प्रमुखा विकल्पसूचिः उद्घाट्यताम्

वल्लभाचार्यः वल्लभः इत्यपि ख्यातः। सः कृष्णाश्रितं पुष्टिमार्गं ब्रज् प्रदेशे प्रख्यापितवान्। [१] तस्य सिद्धान्तः शुद्धाद्वैतः इति ख्यातः [२][३] वल्लभाचार्यः तेलुगुब्राह्मणकुटुम्बे जन्म प्राप्तवान्। तस्य पितरौ मुस्लिं जनानाम् आक्रमणकारणतः वाराणसीतः चम्पारण्यम् आगतौ। [४] वल्लभः बाल्यकाले एव वेदान् उपनिषदः च पठित्वा ततः परं २० वर्षाणि यावत् आभारतम् अटितवान्। [४] सः भक्तिमार्गस्य प्रमुखः नायकः अभवत्। वल्लभाचार्यस्य शिष्यैः लिखिते वल्लभाचार्यचरिते वल्लभाचार्यः रामानुज-मध्वाचार्यप्रभृतीनां शिष्यान् वादे पराजितवान् इति उल्लेखः दृश्यते। [४] सः पुष्टिमार्गस्य प्रवर्तकः आसीत्। वेदान्ततत्वात् स्वयं ज्ञानं प्राप्य सः पुष्टिमार्गम् आरब्धवान्। सः वैराग्ययुतं जीवनं मठेषु वासं च न अङ्गीकृतवान्। तत्स्थाने कृष्णस्य उपासनया मोक्षं गृहस्थोऽपि प्राप्तुं शक्नोति इति प्रत्यपादयत्। अस्य विचाराः उत्तरप्रदेशस्य पश्चिमभागे राजस्थाने मध्यप्रदेशे च प्रसृताः।[५] विष्णुस्वामिना सह वल्लभाचार्यस्य सम्बन्धः आसीत्।[६].[७]

वल्लभाचार्यः
जन्मतिथिः १४७९
जन्मस्थानम् चम्पारण्यम्, छत्तीसगढराज्यम्
मृत्युतिथिः १५३१
मृत्युस्थानम् वाराणसी
तत्त्वचिन्तनम् शुद्धाद्वैतम्, पुष्टिमार्गः

सः अनेकान् ग्रन्थान् अरचयत्। तेषु अनुभाष्यम्(ब्रह्मसूत्रस्यभाष्यम्), षोडशग्रन्थः, भागवतभाष्यम् च प्रसिद्धम्। वल्लभाचार्यस्य कीर्तनानि बालकृष्णस्य, यशोदायाः च माहात्म्यं वर्णयन्ति। [५] वल्लभाचार्यसम्बद्धानि वस्तूनि ब्रजप्रदेशे नाथद्वारा इत्यत्र सङ्ग्रहीतानि सन्ति।[५]

अन्तर्विषयाः

जीवनम्सम्पाद्यताम्

बाल्यम्सम्पाद्यताम्

 
वल्लभाचार्यस्य जन्मस्थानम्, प्राकट्या, चम्पारण्यम्।

वल्लभाचार्यस्य वंशीयाः आन्ध्रप्रदेशतः वाराणसीं गतवन्तः। वल्लभाचार्यस्य वंशजं यज्ञनारायणभट्टं भगवान् श्रीकृष्णः स्वप्ने एवमादिष्टवान् आसीदिति ऐतिह्यं श्रूयते। यथा- यदा भवद्वंशीयाः शतं सोमयागान् कुर्वन्ति तदा अहमेव भवद्वंशे अवतरामि इति। लक्ष्मणभट्टस्य काले तद्वंशीयाः शततमं सोमयागम् अकुर्वन्। लक्ष्मणभट्टस्य पुत्रत्वेन वल्लभाचार्यः १९४९ तमे वर्षे वैशाख-एकादश्यां चम्पारण्ये जातः। वल्लभाचार्यस्य माता इल्लम्मा। [१][८]

वल्लभाचार्यस्य जन्मकाले उत्तरभारतं मध्यभारतं च मुस्लिम् आक्रमणैः त्रस्तम् आसीत्। धर्मरक्षणार्थं इतस्ततः प्रवासः अनिवार्यः आसीत्। कदाचित् विषमस्थितौ गर्भवत्या भार्यया सह लक्ष्मणभट्टः वाराणसीतः चम्पारण्यम् आगतः। एवं गर्भवत्याः क्लेशकारणतः सप्तमे एव मासे शिशुः जातः। शिशोः मरणम् आशङ्क्य पितरौ कस्यचित् वृक्षस्य अधः वस्त्रेण आच्छाद्य शिशुं त्यक्तवन्तः। भगवान् कृष्णः पित्रोः स्वप्ने आगत्य अहमेव शिशुत्वेन जन्म प्राप्तवान् इति अवोचत्। तदानीं तौ वृक्षस्य अधः धावितवन्तौ। शिशुः जीवन् आसीत्। दैविकाग्निः परितः व्याप्य शिशोः रक्षणं कुर्वन् आसीत्। माता अग्नेः शिशुं स्वीकृतवती इति कथा श्रूयते। ततः वल्लभः इति नामकरणमपि कृतम्।[१]

शिक्षणम्सम्पाद्यताम्

सप्तमे वयसि वेदाध्ययनतः वल्लभाचार्यस्य अध्ययनम् आरब्धम्। षट्सु वेदाङ्गेषु सः पारङ्गतः अभवत्। वल्लभः शङ्कराचार्यस्य, [[ मध्वाचार्यः|मध्वाचार्यस्य]], रामानुजस्य, निम्बार्कस्य, बुद्धस्य, जैनधर्मस्य च सिद्धान्तान् अधीतवान्। सः शताधिकमन्त्रान् क्रमेण व्युत्क्रमेण च वक्तुं शक्नोति स्म। जनाः तं बालसरस्वती इति श्लाघन्ते स्म।[१] एकादशे वर्षे सः वृन्दावनम् अगच्छत्।[८]

विजयनगरे विजयःसम्पाद्यताम्

विजयनगरसाम्राज्ये कृष्णदेवरायस्य आस्थाने काचित् शास्त्रगोष्ठी आयोजिता आसीत्। द्वैतमतं अद्वैतमतं च प्रतिपादयितुं विद्वांसः समागताः आसन्। तत्र वल्लभाचार्यः अपि भागम् अवहत्। एकादशे वर्षे एव बालसरस्वती इति बिरुदेन युक्तः वल्लभः सभायां विचारम् उपपादयितुं समर्थः आसीत्।.[९] शास्त्रचर्चा २७ दिनानि यावत् प्रवृत्ता। कृष्णदेवरायस्य कनकाभिषेकावसरे वल्लभाचार्यः सम्मानितः। आचार्यः जगद्गुरुः इति बिरुदद्वयम् तस्मै दत्तम्। तस्मै पुरस्काररूपेण स्वर्णभाजनानि दत्तानि। वल्लभाचार्यः विनयेनैव तत् निराकृत्य तानि पात्राणि दरिद्रेभ्यः दातुम् असूचयत् । केवलं सप्त नाणकानि स्वीकृत्य तेन गोवर्धनाथस्य आभरणानि कारितवान्।[८]

देशयात्रासम्पाद्यताम्

वल्लभाचार्यः आ भारते पादरक्षामप्यधृत्वा अटनम् अकरोत्। श्वेतवेष्टीं श्वेतोत्तरीयं च धरति स्म। सः ८४ स्थलेषु भागवतविषये व्याख्यानानि कृतवान्। एतानि ८४ स्थलानि पुष्टिमार्गत्वेन ख्यातानि अद्यत्वे धार्मिकक्षेत्राणि विद्यन्ते। चातुर्मास्ये सः बृनावने वसति स्म।[१][८]

पुष्टिमार्गस्य प्रतिष्ठापनम्सम्पाद्यताम्

 
गोवर्धने श्रीनाथस्य साक्षात्कारः

जनाः भक्तिमार्गे कथं योजनीयाः इति वल्लभाचार्यः चिन्तयति स्म। यदा वल्लभाचार्यः गोकुलम् आगतः तदा ध्यानस्य इच्छा अभवत्। सः कृष्णं ध्यातवान्। कृष्णः श्रीनाथरूपेण वल्लभाचार्येण साक्षात्कृतः इति कथा श्रूयते। वल्लभाचार्यस्य पुरतः प्रत्यक्षः श्रीनाथः एव पूर्वं महात्मना माधवेन्द्रपुरिणा साक्षात्कृतः आसीत्। ,[१०] माधवेन्द्रपुरिना साक्षात्कृतः कश्चन देवः ब्रह्मसम्बन्धं बोधितवान्। कृष्णाय स्वसमर्पणम् एव ब्रह्मप्राप्तिः इति तस्य मतम्। कदाचित् भगवान् श्रीकृष्णः स्वप्ने आगत्य वल्लभाचार्यं मन्त्रम् उक्तवान्। तदानीं तस्य आप्तः शिष्यः दामोदरदासः वल्लभाचार्यस्य समीपे शयानः आसीत्। वल्लभाचार्यः प्रातः शिष्यं पृष्टवान् यत् ह्यः रात्रौ कोऽपि शब्दः श्रुतः वा इति। शिष्यः अवोचत् शब्दस्तु श्रुतः किञ्च तस्यार्थः न अवगतः इति। तदानीं वल्लभाचार्यः शिष्यं बोधितवान्। [११] वल्लभाचार्यः तस्य बोधनानि प्रसार्य तस्य पुष्टिमार्गः इति नामाङ्कनं कृतवान्। सः त्रिवारं तीर्थाटनं कृतवान्। नामनिवेदनमन्त्रम् अथवा ब्रह्मसम्बन्धमन्त्रम् उपदिश्य सः जनानां बोधनस्य आरम्भम् अकरोत्। सहस्रशः जनाः तस्य अनुयायिनः अभवन्। परन्तु ८४ शिष्या प्रसिद्धाः वर्तन्ते। ८४ वैष्णवानां कथा इति पुष्टिमार्गे प्रसिद्धिः वर्तते।[१] हिमालयस्य गुहासु सः व्यासं मिलितवान्। कृष्णस्य तस्य वेणोः च दर्शनं प्राप्तवान् इति ऐतिह्यं श्रूयते।[उद्धरणं वाञ्छितम्]

वैयक्तिकं जीवनम्सम्पाद्यताम्

वल्लभाचार्यः सन्यासी भवितुम् इष्टवान्। परन्तु पण्ढरापुरस्य पाण्डुरङ्गः श्रीनाथश्च तं गृहस्थः भवितुं सूचितवन्तौ। श्रीनाथः तव द्वितीयपुत्ररूपेण अहं जन्म प्राप्स्यामि इत्यपि अवोचत्। वल्लभाचार्यः महालक्ष्मीं परिणीय गोपीनाथं विट्ठलनाथं च पुत्रत्वेन प्राप्तवान्।.[१२][१३]

मरणम्सम्पाद्यताम्

५२ तमे वयसि वाराणस्यां हनुमानस्नानघट्टे वल्लभाचार्यस्य समाधिः अभवत्। पुष्टिमार्गस्य ग्रन्थेषु वल्लभाचार्यस्य अन्तिमः कालः वर्णितः अस्ति। श्रीनाथः त्रिवारं वल्लभार्यं मम समीपे आगच्छतु इति आहूतवान्। तृतीयवारं यदा आहूतः तदानीं वल्लभाचार्यः काशीं गतः। तत्र सन्न्यासिरूपेण कुटीरे वसति स्म। अन्तिमकाले कुटुम्बजनाः यदा तस्य समीपे आगताः तदा अन्तिमसन्देशरूपेण सार्धैकश्लोकं सः सिकतासु अलिखत्। अर्धं साक्षात् भगवान् श्रीकृष्णः पूरितवान्। अयं सन्देशः पुष्टिमार्गानुयायिभिः शिक्षाश्लोकी इत्युच्यते। वल्लभाचार्यस्य जलसमाधिः यदा कृता तदानीं तस्य शरीरतः विशिष्टा प्रभा उपरि गता।[१]

पुष्टिमार्गःसम्पाद्यताम्

वल्लभाचार्यस्य पुष्टिमार्गः भक्तिसम्प्रदाये महन्महत्त्वं भजते। अयं कश्चन विशिष्टः मार्गः वल्लभाचार्येण प्रतिपादितः। सम्प्रदायेन, सङ्गीतेन, ध्यानेन च भगवतः कृष्णस्य प्राप्तिः अस्य मुख्यं लक्ष्यम्। अद्यत्वेपि उत्तरभारते पूर्वभारते च तस्य अनुयायिनः दृश्यन्ते।[उद्धरणं वाञ्छितम्]

कृतयःसम्पाद्यताम्

वल्लभाचार्यः अनेकान् ग्रन्थान् अरचयत्। यथा-

  1. ब्रह्मसूत्रभाष्यस्य अनुभाष्यम्।
  2. तत्वार्थदीपनिबन्धः
  3. शास्त्रार्थप्रकरणम्
  4. सुबोधिनी(भागवतस्य व्याख्या)
  5. षोडश ग्रन्थः

एतदतिरिच्य पत्रावलम्बन्, मधुरषट्कम्, गायत्रीभाष्यम्, पुरुषोत्तमसहस्रनाम, गिरिराजधराष्टकम्, नन्दकुमारशतकम्, सुदर्शनकवचः इत्यादयः ग्रन्थाः अपि विद्यन्ते। [१४]), and Shreemad Bhagwatam (Shree Subodhini ji, Tattvarth Dip Nibandh).

षोडश ग्रन्थाःसम्पाद्यताम्

पुष्टिमार्गस्य भक्तानां प्रश्नानाम् उत्तरत्वेन वल्लभाचार्यः षोडश श्लोकान् रचितवान्। यत्र पुष्टिमार्गस्य प्रायोगिकः सिद्धान्तः वर्णितः वर्तते। ते ग्रन्थाः यथा

  1. श्रीयमुनाष्टकम्
  2. बालबोधः
  3. सिद्धान्तमुक्तावली
  4. पुष्टिप्रवाहमर्यादाभेदः
  5. सिद्धान्तरहस्यम्
  6. नवरत्नम्
  7. अन्तःकरणप्रबोधः
  8. विवेकधैर्याश्रयः
  9. श्रीकृष्णाश्रयः
  10. चतुःश्लोकी
  11. भक्तिवर्धिनी
  12. जलभेदः
  13. पञ्चपद्यानि
  14. सन्न्यासनिर्णयः
  15. निरोधलक्षणम्
  16. सेवाफलम्

उल्लेखाःसम्पाद्यताम्

  1. १.० १.१ १.२ १.३ १.४ १.५ १.६ Shah, J.G. (1969). Shri Vallabhacharya: His Philosophy and Religion. Pushtimargiya Pustakalaya. 
  2. "Shuddha-advaita Brahmvaad - Philosophy of Shree Vallabhacharyaji". Kankroli based Shri Vakpati Foundation. Archived from the original on 2007-09-27. Retrieved 2007-06-06. 
  3. Sharma, Govardhana; Parikha, Pravinacandra Cimanalala (January 1993). Vedanta Cintamanih of Bharatamartanda Pandita. Param Publications. ISBN 81-86045-00-7. 
  4. ४.० ४.१ ४.२ Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism. Infobase. pp. 475–476. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC. 
  5. ५.० ५.१ ५.२ Catherine B. Asher; Cynthia Talbot (2006). India Before Europe. Cambridge University Press. pp. 111–112. ISBN 978-0-521-80904-7. https://books.google.com/books?id=ZvaGuaJIJgoC&pg=PA111. 
  6. Beck, Guy L (2005). "Krishna as Loving Husband of God". Alternative Krishnas: Regional and Vernacular Variations on a Hindu Deity (SUNY Press). ISBN 978-0-7914-6415-1. https://books.google.com/books?id=0SJ73GHSCF8C&pg=PA65&dq=Vallabha+Vishnuswami. Retrieved 2008-04-12. 
  7. Sharma, V.P. (1998). The Sadhus and Indian Civilisation. Anmol Publications PVT. LTD.. 
  8. ८.० ८.१ ८.२ ८.३ Prasoon, Shrikant (2009). Indian Saints & Sages. Pustak Mahal. ISBN 9788122310627. https://books.google.com/books?id=ZvJa5nTi3VsC&pg=PA189&dq=Shodash+Granth&hl=en&sa=X&ei=CGtEUcHQE4iyrAe014CAAg&ved=0CC4Q6AEwAA#v=onepage&q=vallabhacharya&f=false. 
  9. Jones, Constance (2007). Encyclopedia of Hinduism. New York: Infobase Publishing. pp. 475. ISBN 0-8160-5458-4. 
  10. Ojha, P.N. (1978). Aspects of Medieval Indian Society and Culture. BR Pub. Corp.; New Delhi: DK Publishers' Distributors. 
  11. http://www.nathdwara.in
  12. Edwin Bryant (author) (2007). Krishna: A Sourcebook. New York: Oxford University Press. p. 482. ISBN 978-0-19-803400-1. https://books.google.com/books?id=0z02cZe8PU8C&pg=PA482. 
  13. Kincaid, C. (January 1933). "Review: Imperial Farmans by K. M. Jhaveri". Journal of the Royal Asiatic Society of Great Britain and Ireland: 131-132. JSTOR 25194699. 
  14. Anubhashya

ग्रन्थऋणम्सम्पाद्यताम्

  • Sri Subodhini, first time English Translation, 25 Vols./ Delhi
  • Barz, Richard K. The Bhakti Sect of Vallabhacarya. Delhi: Thomson Press. 1976

बाह्यसम्पर्काःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=वल्लभाचार्यः&oldid=445400" इत्यस्माद् पुनः प्राप्तिः