वसन्तरागः
वसन्तरागः (Vasant/Basant Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । अयं प्राचीनः ग्रामरागः वसन्तरागः भवति । वसन्तकालस्य सुस्वरूपं सूचयति, एवम् अन्वर्थनाम अपि भवति । "हिण्डोळरागस्य" जन्यरागः भवति । रागमालाग्रन्थे अयं बसन्तरागः शृङ्गाररसं प्रतिपादयति इति निरूपितम् अस्ति । उत्तमसाहित्येन सहितेन गानेन शोतृणां मनसि अपि तादृशैव चित्रणम् आयाति । प्रातः कालीनः सन्धिप्रकाशकः रागः भवति । वसन्तकाले समयस्य निर्बन्धः नास्ति । सम्पूर्णं षाडव जात्यासहितः रागः भवति । वादि तारषड्जस्वरः (स) भवति । संवादि मध्यमस्वराः (म) भवन्ति । अस्यैव रागस्य बसन्तरागः इत्यपि व्यवहारः अस्ति ।
- शिखण्डि-बर्हिच्छय(बर्होच्चय)-बद्धचूडः,
- कर्णावतंसीकृतशोभमानः।
- इन्दीवरश्यामतनुर्विलासी,
- वसन्तकः स्यादतिमञ्जुलश्री॥
- आरोहः- स ग म ध रे स
- अवरोहः- रे नि ध प, म ग म ग रे स
- पक्कड- नि ध प, म ग म ग रे स
समयः
सम्पादयतुसायं ६ तः ८ वादनपर्यन्तं प्रशस्तः कालः ।
थाट्
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतु- [१] Archived २०१९-१२-०९ at the Wayback Machine
- [२] Archived २०१२-०२-१७ at the Wayback Machine
- [३]
- [४]
- [५] Archived २०२१-११-२७ at the Wayback Machine