वागेश्वरीरागः (Bageshri Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः प्राचीनरागश्च भवति । अस्मिन् रागे पञ्चमस्वरोपयोगस्य विषये एक्यमत्यं नास्ति । सध्यःकाले केवलम् अवरोहे पञ्चमस्य उपयोगः अस्ति । धनश्री तथा कानडा रागयोः मिश्रणं अस्मिन् रागे अस्ति इति केचन अभिप्रयन्ति । भक्तिरसः, शृङ्गाररसश्च अस्मिन् रागे भवतः । अस्य रागस्य प्रशस्तः कालः सायङ्कालः भवति । "काफि थाट्" गणस्य रागः भवति । अस्य रागस्य वादिस्वरः मध्यमः (म) भवति । संवादि स्वरः षड्जः (स) भवति । त्रिषु सप्तकेषु विशेषतया एनं रागं प्रस्तुवन्ति । भागेश्रीरागः इत्यपि अस्य रागस्य प्रसिद्धिरस्ति ।

वीणा विनोदी कमलायताक्षी सौन्दर्यलावण्य सुगौरगात्रा ।
पत्युः समीपे कमनीयकण्ठा वागीश्वरी कौशिकरागिणीयम् ॥
  • आरोहः – स ग म ध नि स
  • अवरोहः – स नि ध, म प ध, म ग रे स
  • पक्कड – प ध नि ध, म नि ध, म ग रे स

समयः सम्पादयतु

अस्य रागस्य प्रशस्तःकालः रात्रौ १० तः १२ ।

थाट् सम्पादयतु

  • काफि

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वागेश्वरीरागः&oldid=369695" इत्यस्माद् प्रतिप्राप्तम्