वक्रोक्तिसम्प्रदायः

(वक्रोक्ति इत्यस्मात् पुनर्निर्दिष्टम्)

वक्रोक्तेः महनीयभावुनाया बीजरूपेण सूचनकरणस्य श्रेयोभागी आचार्यभामहः अस्ति । तमेव बीजमादाय पूर्णरूपेणाङ्कुरित-पल्लवितकरणस्य सम्मानमाचार्यकुन्तकस्यैव वर्तते । यद्यपि भामहग्रन्थपर्यालोचनयाऽलङ्काराणामेव भामहेन प्राधान्यं दत्तम् तथापि रसवक्रोक्तिरीतिसम्प्रदायानां बीजमपि प्रदर्शितं मिलति । अनेन महात्मना हि वक्रोक्तेर्व्यापकत्वं प्रदर्श्य काव्यार्थमावश्यकत्वमेतस्याः इति प्रदर्शितम् । तथाहि - “युक्तं स्वभावोक्त्या सर्वमेतदिष्यते।"[१] एनामेवाधारशिलामादाय कुन्तकेन ‘वक्रोक्तिजीवित-नामको ग्रन्थो विनिर्मितः । अयमेवातिशयोक्तिं च वक्रोक्तिनाम्ना व्यवहरति, ताञ्च सर्वालङ्काराणां जीवनाधायकत्वं व्यवस्थापितवान् । तथा च स्पष्ट मेवोक्तिः -

सैषा सर्वत्र वक्रोक्तिरनयाऽर्थों विभाव्यते ।

यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।।

भामहसम्मत्या वक्रार्थप्रतिपादकशब्दानां प्रयोगो हि काव्यऽलङ्कारमुत्पादयति। तथा हि -

"वाचां वक्रार्थशब्दोक्तिरलङ्काराय कल्पते"[२] हेतोरलङ्कारानङ्गीकारे वक्रोक्तिशून्यत्वमेव कारणं वर्त्तते। लोचनकारेणाऽपि भामहमुद्धृत्य स्पष्टमेवोक्तं लोचने - शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानम्। दण्डिना तु वक्रोक्तिस्वभावोक्तिरूपाभ्यां वाङ्मयस्य द्वैविध्यं प्रदर्शितम्। तथा हि -

श्लेषः सर्वासु पुष्णाति प्रायो वक्त्रोक्तिषु श्रियम्।

भिन्नं द्विधा समासोक्तिर्वक्रोक्तिश्चेति वाङ्मयम्।।[३]

दण्डिनः सूत्रमादाय एव वामनः अग्रे वृद्धिं प्राप्नोति इति केचति् वदन्ति। प्रायो भामहादर्वाचीनाः सर्वे अपि आलङ्कारिकाः वक्रोक्तिं समाद्रियन्ते।

वक्रोक्तिशब्दस्यार्थःसम्पाद्यताम्

वक्राः - सर्वसाधारणजनकथनभिन्ना अलौकिकचमत्कारयुक्ता उक्तिः कथनम्। कुन्तकशब्दे तु वक्रोक्तिः - "वैदग्ध्यभङ्गीभणतिः" साधारणजनो हि भावाभिव्यक्तये साधारणरूपेणैव शब्दप्रयोगं करोति, किन्तु, चमत्कारिकथनस्य प्रकार एव ‘वक्रोक्ति'नाम्नाभिहितो भवति । तथा चोक्तम् - ‘‘वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते” “वक्रोक्तिः प्रसिद्धाभिधानुव्यतिरे किणो विचित्रवाभिधा वैदग्ध्यं कविकौशलं तस्य भङ्गी विच्छित्तिः ।''[४] संक्षेपतया वक्रोक्तेरेकप्रकारेण सौन्दर्यमर्थः । कुन्तकाचार्येण हि गुणरीत्यलङ्काराणां सर्वेषामपि वक्रोक्तावेवान्तर्भावो दर्शितः । अनेन महानुशब्दार्थयोः शब्दशब्दयोः अर्थार्थयोः सामञ्जस्योपरि समधिकं बलं प्रकटितम्। सहितयोर्भाव एव साहित्यमित्यस्य समन्वयो दर्शितः ।

इत्थमेव शैल्या मार्गाः अपि त्रयः प्रदर्शिताः । अत्र प्रथमः सुकुमारो द्वितीयो विचित्रस्तथा तृतीयो मध्यममार्गो यो हि पूर्वोक्तयो मध्यवर्ती सुकुमारमार्गे – रसभावयोः प्राधान्य तिष्ठति । विचित्रमार्गे – उक्त्यलङ्कारयोर्मुख्यता तिष्ठति । तत्र सुकुमारमार्गे स्वल्पानि मनोहराणि च विभूषणानि भवन्ति । एवं तानि यत्नपूर्वकं नानीतानि भवन्ति । सहजमेतत्सौन्दर्यम् । अत्र माधुर्यगुणानां प्राधान्यं तिष्ठति यत्समासरहितपदद्वारा व्यञ्जितानि भवन्ति, समासाधिक्यकरण एव प्रसादगुणानां वाधा समापतति । एतन्मार्गस्य द्वितीयो गुणः प्रसादाख्यः, एतद्वारार्थावबोधोऽनायासेनैव सम्पन्नो भवति, तदर्थावगमेनैव रसा अप्यभिव्यञ्जिता भवन्ति । एतन्मार्गस्य चतुर्थों, गुणः आभिजात्यम्, अत्र शब्दानां सुकुमारस्य–शालीनत्वाभ्यां सह सम्यग् योजनास्याऽपि सौष्ठवं तिष्ठति ।

विचित्रमार्गे–अलङ्काराणां प्राधान्यं भवति । एकोऽलङ्कारो द्वितीयेन । गुम्फितस्तिष्ठति । सुकुमारशैल्यां स्वकीया नायिकावत् सहजमलकरणं भवति । विचित्रशैल्यां गणिकानायिकावत् कृत्रिमसज्जितशृंगाराणां तथाऽलङ्काराणां प्रदर्शनं प्राप्तं भवति । उपरोक्तद्वयोर्मध्ये द्वाभ्यामपि सादृश्यमनुभवन् मार्गों मध्यममार्ग इति व्यपदेश्यो भवति । त्रिविधशैलीनामुदाहरणेषु कालिदासस्य रचना सुकुमारमार्गे कथयितुं शक्यते । बाणभट्ट-भ्वभूति-राजशेखरादीनां रचना विचित्रमार्गे सजातेति भणितुं शक्यते । मातृगुप्तमायुराजाद्याचार्याणां रचना मध्यममार्गेऽस्तीति वक्तुं शक्यते ।

मतसमीक्षासम्पाद्यताम्

विभाजनमेतदधिकं सुन्दरं तु वरीवत किन्तु पूर्णमिदमिति प्रतिपादयितुं न शक्यते । विभागेनानेन द्विविध मनोवृत्तीनामभिव्यञ्जनं भवति । यद्यपि सुकुमारमार्गों वैदभ्यः समानतां विचित्रमार्गश्च गौड्या आनुकूल्यं धारयतस्तथापि नैतानि सादृश्यानि पूर्ण-पूर्णरूपाणि सन्ति । गौड्यामोजोगुणस्य मात्रा तिष्ठति तस्या विचित्रमार्गे आवश्यकता नास्ति ।

ध्वनिमतादप्ययं कुन्तकः पूर्णपरिचितः । स्वग्रन्थे ध्वन्यालोकपद्यानि अपि सञ्जग्राह, किन्तु ध्वनेः समस्तप्रपञ्चास्यान्तर्भावः वक्रोवतेः कल्पनाया उदात्तत्वम्, व्यापकत्वम्, बहुमुखीत्वञ्चाभिधाय तत्रैव कृतवान् । वक्रोक्तव्यपकत्वाय

( १ ) वर्णविन्यासवक्रता,

( २ ) पदपूर्वार्द्धवक्रता,

( ३ ) परार्द्धवक्रता,

(४) वाक्यवक्रता,

( ५ ) प्रकरणवक्रता,

( ६ ) प्रबन्धवक्रता-आसु मध्ये वाक्यवक्रतायां सर्वेषामेवालङ्काराणामन्तर्भावं दर्शयामास ।

तथा चोक्तं तत्र -

वाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्रधा ।

यत्रालङ्कारवर्गोऽसौ सर्वोप्यन्तर्भविष्यति ।।[५]

यद्यपि रसानां प्रेय-ऊर्जस्विन्नलङ्कारयोर्मध्येऽन्तर्भावं दर्शितवान् तथापि तेषां प्राधान्यमदत्वाऽपि नितान्तगौणत्वमपि नाङ्गीकृतवान् ।

उपचारवक्रतायाञ्च ध्वनिवत्प्रचुरभेदांश्चान्तर्भावयामास । यादृशी भाव नाऽसीत्कुन्तकस्य तादृश्येव यद्युत्तरवत्र्याचार्याणां समभविष्यत्तदैतत्पराकाष्ठां नूनमेवावगमिष्यत् । परर्वात्तन आचार्या हि रुद्रटप्रदर्शितदिशा वक्रोक्तिमेकं सामान्ये शब्दालङ्कारमात्रमेव स्वीचक्रुः ।

केचनपद्यभागाः गद्यप्रायाः दृश्यन्त इति, केचनगद्यभागाः पद्यभागाननुकुर्वन्तीति च विमर्शकाः वदन्ति । ततश्च तस्मिन् पद्यभागे पद्यत्वसम्पादकः कश्चनधर्मो विलुप्तः इति ज्ञायते । तथाऽपरस्मिन् पद्यतया परिदृश्यमाने गद्यभागे पद्यत्वसम्पादकः कोपि धर्माः विद्योतत इति चावश्यमङ्गीकर्तव्यम् । कः सः धर्मः ? स किं केवलं शब्दाश्रितः ? उत भावाश्रितः ? आहोस्विदुभयाश्रितः ? यदि सः भावाश्रितस्तदा भावानां व्यक्तीकरणे साधारणपध्दतेरतिरिक्ता गद्यपद्यतारतम्यस्य , अथवा कवितावैशिष्ट्यस्य निरुपिका कापि विलक्षणासरणिरस्तीति विज्ञायते । क्रिस्तोरनन्तरं दशमशतके संजातः कुन्तकः तां विलक्षणां सरणिं वक्रोक्तिरिति निश्चित्य, वक्रोक्तिः काव्यजीवितमिति समुद्घोषयत् ।

ध्वनिसिध्दान्तस्य प्रकाशनानन्तरं प्रादुर्भूतेषु वादेषु वक्रोक्ति – अनुमान- औचित्यवादाः प्राचुर्यमुपगताः । स्वभावविरुध्दस्य चमत्कारयुक्तस्य, उक्तिविशेषस्य वक्रोक्तिरिति व्यवहारो भवति । एषा वक्रता न श्वपुच्छतुल्या, किन्तु चन्द्रकलासदृशी – इति मङ्खकः, श्रीकण्ठचरिते कथयामास । रघुनाथभूपालः आन्ध्रभाषायां प्रसिध्दस्य श्रीनाथस्य कवितायां हरचूडाहरिणाङ्कवक्रता विद्योतत इति प्रशशंस । वक्रोक्तिर्नाम न केवलं उक्तिगतावक्रतैवेति मन्तव्यम् । तत्र वक्रतया सह रामणीयकमप्यवश्यं स्यात् । सहृदयहृदयानन्दसन्धायिनी पदभावसङ्घटनैव वक्रोक्तिरिति, सा वैदग्ध्यभङ्गी भणितिरुपेति च कुन्तकः प्रोवाच । रमणीयौ शब्दार्थौ काव्यस्य शरीरम् । आत्मभूताया वक्रोक्ते रभावे तौ काव्यप्रयोजनं निर्वोढुं न प्रभवतः, इति कुन्तकस्य आशयः। कुन्तकादपि प्राचीनाः केचित् वक्रोक्ति मधिकृत्य प्रत्यपादयन् । भोजः, श्रॄङ्गार प्रकाशे श्लोक मिम मुदाजहार । तद्यथा –

वक्रत्वमेव काव्यानां परा भूषेति भामहः ।
श्लेषः पुष्णाति सौन्दर्यं प्रायो वक्रोक्तिषु स्थितम् ॥

इति । उत्कृष्टा सङ्घटनैव वक्रोक्तिः इति ध्वन्यालोके दृश्यत इति मनोरथो व्याचख्यौ । इयं वामनोपज्ञस्य रीतिवादस्य सन्निहिता भवति । यतोऽत्र बाह्यां पदसंघटनां केवलामाधारीकृत्य निर्वचनं कृतमस्ति न तु आन्तरमात्मानमालम्ब्य । वामनोऽपि वक्रोक्तिमलङ्कारेषु परिगणय्य सादृश्याल्लक्षणा वक्रोक्ति इति निर्वचनमदात् ।

उन्मिमीलकमलं सरसीनां
कैरवं च निमिमील मुहूर्तात् ।

इति वामनो वक्रोक्तिमुदाजहार । सरस्सु कमलानि उन्मीलन्ति, तत्क्षण एव कैरवाणि निमीलन्ति, इति वाच्योऽर्थः । जडयोः कमल कैरव पदार्थयो रुन्मीलन निमीलन क्रिये न सम्भवतः । अतोऽत्र तयो र्नेत्रसाम्य माधारीकृत्य कमलानां विकासः, कैरवाणां संकोचश्च जात इति पार्यन्तिकोऽर्थोऽत्र ग्राह्यः । इदं वक्रोक्ते रुदाहरण मिति वामनस्य मतं भवति । एतत् दण्डिना प्रदत्ते समाधिगुणस्योदाहरणे स्फुरन्तं ध्वन्यर्थं स्मारयति ।

कुन्तको यद्यपि वक्रोक्तिसिध्दान्तस्य व्यवस्थापकस्तथापि रसध्वनिवादयोर्विरुध्दो न भवति । कुन्तकः, आनन्दवर्धनस्य ध्वनिवादे आदरातिशयं प्राकटयत् । अपि च रसध्वनिसम्बन्धिनो विविधान् भेदान् वक्रोक्तिभेदेषु, अन्तर्भावयामास । अनुमानवादस्य स्थापको महिभट्टस्तु ध्वनिसिध्दान्तं खण्डयन् ध्वनिवक्रोक्तिसिध्दान्तावुभावपि न भिन्नाविति संभावयामास । आधुनिकाः अपि विमर्शकाः बहवोऽत्र एवमेव व्याचख्युः । कुन्तकः, वक्रोक्तिनामकं भावं विशालतमं विधाय, उत्तमकवित्वस्य, आवश्यकानि सकलानि लक्षणानि वक्रोक्तौ सन्निवेशितवान् ।

भामहो वक्रोक्तेस्तथा मम्मटोऽतिशयोक्तेश्च प्राधान्यमूचतुः। वक्रोक्तिशून्यत्वादेव स्वभावोक्ति- क्रम –सूक्ष्म –लेशादीन् भामहोऽलङ्कारेषु न पर्यगणयत् । सर्वेष्वलङ्कारेषु अनुस्यूततया वक्रोक्तिरवश्यं भवेदिति, तदभावेऽलङ्काराः मनो विनोदयितुमशक्ताः एव भवेयुरिति च भामहस्समभावयत् । मम्मटस्तु सर्वेऽलङ्काराः अतिशयोक्तिमूलका इति, अतिशयोक्तिरेव वक्रतां जनयतीति च भावयामास । कवयो मुखं चन्द्रः इति वदन्ति । किं वस्तुतो मुखचन्द्रयोर्भेदो नास्ति ? अस्त्येव । एवं कथने काचिदतिशयोक्तिर्वर्तते । एषा अतिशयोक्तिरेवालङ्कारसौन्दर्यस्य मूलस्तम्भभूता भवति इति मम्मटस्याशयः । अतिशयः, वक्रता चारुत्वमितिशब्दाः मम्मटस्य मते पर्यायभूताः भवन्ति ।

भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयम् इति वदन् दण्डी, वाङ्मयं सर्वमपि स्वभावोक्ति –वक्रोक्ति भेदेन द्विविधं भवतीति प्रोक्तवान् । स्वाभावोक्ति र्नाम यथास्थित मुपवर्णनं भवति । वक्रोक्तिरित्युक्ते वक्रतया, अर्थात् चमत्कारबन्धुरतया वस्तुनो वर्णनं भवति । केषुचित्, स्थलेषु स्वभावोक्तिरपि मोदमातन्वत इति सत्यमेव तथापि, आनन्दानुभूतिप्रदाने वक्रोक्तिरेवातिशेते इत्यभ्युपगन्तव्यम् ।

कुन्तको वक्रोक्तेष्षाड्विध्यमकथयत्सम्पाद्यताम्

(१) वर्णविन्यासवक्रता – एषा शब्दालङ्कारप्राया भवति ।
(२) पदपूर्वार्थवक्रता – एषा पद पूर्वावयवेन प्रातिपदिकेन धातुना वा सम्बध्दा भवति । अत्रापि पुनः, रुढि वैचित्र्य वक्रता पर्याय वक्रतादयो बहवो भेदा भवन्ति । आसु वक्रतासु उपचार वक्रता मुख्या भवति । अत्रैव भेदे सर्वे ध्वनिभेदास्संगृहीताः ।
(३) प्रत्ययवक्रता – एषा कृत्तध्दितप्रत्ययसम्बध्दा । तेषां प्रत्ययानां संयोगेनात्र चारुतातिशयो भवति ।
(४) वाक्यवक्रता – अत्रार्थालङ्कारमूलकं सौन्दर्यं प्रधानम् ।
(५) प्रकरणा वक्रता – अत्र रसाननुगुणस्य कथावस्तुनः, रसानुगुणतया विपरिवर्तनेन जातं सौन्दर्यं प्रधानम् । शाकुन्तले दुर्वासश्शापोऽत्रोदाहरणम् ।
(६) प्रबन्धवक्रता – अत्र कथायां प्रधानरसस्य विपरिणामपूर्वकमन्यरसप्राधान्यसम्पादनं भवति । महाभारतकथा शान्तरसप्रधाना । भट्टनारायणो वेणीसंहारे कथामेतां वीररौद्ररसप्रधानतया विपरिणमयामास । उपर्युक्तेषु भेदेषु वक्रतापदस्य सौन्दर्य मित्यर्थो वेदितव्यो भवति । तदर्थं कविभिस्समुचितो यत्नः कार्य इति कुन्तकस्याशयो भवति ।

  1. काव्या० १॥३०
  2. का.अ. 5/66
  3. काव्यादर्शः - 2/363
  4. वक्रोक्तिजी० १।११
  5. वक्रोक्तिजी० १/२१
"https://sa.wikipedia.org/w/index.php?title=वक्रोक्तिसम्प्रदायः&oldid=456324" इत्यस्माद् प्रतिप्राप्तम्