वटवृक्षः कश्चित् महावृक्षः भवति । अस्य न्यग्रोधः इत्यपि नाम अस्ति । एतत् भारतस्य राष्ट्रवृक्षः । आङ्ग्लभाषया Banyan Tree इति कथयन्ति । प्राचीनकाले अस्य वृक्षस्य अधः वनिजः (बनिया=हिन्दुवणिजः) वाणिज्यव्यवहारन् कुर्वन्ति स्म । अतः अस्य आङ्ग्लभाषया एतत् नाम आगतम् । अयं बृहत्प्रमाणे वर्धमानः वृक्षेषु अन्यतमः । जगतः अतिबृहद्वटवृक्षः कोल्कोतानगरे अस्ति । अयं वटवृक्षः भारते सर्वत्र वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः पुराणानां कालात् अपि परमपवित्रः इति परिगण्यमानः अस्ति । अश्वत्थवृक्षः इव अयं वटवृक्षः अपि पूज्यते । तथैव औषधीयसस्यत्वेन अपि परिगण्यते अयम् । वटवृक्षः अत्यन्तं विशालः वृक्षः । अस्य वृक्षस्य त्वक्, पर्णं, मूलं, फलं, रसः चापि औषधत्वेन उपयुज्यन्ते । अस्य त्वचि “ट्यानिन्” नामकः रासायनिकः पदार्थः अस्ति । अस्य वटवृक्षस्य “बहुपादः” इत्यपि नाम अस्ति ।

कश्चित् वटवृक्षः

इतरभाषासु अस्य वटवृक्षस्य नामानि

सम्पादयतु

अयं वटवृक्षः आङ्ग्लभाषया“ब्यानियन् ट्री” इति उच्यते । सस्यकुले अयं Ficus Bengalensis कुले अन्तर्भवति । अयं हिन्दीभाषया“बड्” इति, तेलुगुभाषया“मरिचेट्टु” इति, तमिळ्भाषया “आलमरम्” इति, मलयाळभाषया“वटम्” इति, कन्नडभाषया “आलद मर” इति च उच्यते ।


सस्यशास्त्रीयवर्गीकरणम्

सम्पादयतु

मोरासिये कुटुम्बसम्बद्धस्य वटवृक्षस्य फैकस् बेङ्गालेनिस्(Ficus Bengalensis) इति सस्यशास्त्रीयं नाम ।

 
बेङ्गळूरुसमीपे विद्यमानः विशालः वटवृक्षः

विशेषगुणलक्षणानि

सम्पादयतु

विशालभ्यः अस्य शाख्याभ्यः मूलानि निस्सृत्य भूमौ सुरूढाः भूत्वा स्वयं काण्डत्वम् आप्नुवन्ति । एवमेव प्रहलप्रदेशपर्यन्तं व्याप्नोति । अस्य पत्राणि घणानि स्फुरणानि च भवन्ति । अस्मिन् महावृक्षे फालानि लघूनि पक्षिप्रियाणि सम्भवन्ति किन्तु पुष्पाणि न भवन्ति इति विशेषः । अयं श्लोकः वृक्षस्य गरिमां सूचयति ।

आयुर्वेदस्य अनुसारम् अस्य वटवृक्षस्य प्रयोजनानि

सम्पादयतु

अयं वटवृक्षः अत्यन्तं विशालः वृक्षः । तस्मात् सः वृक्षगणे अन्तर्भवति । औषधीयानां गुणानां कारणात् औषधीयानां सस्यानां गणे अपि अन्तर्भवति । अस्य वटवृक्षस्य रसः कटुः तथा च कषायः । अयं रूक्षः, शीतगुणयुक्तः च । १. अस्य वटवृक्षस्य रसः कण्ठवेदनां, व्रणं, गुल्फछेदनं, दन्तवेदनां, दन्तपाल्याः वेदनां च निवारयति । २. अस्य वटवृक्षस्य त्वचा निर्मितं चूर्णं १ ग्रां यावत् १० ग्रां मिते जले संयोज्य निर्मितं कषायं मधुमेहरोगिणां हितकरम् । ३. तदेव कषायं महिलानां श्वेतस्रावस्य क्षलनार्थम् अपि उपयुज्यते । ४. अस्य वटवृक्षस्य पर्णस्य उपरि तैलं लेपयित्वा तत् उष्णीकृत्य पिटकानाम् उपरि स्थापनेन पिटकाः बहुशीघ्रम् अपगच्छन्ति । ५. अस्य वृक्षस्य फलं वृष्यत्वेन (Virilific) अपि उपयुज्यते ।

अश्वत्थमेकं पिचुमन्दमेकं, न्यग्रोधमेकं दशतिन्त्रिणीकम् ।
कपित्थबिल्वामलकी त्रयञ्च, पञ्चाम्ररोपी नरकं न पश्येत् ।।

प्रयोजननानि

सम्पादयतु

छायावृक्षरूपेण मार्गाणां पर्श्वयोः आरोपयन्ति । उद्यानानां शोभावर्धनार्थं च संवर्धयन्ति । अस्य पर्णानि गजानां प्रियः आहारः । अस्य निर्यासः मूलानि च आयुर्वेदचिकित्सायाम् उपयोजयन्ति ।

 
न्यग्रोधफलानि
"https://sa.wikipedia.org/w/index.php?title=वटवृक्षः&oldid=432039" इत्यस्माद् प्रतिप्राप्तम्