"मनोविज्ञाने मूलप्रवृत्तिः" इत्यस्य संस्करणे भेदः

0
spelling
पङ्क्तिः ३४२:
नापि मनसोऽनेन निरङ्कुशविभाजनमापतति, येन प्राक्तनशक्तिवाद इव मनसो विविधपरस्परासहिष्णुविभागेषु विभक्तत्वापत्तिर्भवेत्। अस्ति हि मनसः संयोजनात्मिका शक्तिः, सङ्ग्राहिका शक्ति:, यस्या अस्तित्वमस्माभिर्मनसो विकासविवेचनावसरे द्वितीयाऽध्याये विवृतम्। तया सङ्ग्राहिकया शक्त्या विविधासु प्रतिक्रियासु तज्जनकप्रत्यक्षविचारसंवेगस्थायिभावादिषु सामञ्जस्यं स्थाप्यते। नहि तद्विरहित: प्राणी एकीभूतमद्वेतं व्यक्तित्वमपि धारयितुं क्षमते । यदि सर्वाः शक्तयः सन्नियुक्ताः स्युः, संयोजनशक्त्यधीना भवेयुस्तर्हि नास्त्यत्र काऽपि क्षतिः। मूलप्रवृत्तिस्वरूपं हि तौ स्वीकुरुत: । सन्ति हि ताः । तासां जन्मजातत्वमनायास- प्रवर्तितत्वमपि तावाचार्य्यावङ्गीकुरुतः। एवमेव मैकडुगलमहोदयोऽपि विविधमूलप्रवृत्तीनां मनसा संयोजनं स्वीकरोति, तासां परिवर्तनमपि शिक्षणाभ्यासादिनाऽनुमतमेव, नहि स मूलप्रवृत्ती: स्वतन्त्रेष्वितरेतरनिरपेक्षकक्षेषु विभक्ता मन्यते। अत इयं समालोचनाऽपि नोपपद्यते।
 
आधुनिकमनोविज्ञाने दृश्यते ह्येका प्रवृत्तिर्यत् केचन मनोवैज्ञानिका मनसो विविधशक्तीनां प्रत्याख्यानं कुर्वन्ति । ते शक्तिस्थाने व्यापारपदं प्रयुञ्जते। तथा हि ते कथयन्ति यन्नास्ति स्मृतिर्नाम काऽपि मनसः शक्तिः । अस्ति वै मनसो व्यापारः स्मरणमिति। एवमेव ते इच्छारूपशक्तिविशेषमपि निराकुर्वन्ति । त इच्छाऽनुभवनमेषण- मिच्छाकरणं वेति व्यापारतया व्यपदिशन्ति । समासत इदं वक्तुं शक्यते यत्ते मनसः शक्तीर्नानुमन्यन्ते। तत्स्थाने मनसः क्रिया व्यापारा वा तैरभिमताः। इयं समालोचनापि स्वारस्यविरहितेति वयं मन्यामहे । नहि कोऽपि व्यापारः स्वजनकशक्तिमन्तराविर्भवति । तदुक्तं हि कुमारिलभट्टाचार्यै: श्लोकवार्त्तिके - " न ह्यसती शक्तिः कर्तुमन्येन शक्यते " इति। अपि चास्त्ययं सत्कार्यवादस्य मूलभूतः सिद्धान्तः। तदुक्तं वै सत्कार्यवादप्रतिपादन- वेलायां सांख्याचार्येण [[ईश्वरकृष्णः|ईश्वरकृष्णेन]] [[सांख्यकारिका]]<nowiki/>याम्-
 
असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
पङ्क्तिः ४९३:
'''इ'''दं मतं स्पेन्सरशिलरमहोदयाभ्यामुद्भावितम् । तन्मते जीवनकार्योपयोगिशक्तेर्व्यतिरिक्तोऽपि कश्चन शक्त्यतिरेकः प्राणिषु विद्यते । अवशिष्टायाः शक्तेरुपयोगस्तु केनापि प्रकारेण करणीय एव । अतः क्रीडासु तस्या अवशिष्टशक्त्यंशस्योपयोगः प्राणिभिः क्रियते । यथा हि खलु लोके दृश्यते यद्रेलकटाख्यस्य वाष्पयानस्येजिनो वाष्पाधिक्यं सुरक्षानलिकया 'सेफ्टीवाल्व' इति यवनभाषाप्रथितया विमुञ्चति, तेनैव प्रकारेण बालका अपि शक्त्यतिरेकं खेलादिरूपेण विमुञ्चन्ति, बहिः प्रदर्शयन्तीति तेषां तात्पर्यम्। इदं मतमंशतः सत्यम्। सरलतमानां विनोदमात्रपर्यवसायिनीनां खेलानां व्याख्यानं नह्यनेन सम्भवति । बालकाश्च क्रीडितुमिच्छन्ति यावन्न ते पूर्णत: क्लान्ता भवेयुः । नूनं रोगिणः प्रवृत्ति: खेलासु प्रायो न दृश्यते। स्वस्थाश्च बालकाः क्रीडाक्षेत्रं गन्तुकामा भवन्ति । अत एवेदं मतमंशतः सत्यम्।
 
===(आ) पुनरावर्तनमतम् –''' <ref group="spelling"> Recapitulation theory of G. Stanley Hall (1846-1924) of JohnJohns Hopkins University. </ref> '''===
 
अस्य मतस्योद्भावका वण्टमहोदयानां शिष्यवरेण्या १९३९ वैक्रमाब्दे जानहापकिन्सविश्वविद्यालयेऽमेरिकादेशे प्रथममनोवैज्ञानिकानुसन्धान- प्रयोगशालासंस्थापकाः प्राध्यापकप्रवराः स्टेनलीहॉलमहोदयाः सन्ति । तन्मते बालके जन्मतो यौवनपर्यन्तं खेलादिषु पूर्वजानां संस्कृते रूपं वन्यमानुषजीवनादारभ्योत्तरं विकसदस्ति। एवम्प्रकारेण खेला विविधसभ्यतासंस्कृतिस्तरेषु मनुष्याणामितिवृत्तस्य पुनरावृत्तिरूपाः। धावनं क्रोशनं नूनं पूर्वोचितमृगयाकर्माङ्गमेवेति तेषां तात्पर्यम्। नहीदं मतं समीचीनं प्रतिभात्यस्मान् । अस्ति हि खल्वस्य मतस्य मूलकारणमेका भ्रान्तिर्यदि पूर्वजानां संस्कृतिस्तरविशेषसंस्कारास्तर्हि वंशपारम्पर्येण सन्ततावेक्षुण्णाः सङ्क्रमिता जायन्ते, तेन च वंशपारम्पर्यायत्तप्रभावेण खेलाष्वपि तथाविधेतिवृत्तसंस्कारविशेषाणां पुनरावृत्तिः सञ्जायत इति।
"https://sa.wikipedia.org/wiki/मनोविज्ञाने_मूलप्रवृत्तिः" इत्यस्माद् प्रतिप्राप्तम्