--Shridhar V Hegde (चर्चा) १२:४८, २२ अप्रैल २०१५ (UTC)

वितुन्नः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Core eudicots
गणः Caryophyllales
कुलम् Amaranthaceae
वंशः Celosia
जातिः C. argentea
द्विपदनाम
Celosia argentea
Carl Linneaus
भारते तिरुनेल्वेलीप्रदेशे दृश्यमान वित्तुन्नपुष्पम्

सस्यविशेषोयम् । इदम् औषधीयसस्यं शाद्वलेषु, कृषिरहित रिक्तभूमिषु च वर्धते । रागिधान्यस्य क्षेत्रे कुतृणमिव वर्धते । एतत् सस्यं हरितकम् इव जनाः उपयुङ्क्ते । इदं १-३ पादपरिमितं वर्धते । काण्डे विरलतया शाखाः भवन्ति । सरलानि दीर्घानि पर्णानि पर्यायरन्येण योजितानि भवन्ति । दीर्घा पुष्पमञ्जरी काण्डस्य अग्रभागे पर्णानां कक्षे च भवन्ति । पुष्पाणि आदौ रक्तानि भवन्ति । यथा यथा पक्वानि भवन्ति । पुष्पाणि आदौ रक्तानि भवन्ति । यथा यथा पक्वानि भवन्ति अथा तथा श्वेततां प्राप्नुवन्ति । पुष्परक्षिकाः पुष्पसूच्यः श्वेताः कान्तियक्ताः इव भवन्ति फलेषु कृष्णानि कानियुतानि लघु वीजानि भवन्ति ।

उपयोगः सम्पादयतु

१. अस्य मूलं पिष्द्वा पाययन्ति चेत् (ಭಂಗಿ) गोन्होरिया रोगः शाम्यति
२. पर्णस्य रसस्य, कषायस्य चूर्णस्य वा सेवनेन पित्तकोषस्य वलं वर्धते ।
३. बीजानि पिष्ट्वा पिबन्ति चेत् अतिसारः शाम्यति ।
४. बीजानि चूर्णीकृत्य, पिष्ट्वा वा सेवते चेत् वीर्यवृद्धिः भवति ।
५. बीजानि घृष्ट्वा कृतस्थ लेपस्य अञ्जनवत् नेत्रे उपयुज्यते चेत् नेत्ररोगाः शाम्यन्ति ।
 
वितुन्नसस्यानि

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वितुन्नः&oldid=480954" इत्यस्माद् प्रतिप्राप्तम्