गृहस्थाश्रमं प्रविविक्षता विवाहसंस्कारः अनुष्ठीयते । अयं संस्कारः स्त्रीणामपि भवति । गृहस्थाश्रमपरिपालनाय 'गृहिण्या' अपेक्षा भवति । अतः स्त्रीपुरुषयोः सौन्दर्यं पौरुषं-नारीत्वं-चरित्रं कुलं चेति बाह्याभ्यन्तरदृष्ट्या उद्वाहः परिणयनं विवाहः इति वा अभिधीयते ।

इहामुत्र च नारीणां परमा हि गति पतिः
भर्तृमार्गानुसरणं स्त्रीणां हि परमं व्रतम् इति,
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते
तस्याः पुत्रं प्राप्य पुरुषः पूर्णोऽभवत् इति,

'पुत्रलाभेन पितॄणाम् ऋणाद् मुक्तिः' - इत्यादिभिः सुभाषितैः अस्य संस्कारस्य महत्त्वम् अवगम्यते ।
तत्र वरेण वध्वाः पाणेः ग्रहणेन तस्याः तदायत्तीभावो व्यज्यते । अश्मनि तस्याः पादारोपणेन अश्मनः इव तस्याः स्थैर्यापादनम् उद्दिष्टम् । श्रूयते हि अश्म इव त्वं स्थिरा भवेति । अपि च भर्त्रा सह तस्याः सप्तपदीक्रमणेन होमावशिष्टस्य हविषः सहभोजनेन च तयोः दृढतरसख्यानुरागौ उद्दिष्टौ । वैवाहिक्यां क्रियायां प्रधानदेवता अग्निः । वरः तत्र वधूं पाणौ गृहीत्वा ग्रिरग्निं परितः नयति । अतः एव विवाहः परिणयः इति उच्यते । वैवाहिकः अयम् अग्निः दम्पतिभ्यां यावज्जीवं रक्षणीयः । तस्मिन् अग्नौ मन्त्रोच्चारणपूर्वकं हवींषि प्रक्षिप्यन्ते इति इमानि सूत्रग्रन्थोपदिष्टानि वैवाहिकानि कर्माणी ।
मनुस्मृतेः काले विवाहस्य अष्टौ प्रकाराः प्रथिताः आसन् । तथा हि -

बाह्यो दैवस्थथैवार्षः प्राजापत्यस्तथाऽऽसुरः
गान्धर्वो राक्षसश्चैव पैशाचाश्चाष्टमोऽधम इति मनुस्मृतिः - ३-२१
अष्टावेव समासेन विवाहा धर्मतः स्मृताः इति महाभारतम्, आदि पर्व ७३-८

तेषु अष्टसु विवाहेषु ('ब्राह्म-दैव-आर्ष-प्राजापत्य-आसुर-गान्धर्व-राक्षस-पैशाच' इत्येतासु) वर्णक्रमानुसारेण ब्राह्मणः आद्यान् षट् विवाहान्, क्षत्रियवैश्यशूद्राः - आर्ष-गान्धर्व-आसुरश्चेति चतुरः धर्मविहितान् विवाहान् कर्तुम् अर्हन्ति ।

बाह्यसंपर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=विवाहसंस्कारः&oldid=395857" इत्यस्माद् प्रतिप्राप्तम्