"नवरात्रोत्सवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तत्र नवरात्रोत्सवः अन्यतमः । अयमेव दसरामहोत्सवः इति मैसूरुनगरे महता वैभवेन अनुष्ठीयते । अयमुत्सवः जनोऽत्साहं नितरां प्रवर्धयति । निखिलं नगरं विद्युद्दीपेन अलन्कृतम्‌ । जनाः मैसूरुमुखाः सन्दृश्यन्ते । सचिवाः अधिकारिणश्च इममुत्सवं यशस्विनं कर्तुं यतन्ते । महिषमण्डलं, महिषपुरं, महिषकं , महिष्वाद्रिः, महिषनाडु, मैसूनाडु, मैसूरुनाडु, महिसूरु इत्येताभिः संज्ञाभिः कालगर्भे तदा तदा प्रख्यातं नगरं सम्प्रति ‘मैसूरु’ इत्येतया संज्ञया प्रथिता । पूर्वं कर्णाटक राज्यं मैसूरुनाम्ना व्यवह्रियते स्म । सम्प्रति क र्णाटक राज्यस्य ‘सांस्कृतिक राजधानी’ इति प्रथां लभते । प्रवासोद्यमदृष्ट्या अनुपमः मैसूरुप्रान्तः । किं तु यावत्‌ अभिवृद्धिः क र्तुं साध्ये तावत्‌ न प्रजाप्रतिनिधिभिः न संसाधिता । मैसूरुनगरं स्वतः सुन्दरम्‌ । तत्र मैसूरुराजाः कारणम्‌ । दसरावसरे इदं नगरं अन्यादृशमिव शोभते । विजयनगर साम्राज्येन उपक्रान्तः महानवमी उत्सवः अत्र एतावदनुवर्तते । रात्रिनवकं अभिव्याप्य अनुष्ठियं इदं व्रतं महानवमी इति उच्यते । दशम्यां उपसंहारं गच्छति । सैव दशमी विजयदशमी । एतदवसरे राजसौधस्य अन्तः बहिश्च धार्मिक सांस्कृ तिक कार्यक्र मः अनवरतं प्रचलति । तत्र अन्तः यथापूर्वं पराम्पराप्राप्तं धर्मकृ त्यं श्रीमद्भिः श्रीकण्टदत्तनरसिंहराज ओडयर्‌ वर्यः निरुह्यते । बहिः कर्णाटक सर्वकारेण सांस्कृतिक कार्यक्रमेण सह कृषि, उद्यम, वाणिज्यादि सम्बद्धाः कार्यक्रमाः व्यवस्थापिताः । अस्मिन्‌ वत्सरे मन्दवासरे क लासाहित्यवाणिज्ययोग सन्गीतनृत्य, कृ षि, इत्यादि संगमस्य दसरा महोत्सवः यथाविधि उद्घाटितः
"https://sa.wikipedia.org/wiki/नवरात्रोत्सवः" इत्यस्माद् प्रतिप्राप्तम्