विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/विश्वभारती विश्वविद्यालयः

विश्वभारतीविश्वविद्यालयस्य संस्थापनं रवीन्द्रनाथ ठाकुरेण एकविंशत्युत्तरनवदशे शताब्दे(१९२१) बङ्गदेशस्य शान्तिनिकेतननामके नगरे अकारि । भारतस्य केन्द्रीयविेश्वविद्यालयेष्वयमेकोऽन्यतमः । अनेकानि स्नातकानि परास्नातकानि च संस्थानान्यत्र अन्तर्भूतानि । शान्तिनिकेतनस्य संस्थापकरवीन्द्रनाथठाकुर एकषष्ठ्याधिकाष्टादशे(१८६१) शताब्दे कोलकातायामेकस्मिन्नाढ्ये कुले जन्म लेभे । एतस्य पितृपादः महर्षिः देवेन्द्रनाथठाकुरः १८६३तमे वर्षे स्वसाधनाय कोलकाताया अन्तिकात् बोलपुरनामके ग्रामे एक आश्रमः समस्थापयत्, यस्य नाम "शान्तिनिकेतनम्" इत्यदात् ।