विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/पान्डुरंग वामनकाणे महोदयः
पाण्डुरङ्गः वामनकाणे महोदया: ( जन्म-मई मासस्य ७ दिनाङ्के दोपाल्याम्, मृत्यु: - रत्नागिरौ १९७२ मध्ये) संस्कृतस्य एकः महान्तः विद्वांसः एवं प्राच्यविद्याविशारदः आसन् | भारतसर्वकारेण १९६३ तमे वर्षे भारतरत्नैः एतेषां सम्माननमक्रियत | एतेन काणे महोदयेन स्वस्य विद्यार्थीजीवने संस्कृते नैपुण्यतायै एवं विशेषतायै च सप्तस्वर्णपदकानि अप्राप्नोत् एवं संस्कृते एम्.एस् परीक्षायामपि उतीर्णतां अनेनमहोदयेन प्राप्तम् ।
तत पश्चात् मुम्वईविश्वविद्यालयतः एम्.एल.एम् इत्युपाधिं प्राप्तवन्तः | एषः विश्वविद्यालयः अग्रे गत्वा भवन्तं साहित्ये विद्यावाचस्पति (डी.लिट्) इत्युपाधिना विभूषितम् | भारतसर्वकारेणापि भवन्तं महामहोपाध्याय इत्युपाधिना विभूषितम् | उत्तररामचरितम् (१९१३ ई ),कादम्बरी (२ भागौ १९११ तथा १९१८ ), हर्षचरितम् (२ भागौ १९१८ तथा १९२९ ), हिन्दूनाम् प्रथापराम्परा: तथा आधुनिक विधयः (३ भागाः,१९४४ ), संस्कृतकाव्यशास्त्रेतिहास: (१९५९ ) तथा धर्मशास्त्रेतिहास: (४ भागाः १९३०-१९५३) इत्यादिनाम् आङ्लानुवाद कृतय: भवतां वर्तते |
डॉ.काणेमहोदयः स्वस्य दीर्घजीवनकाले समय समयेषु उच्चन्यायालये,मुम्बईनगरे अधिवक्ता,एल्फिस्टन् महाविद्यालये, मुम्बईनगरे संस्कृतविभागस्य प्राचार्यः, मुम्बई विश्वविद्यालयस्य उपकुलपतिः,रॉयल एसिअटिक सोसाइटी ( मुम्बई संस्थायां ) फेलो (कर्मसारथीः) तथा उपाध्यक्ष:, लंडन स्कूल ऑफ़ ओरिएण्टल एवं अफ्रीकान् स्वीडेन् इत्यस्य कर्मसाराथि: राष्ट्रीयशोधप्राध्यापकः तथा १९४९ तः १९५३ पर्यन्तं राज्यसभाया: जनमनोनीतः सदस्यः आसन् | एतेन महोदयेन इस्तम्बूल् तथा कैम्ब्रिज् मध्ये आयोजितप्रच्यविज्ञ सम्मेलने भारतदेशस्य पक्षतः प्रतिनिधित्वमकरोत् | भंडारकरप्राच्यनुसन्धान संस्था पूनया अपि भवन्तः बहु समय पर्यन्तं सम्बंधिता: आसन् |
साहित्य अकादमीद्वारा सन् १९५६ तमे वर्षे धर्मशास्त्रस्योपरि पञ्चसहस्ररूप्यकै: साहित्यअकादमी पुरस्कारेण एतैः सम्मानितम् एवं १९६३ ई मध्ये भारतरत्नो- पाधिना भारत सर्वकारः एनम् अलंकृतवान् | १९७२ तमे वर्षे अप्रैल मासस्य १८ दिनाङ्के काणे महोदयस्य देहान्तः अभवत् | ९२ वर्षंयावत् एतेन भारतस्य सेवा कृता |
धर्मशास्त्रेतिहास: - धर्माशास्त्रेतिहास: भारतरत्नभाज: पाण्डुरङ्ग वामनकाणेन रचितः हिन्दूधर्मशास्त्रसम्बंधितः एकः इतिहासग्रन्थः वर्तते | एतदर्थमेव १९५६ मध्ये साहित्यअकादमी पुरस्कारेण एतेषां सम्माननमभवत् | एषः पञ्चषु खण्डेषु बिभाजितः एकः वृहद् ग्रन्थः वर्तते | साहित्यअकादमी पुरस्कारप्राप्तिपर्यन्तं एतस्य केवलं भागचतुष्टयमेव प्रकाशितमासीत् | १९६३ मध्ये भारत सर्वकारेण भारतरत्न पुरस्कारं महोदयेन प्राप्तमनन्तरमेव अन्तिमभाग: (५ खंडः ) १९६४ मध्ये समापितः | एषः महाग्रन्थः मूलतःपन्चषु खण्डेषु विभाजितः बर्तते |