विकिपीडिया:स्वान्तः सुखाय

प्रप्रथमं ते भवन्तम् अवगणिष्यन्ति, ततः ते भवति हसिष्यन्ति, ततः ते भवता सह योत्स्यन्ति, ततः भवान् जेष्यति । --- मोहनदास करमचन्द गान्धी

विकिपीडिया-जाले लेखनं कदा कदा कठिनकार्यम् अपि भवितुम् अर्हति । प्रतिदिनम् अनेकसमस्याः समुद्भवन्ति, तासां निवारणम् अपि भविष्यन्ति । कदा कदा लेखकेषु केनचित् कारणेन मतभेदाः समुद्भवन्ति । अतः अस्माकम् इच्छा अस्ति यत्, भवन्तः सकुशलतया विकि-जाले सम्पादनं कुर्वन्तु । अन्येषां विचारान् ध्यानपूर्वकं शृण्वन्तु ।

विकिपीडिया-जालस्य उद्देशः स्वतन्त्रविश्वज्ञानकोशस्य निर्माणस्य अस्ति । अत्र भवन्तः केवलं स्वान्तः सुखाय कार्यं कुर्वन्ति इति दृढतया स्वमनसि निधाय कार्यं कुर्वन्तु । विकिपीडिया-कार्यं भारत्वेन उत हठाग्रहित्वेन मा कुर्वन्तु । यतो हि ज्ञानसागरे निमज्जनापेक्षया तरणं वरिष्ठं भवति ।

अवधानं ददातु :

  1. योग्यपद्धत्या संवादं करोतु ।
  2. यदि भवान् अधिकं कष्टम् अनुभवति, तर्हि प्रबन्धकान् सूचयतु । आवश्यकतायां सत्यां भवान् विकि-कार्येभ्यः किञ्चित् कालं यावत् अवकाशम् अपि स्वीकर्तुं शक्नोति ।
  3. एतत् केवलं जालस्थानमेव अस्ति, अतः आरामेण कार्यं करोतु ।