विकिपीडिया:Username policy
भारतीयसंविधानं समशैक्षिकावसराश्च (Indian Constitution and Equal Educational Oppertunity)
भारतीयसंविधाने शिक्षानीतेर्निर्धारकप्रमुखाः धाराः बहवः उपनिबद्धाश्च वर्तन्ते। ताः अधोनिर्दिष्टाः वर्तन्ते -
1. अनुच्छेद: धारा वा 28 - राज्यसर्वकारेण पूर्णरूपेण पोषितासु न कापि संस्थासु धार्मिकशिक्षा भविष्यति। किन्तु तादृशवैयक्तिकसंस्थासु धार्मिकशिक्षा भवितुमर्हति याः सर्वकारेण अग्डीकृताः, या सर्वकारार्थिकसहायतां प्राप्नुवन्ति, याश्च सर्वकारस्य प्रबन्धने विद्यमानाः तदितरार्थिकस्त्रोतोभिः संस्थापिताः प्रचाल्यमानाश्च, यासां, निर्मातृभिः दातृभिर्वा धार्मिकशिक्षा नियमेन स्यादिति अभिसन्धिः प्रकटितः।
2. अनुच्छेद:29 (1) - भारतस्य कस्मिन्नपि प्रान्ते, क्षेत्रे यत्र कुत्रापि वास्तव्याः जनाः स्वभाषालिपेः संस्कृतेश्च संरक्षणायाधिकारिणो भविष्यन्ति। अत्र देवनागरीलिप्यां हिन्दीभाषायामधिकारत्वनिर्देषकः 343 इत्याख्यानुच्छेदस्य प्रभावो न भविष्यति।
अनुच्छेद:29 (2) - “राज्यद्वारा संचालिते साहारय्यभूते वा कस्मिन्नपि विद्यालये कोऽपि च्छात्रः जातिधर्मलिङग्भाषाभेदेन प्रवेषात् वश्चितो न भविष्य़ति”।
3. अनुच्छेदः 30 - “धर्मेण भाषया वा निर्धारिताल्पसंख्यकाः स्वरूच्यनुकूलं शिक्षणसंस्थाः स्थापयितुमधिकारिणो भविष्यन्ति।”
उक्तशिक्षासंस्थानां कृते राज्यसर्वकारोऽपि धर्मभाषादिभेदेन साहाय्यं कर्तु भेदो न करिष्यति।
1- राज्यस्य नीतिर्दिशकतत्वानि- 1. अनुच्छेद:41 - राज्येस्वसामथ्र्यानुगुणं यथाशक्ति कार्य प्राप्तुं, शिक्षामध्येतुं, वार्धक्ये, रूग्णतायां वा अग्डीहीनत्व स्थितौ वान्यायार्हतानामभावे सार्वजनिकसाहाय्यमाचरितुं कार्यसाधकोपबन्धानां प्राप्तिं कारयिष्यति। 2. अनुच्छेदः45 - “संविधानस्य क्रियान्वयात् दशवर्षाभ्यन्तरे सर्वेषां बालकानाम् आचतुर्दशवर्षम् अनिवार्यनिश्शुल्कशिक्षाप्रदानाय राष्टंª यत्नशीलं भवति”। 3. अनुच्छेदः46 - राज्यं वर्णचतुष्टये निम्नतरवर्णानां साम्प्रतम् “अनुसूचित-जाति, अनुसूचितजनजाति” इत्याख्येनाभिधीयमानानां वर्गाणां शैक्षिक-आर्थिक-सामाजिक-राजनैतिकसंरक्षणाय तेषामुत्तरोत्तरमुन्नतये च प्रयासं करिष्यति।
2- अनुसूचितजातीनाम् अनुसूचितजनजातीनां बालानां कृते च विशेषोपबन्धः सामाजिकशैक्षणिकरूपेणाविकसितानां, निम्नवर्गीयाणाश्ञ कृते संविधानस्य विशेषोपबन्धः वर्तते। संविधाननियमेषु 16(1), 16(2) तमा धारा स्पष्टयति यत्-राज्ये नियुक्तयर्थ (प्रतिक्षेत्रे) विशेषरूपेण अविकसितानां कृते स्थानं प्रकल्पयेत् इति।
अनुसूचितजातीनाम् अनुसूचितजनजातीना शिक्षायाः विकासस्योपरि महदवधानं दद्यात् सर्वकारः, येन ते सामान्यजनैः सह (अननुसूचितैः) समानतां भजेरन्। इयं च समानता सर्वावस्थासु, सर्वस्तरेषु, सर्वक्षेत्रेषु च - ग्रामीणः, ग्रामीणा, नागरिकः नागरिका इति चतुष्र्वपि आयामेषु स्यात् इति राष्ट्रियशिक्षानीतेः (1986) प्रस्तावः।
3- अनुसूचितजातीनाम् अनुसूचितजनजातीनां कृते शैक्षिकावसरः पूर्वोक्तं सर्व विज्ञाय सर्वकारेण एतेषां कृते शैक्षिकावसरः प्रकल्पितः। तथा हिः (अ)निश्शुल्क शिक्षाव्यवस्था (आ) छात्रावासव्यवस्था (इ) उदारच्छात्रवृत्तियोजना (ई) उद्योगावसरः (उ) नैदानिककक्ष्यायाः आयोजनम् (ऊ) आर्थिकसाहाय्र्यम् इत्यादि।
4- भिन्नरूपेण समर्थानां बालानां कृते विशेषोपबन्धः भारतसर्वकारस्य, 1992 तमे भारतस्य पुनः प्रतिष्ठापनपरिषद् अधिनियमानुसारं भिन्नरूपेण समर्थानां बालकानां कृते विशेषोपबन्धव्यवस्था परिकल्पिता अस्ति।
इतरसामाजिकैस्सह सामान्यीकरणमेव शारीरिकमानसिकक्षमाणां शिक्षाया उद्देश्यं भवति। शिक्षाव्यवस्था तथा स्यात् येन ते सविश्वासं सधैर्य च जीवनं यापयेयुः। एतदर्थ प्रतिमण्डलं भिन्नरूपेण समर्थानां कृते आवास - विशिष्ट-विद्यालयाः स्युः तथा च व्यावसायिकप्रशिक्षणव्यवस्था स्यादिति राष्ट्रियशिक्षानीतेः (1986) प्रस्तावः।
5- भिन्नरूपेण समर्थानां बालानां कृते शैक्षिकावसरः भिन्नरूपेण समर्थानां बालकानां कृते समशैक्षिकावसरविषये सर्वकारस्य बहुविधप्रयासाः वर्तन्ते । तद्यथा - 1. निःशुल्कशिक्षाव्यवस्था 2. छात्रावासव्यवस्था 3. विशिष्टविद्यालयव्यवस्था 4. उदारच्छात्रवृत्तियोजना 5. विशेष - अध्यापकस्य नियोजनम् 6. परिवहनस्य व्यवस्था 7. उद्योगावसरः 8. व्यावसायिकप्रशिक्षण व्यवस्था 9. उपकरणां व्यवस्था 10. नैदानिककक्षयायाः आयोजनम्
6- महिलानां कृते विशेषोपबन्धः समाजस्य विकासे न केवलं पुरूषाणामेव योगदानं भवति, प्रत्युत स्त्रीणामपि योगदानमत्यन्तं महत्वपूर्ण बोभूयते। समाजे राष्टेª च स्त्रीणामुपेक्षा न कल्याणप्रदा भवतीति सर्वेः विदितमेव।
7- महिलानां कृते शैक्षिकावसरः महिलानां कृते समशैक्षिकावसरविषये सर्वकारस्य बहुविधप्रयासाः वर्तन्ते। तद्यथा - 1. निश्शुल्कशिक्षाव्यवस्था 2. छात्रावासव्यवस्था 3. स्वतन्त्रनियमस्य व्यवस्था 4. पृथक् विद्यालयव्यवस्था 5. छात्रवृत्तिव्यवस्था 6. विशेषपाठ्यक्रमस्य व्यवस्था 7. उद्योगावसरः 8. महिलावर्गव्यवस्था
राष्ट्रियशिक्षानीत्या स्त्रीशिक्षायै बहुपरामर्शाः प्रदत्ताः। तत्र प्रमुखाः यथास्त्रीणां निरक्षरता, तन्निष्ठविघ्नान् च दूरीकर्तु समयबद्ध-लक्ष्यनिर्धारितकार्यक्रमैः यतेत। एतदर्थ प्राथमिकशिक्षायै प्राथम्यं दद्यात्। व्यावसायिकप्रविधिकौद्योगिकशिक्षासु स्त्रियः यथाः भागं गृह्णीयुः तथाविधः प्रयासः विधेयः। लैग्डिकसमानतानीति मवलम्ब्य व्यावसायिकौद्योगिक-पाठयक्रमयोः विभेदान् दूरीकृत्य अपारम्पर्यवृत्तिषु, वर्तमानावश्य़कप्रविधिष्वपि भागग्रहणाय स्त्रियः प्रोत्साहनीयाः इति।