सर्वानुक्रमणी ऋग्वेदस्य समस्तावश्यकविषयाणां ज्ञानाय कात्यायनस्य कृतिः। ग्रन्थोऽयं सूत्ररूपेण निबद्धोऽस्ति । प्रत्येकं सूत्रस्य आदिपदम्, अनन्तर-ऋचां संख्यां, सूक्तस्य ऋषेर्नाम, तस्य गोत्रं, सूक्तानां, तदनन्तर्गतमन्त्राणां च देवतायाः निर्देशं, मन्त्राणां छन्दसां क्रमबद्धोल्लेखं च कृतवान्। अनेन प्रकारेण ऋग्वेदस्य विषये आवश्यकसामग्रीसङ्कलनत्वेन ग्रन्थोऽयं विशेषरूपेणोपादेयोऽस्ति ।

माधवभट्टस्यापि एका ऋग्वेदानुक्रमणी अस्ति। ऋग्वेदानुक्रमण्याः खण्डद्वये स्वर-आख्यात-निपात-शब्द-ऋषि-छन्ददेवतादीनां, मन्त्रार्थ-विषयकस्य च अष्टानुक्रमणीनामेकत्र सङ्ग्रहोऽस्ति । ग्रन्थोऽयं स्वतन्त्रो न भूत्वा माधवभट्टस्य भाष्यान्तर्गतं तत्तद्विषयाणां प्रतिपादकानां श्लोकानां सङ्ग्रहोऽस्ति ।

विषयवस्तु सम्पादयतु

सर्वानुक्रमण्याः दशा एतद्भिन्ना एवास्ति । अस्मिन् बृहद्देवतायाः श्लोकात्मकानि उद्धरणान्यपि सूत्ररूपेण परिणतानि कृत्वा प्रदर्शितानि । सर्वानुक्रमणी ऋग्वेदीयदेवतायाः वर्णने बृहद्देवतामेव स्वकीयाऽधारं मन्यते, अतः शतान्युद्धरणान्यत्र समाविष्टानि सन्ति ।

कर्ता सम्पादयतु

सर्वानुक्रमणीग्रन्थस्य रचयिता कात्यायनमुनिः अस्ति। मुनिरयं शुक्लयजुवेदीयश्रौतसूत्रस्य कर्त्तुः भिन्नः न मन्यते। कात्यायनेन प्रणीतः 'शुक्लयजुर्वेदीया अनुक्रमणिका' अपि अस्यैव कात्यायनस्य रचना मन्यते। यतोऽस्य सम्पूर्णभूमिकाभागः सर्वानुक्रमण्याः भूमिकातः साम्यं स्थापयति । कात्यायनस्य अस्य ग्रन्थस्य पदेषु बहुविधं वैदिकवैशिष्ट्यं लभते। वैयाकरणवार्त्तिककारः कात्यायनाद् अयं भिन्नः मन्यते। सर्वानुक्रमणी पूर्वपाणिनियुगस्य रचनाऽस्ति इति मन्यते।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सर्वानुक्रमणी&oldid=427720" इत्यस्माद् प्रतिप्राप्तम्