विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/कल्पना चावला

कल्पना चावला (17 मार्च 1962-1 फेब्रुयारि 2003), भारतीयवंशोद्भूतः नागरिकः, अपि च अन्तरिक्षगोलकविशेषज्ञः। अपि च अन्तरिक्षं गतवती सा एव प्रथमा महिला। सा कोलम्वियान्तरिक्षयानविपदे ये सप्तजनाः पञ्चगत्वं गतवन्तः तेषु एका भवति कल्पना। भारतीयकन्या कल्पनाचावलाकरनालः भारतवर्षस्य हरियाणाप्रदेशे हिन्दुपरिवारे अजायत् 17 मर्च 1962 ख्रीष्टाब्दे। तस्याः पिता श्रीबनारसीलालचावला अपि च माता संजयोती। तस्याः परिवारे चतुर्षु भगिनीभातृषु कनिष्ठा आसीत्। तां सर्वे स्निह्य मोटु इति कथयन्ति। कल्पनायाः प्रारम्भिकपाठः टैगोर बाल निकेतन मध्ये जातः। कल्पना यदा अष्टमे कक्षायां आसीत् तदारभ्य एव तन्त्रांशविशेषज्ञः भवितुम् इच्छा आसीत्। तस्याः माता पुत्र्याः इच्छां ज्ञातवती अपि च सफलताय साहाय्यं कृतवती। तस्य पिता तं चिकित्सकः अथवा शिक्षिका भावयितुं इच्छति। परन्तु कल्पना अन्तरीक्षे आवाल्यात् एव भ्रमितुं स्वप्नं पश्यति। कल्पनायाः सर्वाधिकमहत्वपूर्णगुणः भवति एकाग्रता .......। कल्पनायाः कार्ये आलस्यं नासीत् न वा असफलतायां वेदना। तस्याः उड्डयने इच्छा जहाँगीररतनजीदादभाइतः प्रेरिता, स एकः अग्रणीवायुयानचालकः अपि च शिल्पविदासीत्।


कप्लाना चावला तस्याः प्रारम्भिकशिक्षां टैगोरसाधारणविद्यालय( टैगोर पब्लिक स्कुल) करनालतः प्राप्तवती। परं वैमानिकाभियान्त्रिकीं शिक्षां पंजाब-इञ्जिनियरिंगमहाविद्यालयतः,चंडीगढं,भारतम् 1982 ख्रीष्टाब्दे स्नातकः इति उपाधिमलभत्। ततः संयुक्तराज्यामेरिकां 1982 ख्रीष्टाब्दे गतवती परं 1984 मध्ये वैमानिकाभियान्त्रिकीविज्ञाननिष्णाता इति उपाधिं टेक्सासविश्वविद्यालयतः ओलिंगटनतः प्राप्तवती। कल्पना-चावला 1986 मध्ये अन्ये विज्ञाननिष्णातोपाधिना भूषिता अपि च 1988 ख्रीष्टाब्दे कोलोराडोविश्वविद्यालयः, वोल्डारतः वैमानिकाभियंत्रिकीविद्यायां वाचस्पपि इति उपाधि लब्धा। कल्पना विमानयानग्लाइडरव्यावसिकविमानयानं चालयितुं प्रमानपत्रं प्राप्तवती। अपि च एकयान्त्रिकं वा बहुयान्त्रिकं वा वायुयानं चालयितुमपि प्रमाणपत्रं तस्याः आसीत्। आदौ सा एका सुप्रसिद्धा नासावैज्ञानिका तदन्तरं अन्तरिक्षयात्री अभवत्।

कल्पना 1994 मध्ये मर्च मासि अन्तरिक्षयात्रीरुपे योगदानं कृतवती अपि च 1998 मध्ये प्रथमोड्डयने चिता आसीत्। तस्याः प्रथमान्तरिक्षलक्ष्यं 19 ननम्बर 1997 मध्ये षष्ठः अन्तरिक्षयात्रिसमन्वितान्तरिक्षयान- कोलंबियामध्ये एसटीएस -83 प्रारब्धम्। कल्पना अन्तरीक्षयात्रीरुपेण सा एव प्रथमा भारतीयमहिला अपि च भारतीयरुपेण द्वितीया। राकेशरर्मा 1984 मध्ये सोविय-अन्तरिक्षयानेन अन्तरिक्षं गतवान्। कल्पना तस्याः प्रथमलक्षे 1.04 कोटि कि.मि मार्गमतिक्रान्तवती अपि च 242 वारं परिक्रमनं कृतवान् अपि च अन्तरिक्षे 360 होराकालं यापितवती। एसटीएस -83 यानेन स्पार्टन-उपग्रहे कार्यं कर्तुमप्यादिष्टवती आसीत्। तत् असमीचीनं उपग्रहं स्वीकर्तुं विंस्टन स्काट तथा तकाओ दोई इत्यद्वयेन यानेन अगच्छत्। पञ्चमासानन्तरं नासा अस्मिन् विषये कल्पनां पूर्णतया दोषमुक्तरूपेण उद्घोषितवान्।

एसटीएस-83 यानस्य उ़ड्डयनं समापनानन्तरं कल्पना अन्तरिक्षयात्रीकार्यालये तन्त्रांशविदरूपेण कार्यं कृतवती। तस्याः मित्राणि तत्कार्यकरणाय पुरष्कारप्रदानेन सम्मानितं कृतवान्। 1986 ख्रीष्टाब्दे उड्डयनप्रशिक्षकेन तथा खयानलेखकेन जीन पियरे हैरीसनेन इत्यनेन विवाहं कृतवती च 1990 मध्ये संयुक्तराज्यामेरिका इत्यस्य नागरिकत्वं लब्धवान्।