कृष्णशास्त्रीमहोदयः

संस्कृत कन्नडसाहित्यक्षेत्रयोः साहित्याकाशे विंशतिशतमाने ध्रुवतारा इव विराजते प्रो॥ ए आर् कृष्णशास्त्रीमहाभागः । संस्कृत कन्नडभाषयोः तस्य योगदानं तु अनुपमं विद्यते। सः कन्नडभाषायां 'वचनभारतम्', 'कथामृतम्'इत्यादि कृतिभिः सुपरिचितः। अस्य जीवनचरितं विदित्वा, वयमपि तत्पथमनुगन्तुं प्रेरणां स्वीकुर्मः।

बाल्यम्- पारम्परिकसंस्कृताध्ययनशीले सत्सम्प्रदायबध्दे कुले श्री अम्बले रामकृष्ण्णशास्त्री- श्रीमति शङ्करम्मा दम्पत्योः जिष्ठपुत्रत्वेन नवत्युत्तर अष्टादशशततमे वर्षे, आगस्ट् मासे, द्वादशे दिने (क्रि श १२-८-१८९०) जातः। श्री कृष्णशास्त्रिणः संस्कृताभ्यासः बाल्यादेव तत्पितुः सकाशे एव आरभत। सः बाल्ये पित्रा सह पाठशालां गच्छति स्म। संस्कृतश्लोकाः, अमरकोशः, पाणिनेः व्याकरणसूत्राणि निरर्गलतया तस्य मुखान्निस्सरन्ति स्म। सः मेसूरु नगरे रायल् स्कूल्, वेस्लियन् मिषन् हेस्कूल्, महाराजकालेज् विद्यालयेषु च अध्ययनम् अकरोत्। महाराजमहाविद्यालये प्रो। एम् हिरियण्णः, प्रो। बि एम् श्री, वरदाचार्यप्रभृतीनां प्रकाण्डपण्डितानां शिष्यत्वमलभत। शास्त्रिणां जीवने एषां विदुषां कर्तव्यपरता, श्रद्धा, चिन्तनपद्धतिः च आदशप्रायाः अभवन्।

संस्कृतभाषाप्रेम- संस्कृनतभाषायां विद्यमानं तस्य प्रेम एवमभिव्यक्तम्- "संस्कृतं, तत्र प्रतिपादितानि शास्त्राणि च अस्माकं पूर्वजेभ्यः अस्मत्कृते दत्ता सम्पदस्ति। अस्माभिः कदापि एतत् न नश्येत्। इदानीं सर्वत्र सर्वार्थं पाश्चात्यदेशेभ्यः नः भिक्षाटना आरब्धा। यदि वयं संस्कृतार्थमपि तत्र गच्छामश्चेत् देशस्य अधः पतनं सुनिश्चितम्। संस्कृताध्ययनं न्यूनं भवति चेत् शिशोः मातृस्तन्यात् दूरनयनमिव। भाषासाहित्याविद्यार्थिभिः बहुभाषाप्रवेशः अत्यवश्यः। तत्रापि स्ंस्कृतभाषा अध्येतव्या एव। अत्र अधिकाध्ययनं प्रशस्यते" इति तस्य स्पष्टोक्तिः। सः स्वगुरून् अनुसृत्य आदर्शा अध्यापको अभवत्। 'सः सर्वदा पाठस्य सिध्दतां सम्यक् कृत्वेव कक्ष्यां प्रविशति स्म। तस्य बोधनाक्रमः विद्यार्थिनः आकर्षितः स्म' इति डि वि जि महोदयः तं प्रशंसति।

संस्कृतकन्नडभाषाकृते योगदानम्- तस्य साहित्यसेवा अपि अन्यादृशी। 'प्रबुद्धकर्णाटकः' इति पत्रिक आरब्धा। कन्नडसाहित्यापरिषदः पत्रिकायाः सम्पदकत्वम ऊढमनेन। अस्य स्वतन्त्राः कृतयस्तु 'श्रीरामकृष्णपरमहंसचरितम्', 'भासकविः', 'संस्कृतनाटकम्', 'श्रीपतिकथाः', 'भाषणानि लेखनानि', 'कवनं' च, अप्रकटिता कृतिः 'रामप्प',इति। एषु पुस्तकेषु स्वतन्त्रचिन्तने विशेषतया दत्तमवधानमिति गमनार्हो अयं विषयः।