर्थस्तु ‘शुभाशुभ; इत्यस्ति। वंशजानाभितिहासगवेषणायां सत्यां गौडार्डमहोदयेनाऽयं निष्कर्षः प्राप्त:- मार्टिनस्य कयाचित् तरुण्या सहावैधसमागमेनावैधपुत्र: सञ्जातः। सा तरुणी दुर्बलमानसिकशक्तिरासीत्। अत एव तस्याः पुत्रोऽपि मन्दबुद्धि रेवासीत्। तस्य पुत्रस्य ४८० वंशजा: संजाताः, येषु.१४३ वंशजा दुर्बलमानसिकशक्तय आसन्, केवलं ४६ वंशजा: सामान्यमानसिकशक्तिसम्पन्ना बभूवुः। अवशिष्टाश्च सन्दिग्धबुद्धय आसन्। अनया तरुण्या प्रवर्तिते वंशे २४ मद्यपा घोरतमाः, ३ पक्षाघातग्रस्ताः, ३ अपराधिन:, ३५ पण्यस्त्रीबहुलानैतिकयौनसम्बन्धयुक्ताः, ८ वेश्यागृहसञ्चालकाश्वासन्।

युद्धावसाने मार्टिनमहोदय: सामान्यबुद्धिमती क्वेकरेतिसम्भ्रान्तवंशोत्पन्नां महिला परिणीतवान्। अयं हि खलु विधिवद् वैवाहिकः सम्बन्ध आसीत्। पूर्वोक्तवंशावलि विपरीतमेवास्याः ४९६ वंशजेषु केवलं त्रीन् विहाय सर्व एव बौद्धिकनैतिकदृष्ट्या स्वस्था आसन्। अस्यां वंशावल्यां सम्भ्रान्ता: सुशीला: प्रसिद्धाश्च नागरिका बभूवुः । यथा हि भिषग्वराः, प्राड्विवाकाः, विचारपतयः, व्यावसायिका इति। ‘न्यूजरसी' नामक प्रदेशस्यानेकनगराणां नामकरणमपि एतद्वंशजसम्बन्धिनामान्यनुकृत्यैव सम्पन्नं समादरप्रदर्शनाय। अस्मिन् वंशे गौडार्डमहोदयः साक्षीकरोति-कोऽपि व्यभिचारी, मद्यपोऽपराधी वा नाऽभूदिति। अनेन गौडार्डमहोदयोऽतिरमणीयमिमं निष्कर्षमालोडितवान् यद्धि दुष्टशोणितसंसर्गजा एव पूर्वोक्तकालिकाकवंशावल्यां बुद्धिमान्द्यनैतिकपतनादिविकारा आसन्निति। वंशानुक्रमप्रभावाकलानार्थममेरिकादेशीयडुग्डैल-इस्टबुकमहाशयाभ्यां ज्यूक वंशेऽपरो निरीक्षणात्मकप्रयोग आश्रितः । ज्यूकवंशेऽधमाखेटिमैनाकमूलपुरुषजे सर्वेषामेव पुरुषाणां प्रायोऽधमजात्युत्पन्नस्त्रीभिः सह विवाहा: सञ्जाताः। तस्य वंशस्याऽध्ययनेनेदं विवृतं यद्धि २८२० संख्याकपुरुषेषु ३६६ भिक्षुका जाताः, १७१ कठोरापराधात् कारावासभोगिनोऽभवन्, १० च पुरुषाः पुरुषहत्याऽपराधिन आसन्। तेष्वन्ये ४५८ पाठशालाभ्यो द्विवर्षं तदधिकं वा कालं यावद् बहिष्कृताः, २७७ चरित्रहीनाः, २८५ उन्मादग्रस्ताः सञ्जाताः। १६६ पुरुषैः पाठशालीया शिक्षा नैवाऽवाप्ता। तेषु केवलं ३५० संख्याका: पुरुषा एव सामान्यत: शिष्टाश्चरित्रवन्तश्चासन्। अतस्ताभ्यां निर्णीतमिदं तथ्यमस्ति यद् वंशपारम्पर्यस्य खलु भूयिष्ठः प्रभाव इति।

मैण्डेलमतम् सम्पादयतु

वयमधुना मैण्डेलमहोदयानां यूरोपमध्यस्थजैकोस्लोवाकियादेशीययतिवराणां मतं व्याख्यास्यामः, यतो ह्यनेन पैतृकगुणसङ्क्रमणे साम्यं वैषम्यञ्च द्वयमपि व्याख्यातुं शक्यते। मैण्डेलभिक्षुवरेण मटरवपनप्रयोगाः स्वकीयभिक्षुविहारोद्याने सम्पादिताः। तदनन्तरं तेनैको लेख एकस्यां पत्रिकायां १९२२ वैक्रमाब्दे प्रकाशितः। नहि तदा तेन लेखेन विदुषां ध्यानं समाकृष्टम्। १९५७ वैक्रमाब्दे प्राणिविज्ञानविशारदस्त्रिभिः स्वतन्त्रानु सन्धानपरायणे मैण्डेलमहोदयस्य तस्मिँल्लेखेऽभूतपूर्वप्रयोगसंवलितसामग्री प्रति निखिलविश्वस्य मनोवैज्ञानिकानां प्राणिविज्ञानविशारदानाञ्च दृष्टिः समाकृष्टा। विशेषत उल्लेखनीयमत्राऽमेरिकादेशीयमार्गन-पर्लमहोदयोः कार्यमस्ति, ययोः प्रेरणा मैण्डेलमताध्ययनेनैव स्फुरिता। नहि वयं तावत्तयोर्मतमुपस्थापयितुं प्रभवामो यावद्वयं मैण्डेलप्रयोगं न विस्तरशो विचारयामः। मैण्डेलमतविवेचनापि कतिपयविकासवादनियमानां परिचयमपेक्षते। ते हि नियमा निम्नलिखिताः सन्ति

(अ) अविच्छिन्नकोषाणुकनियम:।

(आ) अर्जितगुणावितरणनियम:।

(इ) रूपान्तरनियमः।

(ई) प्रतिगमननियमः ।

वयं तावत्प्रथममेतान् नियमान् सक्षेपतो विचार्य मैण्डेलप्रयोगं व्याख्यास्यामः। तदनन्तरं प्राणिशास्त्रविदामाधुनिकमतानां प्राचां चायुर्वेदज्ञानां सुश्रुतचरकादीनां मताना मुपन्यासं करिष्याम:।

सन्दर्भाः सम्पादयतु

  1. उत्तररामचरितम् - 2/4, पृ. 54, नि.सा.प्रे.
  2. उत्तररामचरितम् - 6/26-27, पृष्ठम् - 154, नि.सा.प्रे.
  3. चरकसंहिता, शारीरस्थाने 3/36
  4. मार्कण्डेयपुराणम् - 25/11
  5. B. Watson, Behauiourism, Page 42 "A Normal child with proper environment and training can be made in to any type of specialist I might select-doctor, lawyer, artist, merehant-chief and yes even beggar man and thief, regardless of his talents, penchants, tendencies, abilities, vocations and race of his ancestors."
  6. Weissmane, "Continuity of the Germ Plasm Theory".
  7. Henry H. Goddard, Director of Vineland Training School for feeble minded. (1866).