विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/सत्यजित् रायः

सत्यजित् रायः एकः भारतीयचलच्चित्रनिर्माता आसीत्। सः विंशशताब्दस्य अन्यतमो चलच्चित्रनिर्माता आसात्। कोलकातानगरे साहित्यशिल्पयोः जगति एकस्मिन् सुख्यातकुले जन्म अलभत। एतस्य पूर्वजानां निवासो वङ्गलादेशस्य किशोरगञ्जजिलाया मसूयानामके ग्रामे आसीत्। सः कोलकातायाः प्रेसिडैंसिमहाविद्यालये तथा

शान्तिनिकेतनस्य रविन्दंरनाथठाकुरेण संस्थापिते विश्वभारतीविश्वविद्यालये अध्यायनमकरोत् । सत्यजित: कर्मजिवनस्य वाणिज्यचित्रकारत्वेन आरम्भे सत्येपि प्रथमे कोलकातायां कारसि चलचित्रनिर्मात्राजंन् रननोयारजनेन सह मेलनम् । अनन्तरं लण्डननगरे भ्रमणावसरे इतालीय नव्यवास्तवतावादी विषये लाहरा दि विचिकिलेन्ते नामकस्य चलचित्रस्य दर्शनेन स: उद्बोधित: आसीत् । चलचित्रनिर्माणे सत्यजित् प्रतिभान् आसीत् । तस्य कार्यमपि भूरि आसीत् । स: सप्तत्रिशतं दीर्धचलच्चित्राणि, प्रामाण्यचित्राणि लघुचित्राणि च निरमात्। एषः प्रथमं "पथः पाञ्चाली" इति चलच्चित्रं निर्माय एकादश अन्ताराष्ट्रियान् पुरस्कारान् प्राप्नोत्। येष्वन्यतमः पुरस्कारः आसीत् "कान" इति चलच्चित्रकार्यक्रमे "श्रेष्ठमानवतथ्यचित्रम्" इति। "पथः पाञ्चाली","अपराजितम्","अपोः संसारः" च एतच्चित्रत्रयं सम्भूय "अपुत्रयी" इत्युच्यते।