विकिपीडिया:प्रमुखशब्दरूपाणि

अथात्र नूतनसदस्यानां साहाय्यार्थं प्रमुखानि शब्दरूपाणि दीयन्ते।

अकारान्तपुल्लिङ्गे संपादित करें

रामशब्दस्य रूपाणि
रामशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा रामः रामौ रामाः
द्वितीया रामम् रामौ रामान्
तृतीया रामेण रामाभ्याम् रामैः
चतुर्थी रामाय रामाभ्याम् रामेभ्यः
पञ्चमी रामात् रामाभ्याम् रामेभ्यः
षष्ठी रामस्य रामयोः रामाणाम्
सप्तमी रामे रामयोः रामेषु
सम्बोधनम् हे राम हे रामौ हे रामाः


आकारान्तस्त्रीलिङ्गे संपादित करें

बालिकाशब्दस्य रूपाणि
बालिकाशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा बालिका बालिके बालिकाः
द्वितीया बालिकाम् बालिके बालिकाः
तृतीया बालिकया बालिकाभ्याम् बालिकाभिः
चतुर्थी बालिकायै बालिकाभ्याम् बालिकाभ्यः
पञ्चमी बालिकायाः बालिकाभ्याम् बालिकाभ्यः
षष्ठी बालिकायाः बालिकयोः बालिकानाम्
सप्तमी बालिकायाम् बालिकयोः बालिकासु
सम्बोधनम् हे बालिके हे बालिके हे बालिकाः

अकारान्तनपुंसकलिङ्गे संपादित करें

फलशब्दस्य रूपाणि
फलशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा फलम् फले फलानि
द्वितीया फलम् फले फलानि
तृतीया फलेन फलाभ्याम् फलैः
चतुर्थी फलाय फलाभ्याम् फलेभ्यः
पञ्चमी फलात् फलाभ्याम् फलेभ्यः
षष्ठी फलस्य फलयोः फलानाम्
सप्तमी फले फलयोः फलेषु
सम्बोधनम् हे फल हे फले हे फलानि

इकारान्तपुल्लिङ्गे संपादित करें

मुनिशब्दस्य रूपाणि
मुनिशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा मुनिः मुनी मुनयः
द्वितीया मुनिम् मुनी मुनीन्
तृतीया मुनिना मुनिभ्याम् मुनिभिः
चतुर्थी मुनये मुनिभ्याम् मुनिभ्यः
पञ्चमी मुनेः मुनिभ्याम् मुनिभ्यः
षष्ठी मुनेः मुन्योः मुनीनाम्
सप्तमी मुनौ मुन्योः मुनिषु
सम्बोधनम् हे मुने हे मुनी हे मुनयः


इकारान्तस्त्रीलिङ्गे संपादित करें

मतिशब्दस्य रूपाणि
मतिशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा मतिः मती मतयः
द्वितीया मतिम् मती मतीः
तृतीया मत्या मतिभ्याम् मतिभिः
चतुर्थी मत्यै,मतये मतिभ्याम् मतिभ्यः
पञ्चमी मतेः,मत्याः मतिभ्याम् मतिभ्यः
षष्ठी मतेः,मत्याः मत्योः मतीनाम्
सप्तमी मतौ,मत्याम् मत्योः मतिषु
सम्बोधनम् हे मते हे मती हे मतयः


इकारान्तनपुंसकलिङ्गे संपादित करें

वारिशब्दस्य रूपाणि
वारिशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा वारि वारिणी वारीणि
द्वितीया वारि वारिणी वारीणि
तृतीया वारिणा वारिभ्याम् वारिभिः
चतुर्थी वारिणे वारिभ्याम् वारिभ्यः
पञ्चमी वारिणः वारिभ्याम् वारिभ्यः
षष्ठी वारिणः वारिणोः वारीणाम्
सप्तमी वारिणि वारिणोः वारिषु
सम्बोधनम् हे वारि, हे वारे हे वारिणी हे वारीणि

उकारान्तपुल्लिङ्गे संपादित करें

भानुशब्दस्य रूपाणि
भानुशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानुः भानू भानवः
द्वितीया भानुम् भानू भानून्
तृतीया भानुना भानुभ्याम् भानुभिः
चतुर्थी भानवे भानुभ्याम् भानुभ्यः
पञ्चमी भानोः भानुभ्याम् भानुभ्यः
षष्ठी भानोः भान्वोः भानूनाम्
सप्तमी भानौ भान्वोः भानुषु
सम्बोधनम् हे भानो हे भानू हे भानवः


उकारान्तस्त्रीलिङ्गे संपादित करें

धेनुशब्दस्य रूपाणि
धेनुशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा धेनुः धेनू धेनवः
द्वितीया धेनुम् धेनू धेनूः
तृतीया धेन्वा धेनुभ्याम् धेनुभिः
चतुर्थी धेन्वै, धेनवे धेनुभ्याम् धेनुभ्यः
पञ्चमी धेन्वाः, धेनोः धेनुभ्याम् धेनुभ्यः
षष्ठी धेन्वाः, धेनोः धेन्वोः धेनूनाम्
सप्तमी धेन्वाम्, धेनौ धेन्वोः धेनुषु
सम्बोधनम् हे धेनो हे धेनू हे धेनवः


उकारान्तनपुंसकलिङ्गे संपादित करें

मधुशब्दस्य रूपाणि
मधुशब्दस्य रूपाणि एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा मधु मधुनी मधूनि
द्वितीया मधु मधुनी मधूनि
तृतीया मधुना मधुभ्याम् मधुभिः
चतुर्थी मधुने मधुभ्याम् मधुभ्यः
पञ्चमी मधुनः मधुभ्याम् मधुभ्यः
षष्ठी मधुनः मधुनोः मधूनाम्
सप्तमी मधुनि मधुनोः मधुषु
सम्बोधनम् हे मधो, हे मधु हे मधुनी हे मधूनि