वालीबाल्-क्रीडा
Typical volleyball action
नियामकगणः FIVB
प्रथमक्रीडा 1895, Holyoke, Massachusetts, United States
वैशिष्ट्यसमूहः
सम्पर्कः No contact
गणसदस्याः 6
उभयलिङ्गम् Single
वर्गीकरणम् Indoor, beach, grass
उपकरणम् Volleyball
उपस्थितिः
ओलिम्पिक् 1964

करकन्दुकक्रीडा (वालीबाल् VOLLeyball

सम्पादयतु
शस्त्रप्रहारं कुरुते ह्यजस्त्रं यथा मियः सैन्यदलं समित्याम्
तद्वद् विधत्ते करकन्दुकेन क्रीडोच्यते सा किल ‘वालिबालः॥

ऐतिहासिकी पृष्ठभूमिः

सम्पादयतु

यद्यापीदं बहुधा प्रतिपादितमस्ति यत् करकन्दुकक्रीडाऽतीव प्राचीनकालात् प्रचलिता वर्तते इति । परं साम्प्रतिक्यां स्थितावेतां क्रीडां सन् १८६५ तमे वत्सरे ‘विलियम् सीं मोरगनः’ अमेरिकायां मेसेसशुट’ नगरस्थे ‘होलीओक्’ नाम्नि स्थान आविरकरोत् । तदानीं बृहत्प्रकोष्ठेषु क्रीडन्-योग्या अन्तर्गृहक्रीडा अतिन्यूना आसन्,अत एव सर्वप्रथमेषा क्रीडाऽपि महत्सु प्रकोष्ठेषु क्रीडयते स्म ततः परं तत्रत्यया ‘यंगमेन क्रिश्चिन एसोसिएशन्’-नामिकया संस्थया क्रीडेयमात्मसात्कृता नियमाश्च विधिवद निर्मिताः । इयं संस्थाऽमेरिकायां बहुषु स्थानेषु लोकप्रीतिपात्री समभवदतस्तत्रेयं क्रीडाऽपि लोकप्रियतामार्जयत् ।

अमेरिकात् इयं क्रीडा, इंग्लेण्डमायाता ततश्च तदीयेषूपनिवेशेष्वस्याः पूर्णरुपेण प्रचारोऽभवत् । तत्रेयं क्रीडा क्रीडाङ्गणे क्रीडितुं प्रावर्तत । अस्यां केवलमेकस्या जालिकायास्तथा कन्दुकस्यावश्यकता भवति । कन्दुकस्याकृतिः सामान्यकन्दुकाद् मनाक् स्थूला भवति । अतोऽस्याः क्रीडनेऽधिकमात्रायां धनव्ययापेक्षाऽपि न भवति न च क्रीडाक्षेत्रमप्यतिविस्तृतं काम्यते । एतैः कारणैरेव भारतेऽपि क्रीहेयं लोकप्रिया जाता । अत्रत्येषु ग्रामेष्वपि क्रीडेयं सोत्साहं क्रीडयते ।

क्रीडाङ्गणं क्रीडोपकरणानि च

सम्पादयतु

कर-कन्दुक-क्रीडेयं विशाले भवनेऽथवा निरावृतक्षेत्रे क्रीडितुं शक्यते । किञ्चप्राङ्गणे विविधा रेखा आकृष्य क्षेत्रस्य विभागा अपि क्रियन्ते येषामाधारेण क्रीडकानां दलद्वयं व्यवस्थाप्यते । मध्ये निबद्धया जालिकया परस्परं क्रीडकानां मध्ये कन्दुक-प्रक्षेपण प्रतिस्पर्धा भवति । अस्यां क्रीडायां पुरुषाः, महिलाः किंवा द्वावपि सम्मिश्ररुपेण, इत्यमेव बालक-बालिका अपि क्रिडन्ति । एतदनुसारं केचन क्षेत्रादिनिर्मितेर्नियमा अपि निर्घारिताः सन्ति, येषां परिचय इत्थं विद्यते-

 
वालीबाल्

क्रीडाङ्गणं तदायति-विस्तारादयश्च

सम्पादयतु
(१) क्रीडाङ्गणं -१८ मीटरायतं ६ मीटरमितं च विस्तृतं भवति । इदं प्राङ्गणं ‘कोर्ट’ इति कथ्यते । ऊर्ध्वं ७ मीटरमानं यावन्त काऽपि बाधा भवति ।
(२) रेखा -विधानानि -क्रीडाङ्गणं परितः ५ सै.मी.(२ इंच)स्थूला रेखाः क्रियन्ते । यदि क्रीडा क्वापि विशाले भवनेऽथवा गृहान्तर्वर्तिनि क्रीडास्थले भवति तदा सर्वा अपि बाधा रेखात एकमीटरमाराद् भविष्यन्ति, अतो मीटरत्रयमितमन्तरं परित ऊर्ध्वां च क्रियते । अत्रायते रेखे ‘पार्श्वरेखे’ तथा विस्ताररेखे ‘अन्त्यरेखे’ निगद्यन्ते ।
(३)मध्यरेखा- क्रीडाङ्गणस्य मध्ये रेखाविधानेन क्षेत्रं द्वयोर्भागयोर्विभज्यते । इमौ द्वावपि भागौ पक्ष-विपक्षरुपेण क्रीडतां क्रीडास्थलीत्वेन मन्येते । मध्य रेखामुभतोऽग्रे १ मीं मितां वर्धयित्वा तत्रोभयभागयोरेकैकः स्तम्भो निखन्यते । क्रीडार्थिनां मध्यस्थस्य (रेफ्री) च सहायतायै मध्यरेखां त्रिषु भागेषु लध्वीभी रेखाभिर्भूयोऽपि विभजन्ति । एवं १५ सै० मी० मिताऽऽयता ५ सै० मी० मिता विस्तृताश्च रेखाः भवन्ति । अन्त्यरेखातो ६ मीटर मितस्यान्तराले एकैका समानान्तररेखाऽऽकृष्यते, याम् ‘प्राक्रमणरेखा’ (लाइन् आफ अटैक) इति कथयन्ति । किञ्चान्त्यरेखाया दक्षिणे पार्श्वरेखां १५ सै० मी० मितां पुनरग्रे वर्धयन्ति तथा ३ मीट्रमितस्यान्तराले १५ सै० मी० प्रलम्बैका रेखा विधीयते सा ‘समारम्भस्थली’ (सर्विस एरिया) नाम्ना सम्बोध्यते ।
(४) अवरोधरेखा -प्रत्येकमर्धक्षेत्रे ६ मीटरदीर्धा ५. सै.मी.विस्तृता च रेखा मध्यरेखातः ३ मीटरमितेनान्तरेण मध्यरेखायाः समानान्तरेण दीयते ।
(५) जालिका (नेट)क्रीडाङ्गणस्य मध्यभागे द्वयोरपि पार्श्वयोर्नि खातयोः स्तम्भयोः साहाय्येन जालिका निबद्ध्यते, यस्या आकारः ६० सै.मी. विस्तृतस्तथा १० मीट्र आयतो भवति । वर्गाकारश्च्च तस्या १० सै.मी. मानवान् । उभयत आकृष्य बद्धयमानेयं जालिका दृढसूत्रनिर्मिता, ऊर्ध्वभागाच्च ५ सै.मी. मितयैकया स्फीतया सीविता भवति । भूमेः ८ फुटमितमिच्चैर्निबद्धयते, दलद्वयस्य च मध्यसीमबोधिकाऽपीयमेव सम्पद्यते । पुरुषेभ्यो जालिकाया उच्चता २ मी.४३ सै.मी. (२.फुट) मिता महिलाभ्यः २ मी. २४ सै.मी. मिता बालकबालिकाभ्यश्च स्थित्यनुसारं व्यवस्था क्रियते ।

उपकरणम्

सम्पादयतु

कन्दुक एवास्याः क्रीडाया मुख्यमुपक्रणम् । तत्र-

(१)कन्दुकस्याकारो वृत्तात्मकः, ६५ अथवा ६८ सै.मी.परिधिशाली, बहिश्वर्मनिर्मितावरण-रुपकन्दुकवान्, अन्तर्द्रव-(रबर्)-निर्मितकन्दुकयुक्तः । आवरणं ८ अथवा १२ यतुकान्वितं च ।
(२) कन्दुकस्य भारः २५० तो ३०० गेनमितः स्यात् ।
(३) कन्दुके वायुपूरणमेतावत् कर्तव्यं येन तस्यापूर्तिभारः ०५२ किलोग्रामतः ०५८ किलो ग्रामं यावद् भवेत् ।

क्रीडकाः क्रीडाविधयश्च

सम्पादयतु
(१)वेषभूषा-क्रीडार्थिनां ‘वेषभूषा’ ‘जानुपर्यन्तमधोवस्त्रं, ‘नैकर’, कूर्परान्तं कञ्चुकं पादौ निरुपानहावथवा रबरनिर्मितोपानद्वन्तौ स्युरिति समुचितं मन्यते । अथ च -
(२) अस्मिन् क्रीडने दलद्वयं भवति । उभयोरपि दलयोः -६-६ क्रीडका भागं गृह्णन्ति ।
(३)उभयोर्दलयोः १२-१२ क्रीडकेभ्योऽधिका न भवन्ति । षट् क्रीडकानतिरिच्य शिष्टाः क्रीडास्थलीतो बहिस्तथा मध्यस्थस्याभिमुखं तिष्ठन्ति ।
(४)समयपूर्तेरनन्तरं क्रीडकाः परिवर्तितुं शक्यन्ते परं दलनायकेन तदर्थं मध्यस्थस्यानुमतिर्गृहीतव्या भवति । यदि समयपूर्ति-सूचनात् परमेकक्षणानन्तरमेव द्वितीयः क्रीडकः पूर्ववर्तिनः क्रीडकस्य स्थाने क्रीहितुं नायाति तदा तददलमेके-नाङ्केन पराजयते ।

यदि क्रीडकयाचनानुमत्यनन्तरमेकमिनटाभ्यन्तरमन्यः क्रीडार्थी नायाति किंवा परिवर्तनानुमतिं दलनेता ददाति तदा तददलमेकेनाङ्केन पराजितं भवत्याऽथवा विपक्षिदलं तत स्थाने क्रीडारम्भं कुरुते । क्रीडास्थल्यां गमनागमनाभ्यां पूर्वं मध्यस्थस्यानुमतिः सर्वथाऽऽवश्यकी।

(५) कस्यापि क्रीडकस्य स्थानेऽपरः क्रीडार्थि ‘स्थानापन्नः’ कथ्यते । स यस्य स्थाने दीव्यति तस्य स्थान एव तिष्ठति । केवलमेकवारञ्च स क्रीडितुं शक्नोति ततः परं पूवस्थानीयः पुनरपि क्रीडने प्रभवति । यदि कश्चन क्रीडको मध्यस्थेन केनापि कारणेन बहिष्कृतश्चेत ततस्थाने तेन क्रीडितुं पार्यते परं स द्वितीयवारं भागी न भवति । चक्रमध्ये च स्थानापन्नस्य बहिर्गत्या स चक्रपूतिं यावन्न क्रीडिष्यति यदि कस्या अपि दुर्घटनाया वशात् कस्मिंश्चिददले क्रीडकानां न्यूनता भवति तदा स्थानापन्नः क्रीडको रुग्णस्य स्थाने क्रीडति । किञ्च कस्यापि दलस्य क्रीडार्थिनां संख्या बहिष्कृतिकारणात् न्यूना भवति तदा तच्चक्रं पराजयते तथाऽङ्कोपलब्धि ०.१५ भवति ।
(६)प्रतिक्रीडनमारम्भे पूर्वं क्रीडकाः स्व-स्वस्थले तिष्ठन्ति ते समाक्रमणरेखायाः पृष्ठे गन्तुं शक्नुवन्ति परं पृष्ठवर्तिनः क्रीडकादग्र एव तैः स्थातव्यम् ।
(७)षटत्सु क्रीडकेष्वेको दलनायको भवति । इत्यमुभयोर्दलयोर्नायकौ क्रीडाया आरभ्याय तथा कस्माद् भागात कः क्रीडिष्यत्येतदर्थं कर्गदचिटिकाः समायोज्योत्थापयतः, विजेतृनायकोऽस्य निर्णयं करोति यत् तदीयं दलं क्रीडारम्भं करिष्यत्यथ च तदिच्छानुसारं स्वीकृताद भागात् क्रीडिष्यतीति । प्रथमं चक्रारम्भे दलनेता गणकायेदं सूचयति यत्तदीयाद् दलात् कः पूर्वं कन्दुकप्रक्षेपणमारप्स्यते ? क्र्मशः सर्वेऽपि दलक्रीडकाः कन्दुकक्षेपारम्भं कर्तुं शक्नुवन्ति । क्रीडास्थले पृष्ठवर्तिन्या रेखाया निकटे दक्ष-वाम-मध्यपार्श्वगस्तथा दक्ष-वाम-मध्याग्रगाः क्रीडकाश्च तिष्ठन्ति ।

समारम्भक्षेपणम् (सर्विस्)

सम्पादयतु

क्रीडारम्भे कन्दुकक्षेप्ता समारम्भ-स्थल्या बहिः स्थित्वैकेन ह्स्तेन कन्दुकमुत्प्लाव्य द्वितीयेन ह्स्तेन विपक्षस्य क्षेत्रे प्रक्षिपति । धावित्वाऽपीदं प्रक्षेपणं कर्तुं शक्यते परमन्त्यरेखाया निकटेऽवरोध आवश्यकोऽस्ति । ततः परं क्रीडाऽऽरभते । विपक्षक्षेत्र पतन्तं कन्दुकं कोऽपि स्प्रष्टुं न शक्नोति स च पतति तदा पुनरारम्भः पूर्ववदेव भवति । निरीक्षकस्येदं क्रर्तव्यं भवति यदेवं विधानेनाधिकः कालो न व्यतीयात् । जालिकाया उपरिभागाद् द्वितीयदलक्षेत्रे स्पर्शं विना विपक्षक्षेत्रे कन्दुको गच्छति तदा समारम्भक्षेपणं समुचितं मन्यते । एवं क्रीडाऽग्रे किमप्यङ्कनं यावत् प्रचलति । यदि समारम्भक्षेपादनन्तरं विपक्षिदलं कन्दुकं परावर्तयितुं न क्षमेत तदैकमङ्कनं (पाइन्ट)भवति । कन्दुकस्य पार्श्वरेखातो बहिः पतनादेकं त्यक्त्वा तृतीयेऽवसरे क्रमेणोभयोरपि दलयोः क्रीडका समारम्भक्षेपणं कुर्वन्ति । तत्र द्वितीयवारं क्रमाङ्कद्वयशाली किं वा दक्षक्रीडकः समारम्भं करोति शेषाश्च क्रमेणा प्रवर्तन्ते ।

त्रुटीनां (फाउल)कारणानि

सम्पादयतु

(१) प्रक्षेपणकाले जालिकास्पर्शः (२)मध्यरेखोल्लङ्घनम्, (३) प्रक्षेपारम्भे निक्षेपाभावः, (४) प्रक्षेपारम्भे तदीयरेखालङ्घनम्, (५) युगपत कन्दुक्स्य द्विवारं स्पर्शः, (६) कन्दुकस्य नीचैः प्रक्षेपणम्, (७) पार्श्वरेखास्पर्शः (८) क्रीडासमये शरीराङ्गस्य जालिकास्पर्शश्च त्रिटीनां कारणत्वेन परिगण्यन्ते ।

प्रङ्कप्राप्ति (स्कोरिंग)-नियमाः

सम्पादयतु

समारम्भक्षेपो यदि समुचितपद्धत्या भवति परं विपक्षिदलं तं यथारीत्या परिवर्तने समर्थं न भवति तदैकोङ्को दीयते तथा समारम्भकदलं तमङ्क जयति । १५ अङ्कविजयेन क्रीडा जीयते परं तत्रायं पणोऽस्ति यद विपक्षाद् न्यूनान्यूनौ द्वावङ्कावधिकं भवेताम् । यदि गणना १४-१४ सञ्जायते तर्हि यावद् विजेतृदलं द्वावङ्कौ न प्राप्नुयात् तावत् क्रीडा प्रचलति । प्रतिचक्रानन्तरं मिनटद्वयस्य मध्यान्तरं तथा चतुर्थ -पञ्चमचक्रानन्तरं पञ्चमिनटात्मकं मध्यान्तरं क्रियते ।

कर्मचारिणस्तेषां कर्तव्यानि च

सम्पादयतु

अत्र क्रीडने (१) सञ्चालको द्रष्टा च (रेफ्री), (२) तटस्थद्रष्टा निर्णायकश्च (अम्पायर) (३) गणकः(स्कोरर) तथा (४-५) द्वौ रेखा-पुरुषौ कार्यकर्तारौ भवन्ति । तत्र सञ्चालकः क्रीडां प्रवर्तयति तदीयो निर्णयश्चान्तिमो मन्यते । क्रीडका अन्ये कर्मचराश्चास्य निर्णयस्वीकरणे प्रतिबद्धा भवन्ति । अयं जालिकाया एकस्मिन् भागे स्थित्वा सर्वं पश्यति । द्वितीये भागे द्वितीयो द्र्ष्टाऽम्पायरः स्थित्वा सूक्ष्मेक्षिकया क्रीडाविधिं पश्यति निर्णयति च । गणकोऽङ्कगणनां लिखति तथेदमपि पश्यति यत्क्रीडितारो नियमान् पालयन्ति न वेति । रेखापुरुषौ द्वयोरपि कोणयोः पार्श्वे स्थित्वा कन्दुकप्रक्षेपारम्भे सहयोगं कुरुतः, सञ्चालकस्य समस्यां समादधतस्तथा कन्दुकपतनौचित्यं निरीक्षेते ।

केचन विशिष्य ज्ञेयाः शब्दाः

सम्पादयतु

करकन्दुक-क्रीडायां केचन विशिष्टाः शब्दा विद्यन्ते, येषां ज्ञानं विना क्रीडा-दर्शनेऽप्यानन्दोपलब्धिर्न भवति किं पुनः क्रीडने ? एते शब्दा आंगलभाषायाः सन्तोऽपि साम्प्रतं सर्वासु भाषासु रुढाः प्रतीयन्ते । यथा -

(१) पास (The Pass) प्रापणम्-एकस्मात् क्रीडकादन्यस्य निकटे कन्दुक प्रापणक्रिया ।
(२) पोजिशन (Position) स्थितिः -क्रीडायां कन्दुक्स्य प्रक्षेपणे ताडने प्रापणे वा या शरीरस्य स्थितिर्भवति सा । अस्या निर्मिति ‘स्टान्स’ (Stance) इति कथयन्ति । अस्या ज्ञानमत्यावशयकं विद्यते । पदयोः स्थितिः, पूर्वं समाना, सत्यामावश्यकतायां निम्ना, मध्यस्थोर्ध्वगा,. शिरस ऊर्ध्वगा, समक्षवर्तिनी पृष्ठगा चेति विविधरुपेण कन्दुकस्यागतिं वीक्ष्य विधीयते । एवमेव हस्तयोर्वक्षसश्चापि स्थितिश्चिन्त्यते ।
(३) सर्विस (the service) -प्रक्षेपारम्भः समारम्भप्रक्षेपणं वा -इदं प्रक्षेपणं तदा क्रियते तदा क्रीडकः (क) अन्तर्भुजावस्थया, (ख) पार्श्वभुजावस्थया, (ग) उच्चैः प्रक्षेपणेन च कन्दुकं प्रक्षिपति ।
(४) सैट (the set vp)चक्रम्-दलस्य क्रीडकाः कुत्र कथं स्थित्वा क्रीडेयुरित्यस्य कश्चन क्रमो निर्धारितोऽस्ति, तस्य कदा कथं परिवर्तनं कृत्वा व्यवस्था विधीयते, तदर्थं ‘चक्रव्यवस्था’ भवति । तत्र (क) क्षेत्रे क्रीडकस्य स्थितिः ‘सैटाप्’ इति कथ्यते ।
(५) स्मैश (Smash) -उच्चैर्वर्ती कन्दुक इत्थमधोगमिन्या ताडनया ताडनीये यतो विपक्षित्रीडकस्तं परावर्तयितुं न क्षमेत् । अनया प्रक्रियया क्रीडकाः परस्परं निकटस्थेन क्रीडकेन सह स्थितिसाम्यमानयन्ति ।
(६) अटैक (the Attack) -आक्रमणम् -कन्दुकस्य विपक्षदले प्रक्षेपणाय यदाक्रमणं विधीयते तस्य स्थितयोऽपि नानाविधा भवन्ति तासां नियमा अपि ज्ञातव्याः सन्ति । जय -पराजययोर्निर्णय आक्रमणमेवाश्रयति ।
(७)ब्लाक (Block) अवरोधः -आक्रमणानन्तरं कन्दुकस्य जालिकोपर्येव स्वक्षेत्रागमनं निरुध्य पुनर्विपक्षक्षेत्रे प्रक्षेपणं ‘ब्लाक’ नाम्ना सम्बोध्यते । इयमवरोधक्रिया स्वतन्त्रेणैकेन, द्वाभ्यां त्रिभिर्वा विधीयते तदा क्रमेण‘सिंगल, डबल, ट्रिबल ब्लाक’ इति निगद्यते । अत्रेदमवधेयमस्ति यदुच्छलनावसरे सर्वेषां स्थितः समाना भवेत् ।

इत्थमेव टाइम्-आउट (समयापेक्षा), बाल-आउट (कन्दुकस्य बाह्यवस्तु स्पर्शः) टच्डबाल् (क्रीडकस्य कन्दुकस्पर्शः), आल्टरनेशन (क्रीडक-परिवर्तनम्), रोटेशन (क्रीडारम्भकदलस्य क्रीडकैरेव क्रमेण कन्दुकक्षेपारम्भणम्), सर्विस-फाल्ट (यत्र जालिका-पार्श्वरेखादीनां कन्दुकेन स्पर्शोऽथवा जालिकाया अधस्तात् तस्य गमनं त्रिटिरुपेण मन्यते) डैड्बाल (क्रीडावरोधेऽथ चैकाङ्कप्राप्त्यनन्तरं कन्दुकस्येयं संज्ञा भवति । ) प्रभृतयः शब्दा अपि परिचेयाः सन्ति ।

इदं क्रीडनमति प्रसिद्धिबलाद् भूयो भूयो निरीक्षणपरीक्षणाभ्यां च बहुभिर्नियमैर्ग्रथितं विद्यते । क्रीडार्थिना क्रीडासु स्वयमुपस्थाय क्रीडित्वा च नियमानां वैविध्यं ज्ञातव्यं साफल्यं च प्राप्तव्यम् ।

करकन्दुकखेलनं पुरा, क्रियते स्मात्र यथोप्सितं मुदा ।
पुनरेव नियम्य तत्क्रिया, विनियुक्ताः स्पृहणीयतां गताः ॥१॥
दलद्वये क्रीडनतत्पराणां, षटकद्वयं क्रीडति संविभज्य ।
कराभिघातैरथ कन्दुकस्य, क्षेपान्मिथो रञ्जयतीह चित्तम् ॥२॥

अपातकन्दुक अभिनवक्रीडातरंगिणी

"https://sa.wikipedia.org/w/index.php?title=वालीबाल्-क्रीडा&oldid=402264" इत्यस्माद् प्रतिप्राप्तम्