"श्रीहर्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
‘सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे’ इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। तादृश पञ्चमहाकाव्येषु एकतमस्य नैषधीयचरितस्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।
कविः
 
 
"श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-
काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।"
[[वर्गः:काव्यम्]]
श्रीहर्षः कान्यकुब्जस्य नृपस्य विजयचन्द्रस्य आस्थानविद्वान् आसीत् | विजयचन्द्रस्य पुत्रस्य जयन्तचन्द्रस्य आस्थाने अपि सः आसीत् इति श्रूयते | तस्य पिता श्रीहरिः | माता मामल्लदेवी | श्रीहर्षः द्वादशशतके आसीत् | तर्कव्याकरण - वेदान्तादिषु शास्त्रेषु श्रीहर्षः उद्दामपण्डितः | सर्वाणि अपि पुराणानि सः सम्यक् जानाति स्म | श्रीहर्षेण रचितं महाकाव्यं नैषधीयचरितम् | नलदमयन्त्योः कथा अत्र वर्णिता अस्ति | श्रीहर्षस्य भाषा अत्यन्तं प्रौढा | शब्दकर्कशता, दूरुह्या कल्पना, अर्थक्लिष्टता, श्लेषप्रियता च नैषधीयचरिते सर्वत्र दृश्यते |
"https://sa.wikipedia.org/wiki/श्रीहर्षः" इत्यस्माद् प्रतिप्राप्तम्