विकिपीडिया:होट्कैट्-उपकरणम्
(विकिपीडिया:HOTCAT इत्यस्मात् पुनर्निर्दिष्टम्)
होट्कैट् (आङ्ग्ल: HotCat) इत्येतत् कश्चित् जावालिपिलिखिततन्त्रांशः अस्ति। अनेन विकिपीडियाप्रयोक्तारः सरलतया पृष्ठेषु वर्गान् योजयितुं, निष्कासयितुम् अथवा परिवर्तयितुं शक्नुवन्ति। अस्मिन् एका उपक्षेपसूची आगच्छति, येन विद्यमानानां वर्गाणां ज्ञानं भवति ते च लेखनसमये स्वतःपूर्तिं गच्छन्ति।
कथं प्रयोजनीयम्
सम्पादयतुयदाऽपि पृष्ठं अवारोप्यते, होट्कैट्-उपकरणं तु वर्गपट्टिकाम् अन्विष्यति। यदि दृश्याः वर्गाः विद्यन्ते, इदमुपकरणं तत्र तेषां निष्कासनाय, परिवर्तनाय, योजनाय च अनुबन्धान् योजयति:
नूतनाश्चानुबन्धाः एवं सन्ति :
- "(-)" वर्गस्य पश्चात् : यदा क्लिक्क्रियते वर्गस्तु स्वतः निष्कास्यते।
- "(±)" वर्गस्य पश्चात्: यदा क्लिक्क्रियते निवेशपिटकं एतं वर्गं परिवर्तयतु इत्युद्घाट्यते।
- "(+)" वर्गसूच्याः पश्चात्: यदा क्लिक्क्रियते निवेशपिटकं वर्गः योज्यताम् इत्युद्घाट्यते।
- "(++)" अग्रे : यदा क्लिक्क्रियते, बहुपरिवर्तनीयावस्थां गच्छति, येन एकाधिकान् वर्गान् परिवर्तयितुं शक्यते।