ढोल , मृदंग , दुन्दुभि , वीणा , शततन्त्री , एतादृशाः अनेके भारतीय वाद्यानि सन्ति । येषां वाद्यानां वादनं कर्णप्रियं , सुमधुरं च भवति । अनेके भारतीयाः युवकाः सततम् अभ्यासं कुर्वन्ति । अभ्यासेन ते वादननिपुणाः भवन्ति , श्रेष्ठाः वादकाः च भवन्ति । भारतीयरागपरम्परानुसारं यदा ते वादयन्ति तदा जनाः मन्त्रमुग्धाः भवन्ति । प्रातःकालस्य रागः , सायंकालीनः रागः , वर्षा रागः , युद्ध समयस्य रागः , शोककालस्य रागः एतेषु रागेषु यदा ते सुरावलिँ जनयन्ति तदा मनसि तदनुसारमेव भावः जायते । अस्माकं भारतीय वादन , गायन परम्परा बहु पुरातना समृद्धा च अस्ति ।

Anne Vallayer-Coster

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वाद्ययन्त्राणि&oldid=345255" इत्यस्माद् प्रतिप्राप्तम्