वनस्पतिविज्ञानम्
वनस्पतिविज्ञानं वने ये लतावृक्षादयः सन्ति तेषां वनस्पतीनां विशिष्टं ज्ञानम् । प्राचीनकाले मनुष्याणां चिकित्सा वनस्पतिभिरेव क्रियते स्म । वने स्थिताः सर्वाः वनस्पतयः अतिमहत्वपूर्णाः औषधयः सन्ति। भारतस्य आयुर्वेदचिकित्सापद्धतिः वनस्पत्याधारितैवास्ति। चिकित्साशास्त्रेषु सर्वेषां वनस्पतीनां महत्त्वम् उपयोगिता च उपलभ्यते।